४. सरभसुत्तवण्णना

६५. चतुत्थे गिज्झा एत्थ सन्तीति गिज्झं, कूटं. तं एतस्साति गिज्झकूटो. गिज्झो वियाति वा गिज्झं, कूटं. तं एतस्साति गिज्झकूटो, पब्बतो. तस्मिं गिज्झकूटे. तेनाह ‘‘गिज्झा वा’’तिआदि. अचिरपक्कन्तोति एत्थ न देसन्तरपक्कमनं अधिप्पेतं, अथ खो सासनपक्कमनन्ति दस्सेन्तो ‘‘इमस्मिं सासने पब्बजित्वा’’तिआदिमाह, तेनेव हि ‘‘इमस्सा धम्मविनया’’ति वुत्तं. लब्भतीति लाभो, चतुन्नं पच्चयानमेतं अधिवचनं. सक्कच्चं कातब्बो दातब्बोति सक्कारो. पच्चया एव हि पणीतपणीता सुन्दरसुन्दरा अभिसङ्खरित्वा कता सक्काराति वुच्चन्ति. सक्कारोति वा सुन्दरकारो, परेहि अत्तनो गारवकिरिया पुप्फादीहि वा पूजा. लाभो च सक्कारो च लाभसक्कारा, ते नट्ठा पहीना एतेसन्ति नट्ठलाभसक्कारा.

महालाभसक्कारो उप्पज्जीति तदा किर भगवतो महालाभसक्कारो उप्पज्जि यथा तं चत्तारो असङ्खेय्ये पूरितदानपारमिसञ्चयस्स. सब्बदिसासु हि यमकमहामेघो वुट्ठहित्वा महोघो विय सब्बपारमियो ‘‘एकस्मिं अत्तभावे विपाकं दस्सामा’’ति सम्पिण्डिता विय लाभसक्कारमहोघं निब्बत्तयिंसु. ततो ततो अन्नपानयानवत्थमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो आगन्त्वा ‘‘कहं बुद्धो, कहं भगवा, कहं देवदेवो नरासभो पुरिससीहो’’ति भगवन्तं परियेसन्ति, सकटसतेहिपि पच्चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणम्पि सकटधुरेन सकटधुरं आहच्च तिट्ठन्ति चेव अनुबन्धन्ति च अन्धकविन्दब्राह्मणो विय. यथा च भगवतो, एवं भिक्खुसङ्घस्सपि. वुत्तम्पि चेतं –

‘‘तेन खो पन समयेन भगवा सक्कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं, भिक्खुसङ्घोपि सक्कतो होति…पे… परिक्खारान’’न्ति (उदा. ३८).

तथा –

‘‘यावता खो पन, चुन्द, एतरहि सङ्घो वा गणो वा लोके उप्पन्नो, नाहं, चुन्द, अञ्ञं एकं सङ्घम्पि समनुपस्सामि एवंलाभग्गयसग्गप्पत्तं यथरिवायं, चुन्द, भिक्खुसङ्घो’’ति (दी. नि. ३.१७६).

स्वायं भगवतो च सङ्घस्स च उप्पन्नो लाभसक्कारो एकतो हुत्वा द्विन्नं महानदीनं उदकं विय अप्पमेय्यो अहोसि, भगवतो पन भिक्खुसङ्घस्स च उप्पन्नो लाभसक्कारो धम्मस्सपि उप्पन्नोयेव. धम्मधरानञ्हि कतो सक्कारो धम्मस्स कतो नाम होति. तेन वुत्तं ‘‘तिण्णं रतनानं महालाभसक्कारो उप्पज्जी’’ति.

