३. वेनागपुरसुत्तवण्णना
६४. ततिये एवंनामके जनपदेति यत्थ नामग्गहणेन कोसलसद्दस्स रुळ्हीसद्दतं दस्सेति. तथा हि कोसला नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन ‘‘कोसला’’ति वुच्चति. अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय सलिङ्गवचनानि (पाणिनि १.२.५१) इच्छन्ति. अयमेत्थ रुळ्ही यथा अञ्ञत्थापि ‘‘कुरूसु विहरति, अङ्गेसु विहरती’’ति च. तब्बिसेसने पन जनपदसद्दे जातिसद्दे एकवचनमेव यथा ‘‘कोसलेसु जनपदे’’ति. चारिकन्ति चरणं. चरणं वा चारो, सो एव चारिका. तयिदं मग्गगमनं इधाधिप्पेतं, न चुण्णिकगमनमत्तन्ति आह ‘‘अद्धानगमनं गच्छन्तो’’ति. तं विभागेन दस्सेतुं ‘‘चारिका च नामेसा’’तिआदि वुत्तं. तत्थ दूरेपीति दूरेपि नातिदूरेपि. सहसा गमनन्ति सीघगमनं. महाकस्सपपच्चुग्गमनादीसूति आदि-सद्देन आळवकादीनं अत्थाय गमनं सङ्गण्हाति. भगवा हि महाकस्सपत्थेरं पच्चुग्गच्छन्तो मुहुत्तेन तिगावुतमग्गमगमासि. आळवकस्सत्थाय तिंसयोजनं, तथा अङ्गुलिमालस्स, पुक्कुसातिस्स पन पञ्चचत्तालीसयोजनं, महाकप्पिनस्स वीसयोजनसतं, धनियस्सत्थाय सत्त योजनसतानि, धम्मसेनापतिनो सद्धिविहारिकस्स वनवासिस्स तिस्ससामणेरस्स तिगावुताधिकं वीसयोजनसतं अगमासि. इमं सन्धायाति इमं अतुरितचारिकं सन्धाय.
उपलभिंसूति एत्थ सवनवसेन उपलभिंसूति इममत्थं दस्सेन्तो ‘‘सोतद्वार…पे… जानिंसू’’ति आह. सब्बम्पि वाक्यं अवधारणफलत्ता अन्तोगधावधारणन्ति आह ‘‘पदपूरणमत्ते वा निपातो’’ति. अवधारणत्थेनाति पन इमिना इट्ठत्थतोवधारणत्थं खो-सद्दग्गहणन्ति दस्सेति. अस्सोसीति पदं खो-सद्दे गहिते तेन फुल्लितमण्डितविभूसितं विय होन्तं पूरितं नाम होति, तेन च पुरिमपच्छिमपदानि संसिलिट्ठानि नाम होन्ति, न तस्मिं अग्गहितेति आह ‘‘पदपूरणेन ब्यञ्जनसिलिट्ठतामत्तमेवा’’ति. मत्तसद्दो विसेसनिवत्तिअत्थो. तेनस्स अनत्थन्तरदीपनता दस्सिता होति, एवसद्देन पन ब्यञ्जनसिलिट्ठताय एकन्तिकता.
समितपापत्ताति अच्चन्तं अनवसेसतो सवासनं समितपापत्ता. एवञ्हि बाहिरकवीतरागसेक्खासेक्खपापसमनतो भगवतो पापसमनं विसेसितं होति. तेनस्स यथाभूतगुणाधिगतमेतं नामं यदिदं समणोति दीपेति. अनेकत्थत्ता निपातानं इध अनुस्सवत्थो अधिप्पेतोति आह ‘‘खलूति अनुस्सवत्थे निपातो’’ति. आलपनमत्तन्ति पियालापवचनमत्तं. पियसमुदाहारा हेते ‘‘भो’’ति वा ‘‘आवुसो’’ति वा ‘‘देवानं पिया’’ति वा. गोत्तवसेनाति एत्थ गं तायतीति गोत्तं. गोतमोति हि पवत्तमानं वचनं बुद्धिञ्च तायति एकंसिकविसयताय रक्खतीति गोत्तं. यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, तथा अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्खातो अत्थो तानि तायति रक्खतीति वुच्चति. को पन सोति? अञ्ञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससमुदागतं तंकुलपरियापन्नसाधारणं सामञ्ञरूपन्ति दट्ठब्बं. एत्थ च समणोति इमिना परिक्खकजनेहि भगवतो बहुमतभावो दस्सितो समितपापताकित्तनतो. गोतमोति इमिना लोकियजनेहि उच्चाकुलसम्भूतता दीपिता तेन उदितोदितविपुलखत्तियकुलविभावनतो. सब्बखत्तियानञ्हि आदिभूतमहासम्मतमहाराजतो पट्ठाय असम्भिन्नं उळारतमं सक्यराजकुलं.
केनचि पारिजुञ्ञेनाति ञातिपारिजुञ्ञभोगपारिजुञ्ञादिना केनचिपि पारिजुञ्ञेन परिहानिया अनभिभूतो अनज्झोत्थटो. तथा हि तस्स कुलस्स न किञ्चि पारिजुञ्ञं लोकनाथस्स अभिजातियं, अथ खो वड्ढियेव. अभिनिक्खमने च ततोपि समिद्धतमभावो लोके पाकटो पञ्ञातोति. सक्यकुला पब्बजितोति इदं वचनं भगवतो सद्धापब्बजितभावदीपनं वुत्तं महन्तं ञातिपरिवट्टं महन्तञ्च भोगक्खन्धं पहाय पब्बजितभावसिद्धितो.
इत्थम्भूताख्यानत्थेति इत्थं एवंपकारो भूतो जातोति एवं कथनत्थे. उपयोगवचनन्ति ‘‘अब्भुग्गतो’’ति एत्थ अभि-सद्दो इत्थम्भूताख्यानत्थजोतको, तेन योगतो ‘‘तं खो पन भवन्त’’न्ति इदं सामिअत्थे उपयोगवचनं. तेनाह ‘‘तस्स खो पन भोतो गोतमस्साति अत्थो’’ति. कल्याणगुणसमन्नागतोति कल्याणेहि गुणेहि युत्तो, तन्निस्सितो तब्बिसयतायाति अधिप्पायो. सेट्ठोति एत्थापि एसेव नयो. कित्तेतब्बतो कित्ति, सा एव सद्दनीयतो सद्दोति आह ‘‘कित्तिसद्दोति कित्तियेवा’’ति. अभित्थवनवसेन पवत्तो सद्दो थुतिघोसो. सदेवकं लोकं अज्झोत्थरित्वा उग्गतोति अनञ्ञसाधारणे गुणे आरब्भ पवत्तत्ता सदेवकं लोकं अज्झोत्थरित्वा अभिभवित्वा उग्गतो.
सो भगवाति यो सो समतिंस पारमियो पूरेत्वा सब्बकिलेसे भञ्जित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि सदेवके लोके ‘‘भगवा’’ति पत्थटकित्तिसद्दो, सो भगवा. ‘‘भगवा’’ति च इदं सत्थु नामकित्तनं. तेनाह आयस्मा धम्मसेनापति ‘‘भगवाति नेतं नामं मातरा कत’’न्तिआदि (महानि. ८४). परतो पन भगवाति गुणकित्तनं. यथा कम्मट्ठानिकेन ‘‘अरह’’न्तिआदीसु नवसु ठानेसु पच्चेकं इति-सद्दं योजेत्वा बुद्धगुणा अनुस्सरियन्ति, एवं बुद्धगुणसंकित्तनेनपीति दस्सेन्तो ‘‘इतिपि अरहं इतिपि सम्मासम्बुद्धो…पे… इतिपि भगवा’’ति आह. ‘‘इतिपेतं भूतं इतिपेतं तच्छ’’न्तिआदीसु (दी. नि. १.६) विय इध इतिसद्दो आसन्नपच्चक्खकरणत्थो, पि-सद्दो सम्पिण्डनत्थो, तेन च तेसं गुणानं बहुभावो दीपितो, तानि च संकित्तेन्तेन विञ्ञुना चित्तस्स सम्मुखीभूतानेव कत्वा संकित्तेतब्बानीति दस्सेन्तो ‘‘इमिना च इमिना च कारणेनाति वुत्तं होती’’ति आह. एवं निरूपेत्वा कित्तेन्तो यो कित्तेति, तस्स भगवति अतिविय अभिप्पसादो होति.