वुत्तमत्थं पाळिया निदस्सेन्तो ‘‘यथाहा’’तिआदिमाह. तत्थ सक्कतोति सक्कारप्पत्तो. यस्स हि चत्तारो पच्चये सक्कत्वा सुअभिसङ्खते पणीतपणीते उपनेति, सो सक्कतो. गरुकतोति गरुभावहेतूनं उत्तमगुणानं मत्थकप्पत्तिया अनञ्ञसाधारणेन गरुकारेन सब्बदेवमनुस्सेहि पासाणच्छत्तं विय गरुकतो. यस्मिञ्हि गरुभावं पच्चुपट्ठपेत्वा पच्चये देन्ति, सो गरुकतो. मानितोति सम्मापटिपत्तिया मानितो मनेन पियायितो. ताय हि विञ्ञूनं मनापता. पूजितोति माननादिपूजाय चेव चतुपच्चयपूजाय च पूजितो. यस्स हि सब्बमेतं पूजनञ्च करोन्ति, सो पूजितो. अपचितोति नीचवुत्तिकरणेन अपचितो. सत्थारञ्हि दिस्वा मनुस्सा हत्थिक्खन्धादीहि ओतरन्ति, मग्गं देन्ति, अंसकूटतो साटकं अपनेन्ति. आसनतो वुट्ठहन्ति, वन्दन्तीति एवं सो तेहि अपचितो नाम होति.

अवण्णं पत्थरित्वाति अवण्णं तत्थ तत्थ संकित्तनवसेन पत्थरित्वा. आवट्टनिमायन्ति आवट्टेत्वा गहणमायं. आवट्टेति पुरिमाकारतो निवत्तेति अत्तनो वसे वत्तेति एतायाति आवट्टनी, माया, तं आवट्टनिमायं ओसारेत्वा परिजप्पेत्वाति अत्थो. कोटितो पट्ठायाति अन्तिमकोटितो पट्ठाय. थद्धकायेन फरुसवाचाय तिण्णं रतनानं अवण्णकथनं अनत्थावहत्ता विससिञ्चनसदिसा होतीति आह ‘‘विसं सिञ्चित्वा’’ति. अञ्ञातोति आञातो. तेनाह ‘‘ञातो’’तिआदि.

कायङ्गन्ति कायमेव अङ्गं, कायस्स वा अङ्गं, सीसादि. वाचङ्गन्ति ‘‘होतु, साधू’’ति एवमादिवाचाय अवयवं. एककेनाति असहायेन. इमस्स पनत्थस्साति ‘‘चरियं चरणकाले’’तिआदिना वुत्तस्स. यतो यतो गरु धुरन्ति यस्मिं यस्मिं ठाने धुरं गरु भारिकं होति, अञ्ञे बलिबद्दा उक्खिपितुं न सक्कोन्ति. यतो गम्भीरवत्तनीति वत्तन्ति एत्थाति वत्तनी, दुम्मग्गस्सेतं नामं, यस्मिं ठाने उदकचिक्खल्लमहन्तताय वा विसमच्छिन्नतटभावेन वा मग्गो गम्भीरो होतीति अत्थो. तदास्सु कण्हं युञ्जेन्तीति अस्सूति निपातमत्तं, तदा कण्हं युञ्जेन्तीति अत्थो. यदा धुरञ्च गरु होति मग्गो च गम्भीरो, तदा अञ्ञे बलिबद्दे अपनेत्वा कण्हमेव युञ्जेन्तीति वुत्तं होति. स्वास्सु तं वहते धुरन्ति एत्थपि अस्सूति निपातमत्तमेव, सो तं धुरं वहतीति अत्थो.

गेहवेतनन्ति गेहे निवुट्ठभावहेतु दातब्बं. काळको नाम नामेनाति अञ्जनवण्णो किरेस, तेनस्स ‘‘काळको’’ति नामं अकंसु. काळकं उपसङ्कमित्वा आहाति काळको किर एकदिवसं चिन्तेसि ‘‘मय्हं माता दुग्गता मं पुत्तट्ठाने ठपेत्वा दुक्खेन पोसेति, यंनूनाहं भतिं कत्वा इमं दुग्गतभावतो मोचेय्य’’न्ति. सो ततो पट्ठाय भतिं उपधारेन्तो विचरति. अथ तस्मिं दिवसे गामगोरूपेहि सद्धिं तत्थ समीपे चरति. सत्थवाहपुत्तोपि गोसुत्तवित्तको, सो ‘‘अत्थि नु खो एतेसं गुन्नं अन्तरे सकटानि उत्तारेतुं समत्थो उसभाजानीयो’’ति उपधारयमानो बोधिसत्तं दिस्वा ‘‘अयं आजानीयो सक्खिस्सति मय्हं सकटानि उत्तारेतु’’न्ति अञ्ञासि. तेन तं उपसङ्कमित्वा एवमाह. सो अञ्ञेसं…पे… गेहमेव अगमासीति तदा किर गामदारका ‘‘किं नामेतं काळकस्स गले’’ति तस्स सन्तिकं आगच्छन्ति. सो ते अनुबन्धित्वा दूरतोव पलापेन्तो मातु सन्तिकं गतो. तं सन्धायेतं वुत्तं.