आरकत्ताति सुविदूरत्ता. अरीनन्ति किलेसारीनं. अरानन्ति संसारचक्कस्स अरानं. हतत्ताति विद्धंसितत्ता. पच्चयादीनन्ति चीवरादिपच्चयानञ्चेव पूजाविसेसानञ्च. ततोति विसुद्धिमग्गतो (विसुद्धि. १.१२५-१२७). यथा च विसुद्धिमग्गतो, एवं तंसंवण्णनातोपि नेसं वित्थारो गहेतब्बो.
इमं लोकन्ति नयिदं महाजनस्स सम्मुखमत्तं सन्धाय वुत्तं, अथ खो अनवसेसं परियादायाति दस्सेतुं ‘‘सदेवक’’न्तिआदि वुत्तं. तेनाह ‘‘इदानि वत्तब्बं निदस्सेती’’ति. पजातत्ताति यथासकं कम्मकिलेसेहि निब्बत्तत्ता. पञ्चकामावचरदेवग्गहणं पारिसेसनयेन इतरेसं पदन्तरेन गहितत्ता. सदेवकन्ति च अवयवेन विग्गहो समुदायो समासत्थो. छट्ठकामावचरदेवग्गहणं पच्चासत्तिनयेन. तत्थ हि सो जातो तन्निवासी च. सब्रह्मकवचनेन ब्रह्मकायिकादिब्रह्मग्गहणन्ति एत्थापि एसेव नयो. पच्चत्थिकसमणब्राह्मणग्गहणन्ति निदस्सनमत्तमेतं अपच्चत्थिकानं समितबाहितपापानञ्च समणब्राह्मणानं समणब्राह्मणवचनेन गहितत्ता. कामं ‘‘सदेवक’’न्तिआदिविसेसनानं वसेन सत्तविसयो लोकसद्दोति विञ्ञायति तुल्ययोगविसयत्ता तेसं, ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति आह ‘‘पजावचनेन सत्तलोकग्गहण’’न्ति.
अरूपिनो सत्ता अत्तनो आनेञ्जविहारेन विहरन्ता दिब्बन्तीति देवाति इमं निब्बचनं लभन्तीति आह ‘‘सदेवकग्गहणेन अरूपावचरलोको गहितो’’ति. तेनाह ‘‘आकासानञ्चायतनूपगानं देवानं सहब्यत’’न्ति (अ. नि. ३.११७). समारकग्गहणेन छकामावचरदेवलोको गहितो तस्स सविसेसं मारस्स वसे वत्तनतो. सब्रह्मकग्गहणेन रूपीब्रह्मलोको गहितो अरूपीब्रह्मलोकस्स गहितत्ता. चतुपरिसवसेनाति खत्तियादिचतुपरिसवसेन. इतरा पन चतस्सो परिसा समारकादिग्गहणेन गहिता एवाति. अवसेससत्तलोको नागगरुळादिभेदो. तीहाकारेहीति देवमारब्रह्मसहिततासङ्खातेहि तीहि पकारेहि. तीसु पदेसूति ‘‘सदेवक’’न्तिआदीसु तीसु पदेसु. तेन तेनाकारेनाति सदेवकत्तादिना तेन तेन पकारेन. तेधातुकमेव परियादिन्नन्ति पोराणा आहूति योजना.
अभिञ्ञाति यकारलोपेनायं निद्देसो, अभिजानित्वाति अयमेत्थ अत्थोति आह ‘‘अभिञ्ञाय अधिकेन ञाणेन ञत्वा’’ति. अनुमानादिपटिक्खेपोति अनुमानअत्थापत्तिआदिप्पटिक्खेपो एकप्पमाणत्ता. सब्बत्थ अप्पटिहतञाणचारताय हि सब्बपच्चक्खा बुद्धा भगवन्तो.
अनुत्तरं विवेकसुखन्ति फलसमापत्तिसुखं. तेन विमिस्सापि कदाचि भगवतो धम्मदेसना होतीति ‘‘हित्वापी’’ति पि-सद्दग्गहणं. भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्मं पच्चवेक्खति, तं खणं पुब्बभागेन परिच्छिन्दित्वा फलसमापत्तिं समापज्जति, यथापरिच्छेदञ्च समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति. अप्पं वा बहुं वा देसेन्तोति उग्घटितञ्ञुस्स वसेन अप्पं वा, विपञ्चितञ्ञुस्स नेय्यस्स वा वसेन बहुं वा देसेन्तो. धम्मस्स कल्याणता च निय्यानिकता च सब्बसो अनवज्जभावेनेवाति आह ‘‘अनवज्जमेव कत्वा’’ति.
देसकायत्तेन आणादिविधिना अतिसज्जनं पबोधनं देसनाति सा परियत्तिधम्मवसेन वेदितब्बाति आह ‘‘देसनाय ताव चातुप्पदिकगाथायपी’’तिआदि. निदाननिगमानिपि सत्थु देसनाय अनुविधानतो तदन्तोगधानि एवाति आह ‘‘निदानं आदि, इदमवोचाति परियोसान’’न्ति.
सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन अनुसासनं तदङ्गविनयादिवसेन विनयनं सासनन्ति तं पटिपत्तिधम्मवसेन वेदितब्बन्ति आह ‘‘सीलसमाधिविपस्सना’’तिआदि. कुसलानन्ति अनवज्जधम्मानं सीलसमथविपस्सनानं सीलदिट्ठीनञ्च आदिभावो तंमूलिकत्ता उत्तरिमनुस्सधम्मानं. अरियमग्गस्स अन्तद्वयविगमेन मज्झिमापटिपदाभावो विय सम्मापटिपत्तिया आरब्भ निब्बत्तीनं वेमज्झतापि मज्झभावोति वुत्तं ‘‘अत्थि, भिक्खवे…पे… मज्झिमं नामा’’ति. फलं परियोसानं नाम सउपादिसेसतावसेन. निब्बानं परियोसानं नाम अनुपादिसेसतावसेन. इदानि तेसं द्विन्नम्पि सासनस्स परियोसानतं आगमेन दस्सेतुं ‘‘तस्मातिह त्व’’न्तिआदि वुत्तं. ‘‘सात्थं सब्यञ्जन’’न्तिआदिवचनतो धम्मदेसनाय आदिमज्झपरियोसानं अधिप्पेतन्ति आह ‘‘इध…पे… अधिप्पेत’’न्ति. तस्मिं तस्मिं अत्थे कथावधिसद्दप्पबन्धो गाथावसेन सुत्तवसेन च ववत्थितो परियत्तिधम्मो, सो इध देसनाति वुत्तो, तस्स पन अत्थो विसेसतो सीलादि एवाति आह ‘‘भगवा हि धम्मं देसेन्तो…पे… दस्सेती’’ति. तत्थ सीलं दस्सेत्वाति सीलग्गहणेन ससम्भारं सीलं गहितं, तथा मग्गग्गहणेन ससम्भारो मग्गोति तदुभयवसेन अनवसेसतो परियत्तिअत्थं परियादाय तिट्ठति. तेनाति सीलादिदस्सनेन. अत्थवसेन हि इध देसनाय आदिकल्याणादिभावो अधिप्पेतो. कथिकसण्ठितीति कथिकस्स सण्ठानं कथनवसेन समवट्ठानं.
न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय. एकब्यञ्जनादियुत्ता वाति सिथिलादिभेदेसु ब्यञ्जनेसु एकप्पकारेनेव द्विप्पकारेनेव वा ब्यञ्जनेन युत्ता दमिळभासा विय. विवटकरणताय ओट्ठे अफुसापेत्वा उच्चारेतब्बतो सब्बनिरोट्ठब्यञ्जना वा किरातभासा विय. सब्बस्सेव विस्सज्जनीययुत्तताय सब्बविस्सट्ठब्यञ्जना वा यवनभासा विय. सब्बस्सेव सानुसारताय सब्बनिग्गहितब्यञ्जना वा पारसिकादिमिलक्खभासा विय. सब्बापेसा ब्यञ्जनेकदेसवसेनेव पवत्तिया अपरिपुण्णब्यञ्जनाति कत्वा ‘‘अब्यञ्जना’’ति वुत्ता.
ठानकरणानि सिथिलानि कत्वा उच्चारेतब्बं अक्खरं पञ्चसु वग्गेसु पठमततियन्ति एवमादि सिथिलं. तानि असिथिलानि कत्वा उच्चारेतब्बं अक्खरं वग्गेसु दुतियचतुत्थन्ति एवमादि धनितं. द्विमत्तकालं दीघं. एकमत्तकालं रस्सं. तदेव लहुकं लहुकमेव. संयोगपरं दीघञ्च गरुकं. ठानकरणानि निग्गहेत्वा उच्चारेतब्बं निग्गहितं. परेन सम्बन्धं कत्वा उच्चारेतब्बं सम्बन्धं. तथा न सम्बन्धं ववत्थितं. ठानकरणानि विस्सट्ठानि कत्वा उच्चारेतब्बं विमुत्तं. दसधा ब्यञ्जनबुद्धिया पभेदोति एवं सिथिलादिवसेन ब्यञ्जनबुद्धिया अक्खरुप्पादकचित्तस्स दसप्पकारेन पभेदो. सब्बानि हि अक्खरानि चित्तसमुट्ठानानि यथाधिप्पेतत्थब्यञ्जनतो ब्यञ्जनानि च.
अमक्खेत्वाति अमिलेच्छेत्वा, अविनासेत्वा, अहापेत्वाति अत्थो. भगवा यमत्थं ञापेतुं एकगाथं एकवाक्यम्पि देसेति, तमत्थं ताय देसनाय परिमण्डलपदब्यञ्जनाय एव देसेतीति आह ‘‘परिपुण्णब्यञ्जनमेव कत्वा धम्मं देसेती’’ति. इध केवलसद्दो अनवसेसवाचको, न अवोमिस्सतादिवाचकोति आह ‘‘सकलाधिवचन’’न्ति. परिपुण्णन्ति सब्बसो पुण्णं. तं पन किञ्चि ऊनं वा अधिकं वा न होतीति ‘‘अनूनाधिकवचन’’न्ति वुत्तं. तत्थ यदत्थं देसितं, तस्स साधकत्ता अनूनता वेदितब्बा, तब्बिधुरस्स पन असाधकत्ता अनधिकता. सकलन्ति सब्बभागवन्तं. परिपुण्णमेवाति सब्बसो परिपुण्णमेव. तेनाह ‘‘एकदेसनापि अपरिपुण्णा नत्थी’’ति. अपरिसुद्धा देसना नाम होति तण्हासंकिलेसत्ता. लोकामिसं चीवरादयो पच्चया, तत्थ अगधितचित्तताय लोकामिसनिरपेक्खो. हितफरणेनाति हितूपसंहरणेन. मेत्ताभावनाय मुदुहदयोति मेत्ताभावनाय करुणाय वा मुदुहदयो. उल्लुम्पनसभावसण्ठितेनाति सकलसंकिलेसतो वट्टदुक्खतो च उद्धरणाकारावट्ठितेन चित्तेन, करुणाधिप्पायेनाति अत्थो. तस्माति यस्मा सिक्खत्तयसङ्गहं सकलं सासनं इध ब्रह्मचरियन्ति अधिप्पेतं, तस्मा. ब्रह्मचरियन्ति इमिना समानाधिकरणानि सब्बपदानि योजेत्वा अत्थं दस्सेन्तो ‘‘सो धम्मं देसेति…पे… पकासेतीति एवमेत्थ अत्थो दट्ठब्बो’’ति आह.
सुन्दरन्ति भद्दकं. भद्दकता च पस्सन्तस्स हितसुखावहभावेन वेदितब्बाति आह ‘‘अत्थावहं सुखावह’’न्ति. तत्थ अत्थावहन्ति दिट्ठधम्मिकसम्परायिकपरमत्थसंहितहितावहं. सुखावहन्ति यथावुत्ततिविधसुखावहं. तथानुरूपानन्ति तादिसानं. यादिसेहि पन गुणेहि भगवा समन्नागतो, तेहि चतुप्पमाणिकस्स लोकस्स सब्बथापि अच्चन्तप्पसादनीयो तेसं यथाभूतसभावत्ताति दस्सेन्तो ‘‘यथारूपो’’तिआदिमाह. तत्थ यथाभूत…पे… अरहतन्ति इमिना धम्मप्पमाणलूखप्पमाणानं सत्तानं भगवतो पसादावहता दस्सिता, इतरेन इतरेसं. दस्सनमत्तम्पि साधु होतीति एत्थ कोसियवत्थु कथेतब्बं. उभतोपक्खिकाति मिच्छादिट्ठिसम्मादिट्ठिवसेन उभयपक्खिका. केराटिकाति सठा.
अनेकत्थत्ता निपातानं यावञ्चिदन्ति निपातसमुदायो अधिमत्तप्पमाणपरिच्छेदं दीपेतीति आह ‘‘अधिमत्तप्पमाणपरिच्छेदवचनमेत’’न्ति. अधिमत्तविप्पसन्नानीति अधिकप्पमाणेन विप्पसन्नानि. विप्पसन्नानीति च पकतिआकारं अतिक्कमित्वा विप्पसन्नानीति अत्थो. ननु च चक्खादीनं इन्द्रियानं मनोविञ्ञेय्यत्ता कथं तेन तेसं विप्पसन्नता विञ्ञायतीति आह ‘‘तस्स ही’’तिआदि. तस्साति ब्राह्मणस्स. तेसन्ति चक्खादीनं पञ्चन्नं इन्द्रियानं. एवम्पि मनिन्द्रियेन पतिट्ठितोकासस्स अदिट्ठत्ता कथं मनिन्द्रियस्स विप्पसन्नता तेन विञ्ञायतीति आह ‘‘यस्मा पना’’तिआदि. नयग्गाहपञ्ञा हेसा तस्स ब्राह्मणस्स. मने विप्पसन्नेयेव होति पसन्नचित्तसमुट्ठितरूपसम्पदाहि एव चक्खादीनं पतिट्ठितोकासस्स पसन्नतासम्भवतो.
जम्बोनदसुवण्णं रत्तवण्णमेव होतीति आह ‘‘सुरत्तवण्णस्सा’’ति. जम्बोनदसुवण्णस्स घटिकाति जम्बोनदसुवण्णपिण्डं. इमिना नेक्खन्ति नेक्खप्पमाणजम्बोनदसुवण्णेन कतं अकतभण्डं वुत्तन्ति दस्सेति. नेक्खन्ति वा अतिरेकपञ्चसुवण्णेन कतपिलन्धनं कतभण्डं वुत्तं. तञ्हि घट्टनमज्जनक्खमं होतीति. सुवण्णन्ति च पञ्चधरणस्स समञ्ञा, तस्मा पञ्चवीसतिधरणहिरञ्ञविचितं आभरणं इध नेक्खन्ति अधिप्पेतं. जम्बोनदन्ति महाजम्बुसाखाय पवत्तनदियं निब्बत्तं. तं किर रतनं रत्तं. सुवण्णाकारे महाजम्बुफलरसे वा पथवियं पविट्ठे सुवण्णङ्कुरा उट्ठहन्ति, तेन सुवण्णेन कतपिलन्धनन्तिपि अत्थो. सुपरिकम्मकतन्ति सुट्ठु कतपरिकम्मं. सम्पहट्ठन्ति सम्मा पहट्ठं घट्टनादिवसेन सुकतपरिकम्मं. तेनाह ‘‘सुवण्णकार…पे… सुपरिमज्जितन्ति अत्थो’’ति.
वाळरूपानीति आहरिमानि वाळरूपानि. ‘‘अकप्पियरूपाकुलो अकप्पियमञ्चो पल्लङ्कोति सारसमासे. रतनचित्रन्ति भित्तिच्छेदादिवसेन रतनचित्रं. रुक्खतूललतातूलपोटकितूलानं वसेन तिण्णं तूलानं. उद्दलोमियं केचीति सारसमासाचरिया उत्तरविहारिनो च. तथा एकन्तलोमियं. कोसेय्यकट्टिस्समयन्ति कोसेय्यकसटमयं. अजिनचम्मेहीति अजिनमिगचम्मेहि. तानि किर चम्मानि सुखुमतरानि. तस्मा दुपट्टतिपट्टानि कत्वा सिब्बन्ति. तेन वुत्तं ‘‘अजिनप्पवेणी’’तिआदि.
निकामलाभीति यथिच्छितलाभी. तेनाह ‘‘इच्छितिच्छितलाभी’’ति. विपुललाभीति उळारलाभी. कसिरन्ति हि परित्तं वुच्चति, तप्पटिक्खेपेन अकसिरं उळारं. तेनाह ‘‘महन्तलाभी’’तिआदि.
लद्धा च न कप्पन्तीति सामञ्ञेन पटिसिद्धत्ता सब्बथा न कप्पतीति कस्सचि आसङ्का सिया, तन्निवत्तनत्थं ‘‘किञ्चि किञ्चि कप्पती’’तिआदिमाह. तत्थ सुद्धकोसेय्यन्ति रतनपरिसिब्बनरहितं. एत्थ च ‘‘सुद्धकोसेय्यं पन वट्टती’’ति विनये (महाव. अट्ठ. २५४) वुत्तत्ता इधापि एत्तकमेव वुत्तं. दीघनिकायट्ठकथायं (दी. नि. अट्ठ. १.१५) पन ‘‘ठपेत्वा तूलिकं सब्बानेव गोनकादीनि रतनपरिसिब्बितानि न वट्टन्ती’’ति वुत्तं. तत्थ ‘‘ठपेत्वा तूलिक’’न्ति एतेन रतनसिब्बनरहितापी तूलिका न वट्टतीति दीपेति. वचनतोति एतेन विनये (चूळव. २९७) वुत्तभावं दस्सेति. एकेन विधानेनाति यथावुत्तमेव विधानं सन्धाय वदति. यदि एवं कस्मा भगवता ‘‘लद्धा च न कप्पन्ती’’ति सामञ्ञेन पटिसेधो कतोति आह ‘‘अकप्पियं पन उपादाया’’तिआदि.
पल्लङ्कन्ति एत्थ परि-सद्दो समन्ततोति एतस्मिं अत्थे वत्तति, तस्मा वामूरुं दक्खिणूरुञ्च समं ठपेत्वा उभो पादे अञ्ञमञ्ञसम्बन्धे कत्वा निसज्जा पल्लङ्कन्ति आह ‘‘समन्ततो ऊरुबद्धासन’’न्ति. ऊरूनं बन्धनवसेन निसज्जा. पल्लङ्कं आभुजित्वाति च यथा पल्लङ्कवसेन निसज्जा होति, एवं उभो पादे आभुजे समिञ्जिते कत्वाति अत्थो. तं पन उभिन्नं पादानं तथा सम्बन्धताकरणन्ति आह ‘‘बन्धित्वा’’ति. उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न पणमन्ति. अथस्स या तेसं पणमनपच्चया खणे खणे वेदना उप्पज्जेय्युं, ता न उप्पज्जन्ति. तासु अनुप्पज्जमानासु चित्तं एकग्गं होति, कम्मट्ठानं न परिपतति, वुद्धिं फातिं गच्छति. तेनाह ‘‘अट्ठारस पिट्ठिकण्टके’’तिआदि. उजुं कायं ठपेत्वाति उपरिमं कायं उजुकं ठपेत्वा, अयमेव वा पाठो. हेट्ठिमकायस्स हि अनुजुकट्ठपनं निसज्जावचनेनेव बोधितन्ति. उजुं कायन्ति एत्थ काय-सद्दो उपरिमकायविसयो.
परिमुखन्ति एत्थ परि-सद्दो अभिसद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो. एत्थ यथा ‘‘वनन्तञ्ञेव पविसामी’’तिआदिना भावनानुरूपं सेनासनं दस्सितं, एवं ‘‘निसीदामी’’ति इमिना अलीनानुद्धच्चपक्खियो सन्तो इरियापथो दस्सितो, ‘‘पल्लङ्कं आभुजित्वा’’ति इमिना निसज्जाय दळ्हभावो, ‘‘परिमुखं सतिं उपट्ठपेत्वा’’ति इमिना आरम्मणपरिग्गहूपायो. परिग्गहितनिय्यानन्ति सब्बथा गहितासम्मोसं परिच्चत्तसम्मोसं सतिं कत्वा, परमसतिनेपक्कं उपट्ठपेत्वाति अत्थो. परीति परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु (ध. स. १६.२०) विय. मुखन्ति निय्यानट्ठो ‘‘सुञ्ञतविमोक्ख’’न्तिआदीसु (पटि. म. १.२०९-२१०) विय. पटिपक्खतो निग्गमनट्ठो हि निय्यानट्ठो.
चत्तारि रूपावचरज्झानानि दिब्बभावावहत्ता दिब्बविहारा नाम होन्तीति तदासन्नप्पवत्तचङ्कमोपि तदुपचारतो दिब्बो नाम होतीति आह ‘‘चत्तारि हि रूपज्झानानी’’तिआदि. समापज्जित्वा चङ्कमन्तस्साति इदञ्च चङ्कमन्तस्स अन्तरन्तरा समापत्तिं समापज्जित्वा उट्ठायुट्ठाय चङ्कमनं सन्धाय वुत्तं. न हि समापत्तिं समापज्जित्वा अवुट्ठितेन सक्का चङ्कमितुं. समापत्तितो वुट्ठाय चङ्कमन्तस्सपि चङ्कमोति इदं पन समापत्तितो वुट्ठहित्वा अन्तरन्तरा समापज्जित्वा चङ्कमन्तस्स वसेन वुत्तं. द्वीसुविहारेसूति ब्रह्मविहारे, अरियविहारे च. मेत्ताझानादयो हितूपसंहारादिवसेन पवत्तिया ब्रह्मभूता सेट्ठभूता विहाराति ब्रह्मविहारा. अनञ्ञसाधारणत्ता पन अरियानं विहाराति अरियविहारा, चतस्सोपि फलसमापत्तियो. इध पन अरहत्तफलसमापत्तियेव आगता.
पच्चवेक्खणाय फलसमापत्ति कथिता समापत्तिं समापज्जित्वा वुट्ठितस्स पच्चवेक्खणासम्भवतो. चङ्कमादयोति फलसमापत्तिं समापन्नस्सपि समापत्तितो वुट्ठितस्सपि चङ्कमट्ठाननिसज्जादयो. अरियचङ्कमादयो होन्ति न पन पच्चवेक्खन्तस्साति अधिप्पायो.
वेनागपुरसुत्तवण्णना निट्ठिता.