सायन्हसमयन्ति सायन्हकाले. भुम्मत्थे एतं उपयोगवचनं. न हेत्थ अच्चन्तसंयोगो सम्भवति. पटिसल्लाना वुट्ठितोति एत्थ तेहि तेहि सद्धिविहारिकअन्तेवासिकउपासकउपासिकादिसत्तेहि चेव रूपारम्मणादिसङ्खारेहि च पटिनिवत्तेत्वा अपसक्कित्वा निलीयनं विवेचनं कायचित्तेहि ततो विवित्तताय पटिसल्लानं कायविवेको, चित्तविवेको च. यो ततो दुविधविवेकतो वुट्ठितो भवङ्गप्पत्तिया सब्रह्मचारीहि समागमेन च अपेतो. सो पटिसल्लाना वुट्ठितो नाम होति. अयं पन यस्मा पटिसल्लानानं उत्तमतो फलसमापत्तितो वुट्ठासि, तस्मा ‘‘फलसमापत्तितो’’ति वुत्तं. कायसक्खिनो भविस्सामाति नामकायेन देसनासम्पटिच्छनवसेन सक्खिभूता भविस्साम. ननु च ‘‘पञ्ञत्ते आसने निसीदी’’ति इदं कस्मा वुत्तं. तित्थिया हि भगवतो पटिपक्खा, ते कस्मा तस्स आसनं पञ्ञापेन्तीति आह ‘‘तथागतो ही’’तिआदि.

विग्गाहिककथन्ति विग्गाहसंवत्तनिकं सारम्भकथं. आयाचेय्यासीति वचीभेदं कत्वा याचेय्यासि. पत्थेय्यासीति मनसा आसीसेय्यासि. पिहेय्यासीति तस्सेव वेवचनं. नित्तेजतं आपन्नोति तेजहानिया नित्तेजभावं आपन्नो, नित्तेजभूतोति अत्थो. ततो एव भिक्खुआदयोपि सम्मुखा ओलोकेतुं असमत्थताय पत्तक्खन्धो, पतितक्खन्धोति अत्थो. तेनाह ‘‘ओनतगीवो’’ति. दस्सितधम्मेसूति वुत्तधम्मेसु. वचनमत्तमेव हि तेसं, न पन दस्सनं तादिसस्सेव धम्मस्स अभावतो. भगवतो एव वा ‘‘इमे धम्मा अनभिसम्बुद्धा’’ति परस्स वचनवसेन दस्सितधम्मेसु. पटिचरिस्सतीति पटिच्छादनवसे चरिस्सति पवत्तिस्सति, पटिच्छादनत्थो एव वा चरति-सद्दो अनेकत्थत्ता धातूनन्ति आह ‘‘पटिच्छादेस्सती’’ति. अञ्ञेन वा अञ्ञन्ति पन पटिच्छादनाकारदस्सनन्ति आह ‘‘अञ्ञेन वा वचनेना’’तिआदि.

तत्थ अञ्ञं वचनन्ति यं समनुयुञ्जन्तेन भगवता परस्स दोसविभावनं वचनं वुत्तं, तं ततो अञ्ञेनेव वचनेन पटिच्छादेति. ‘‘आपत्तिं आपन्नोसी’’ति चोदकेन वुत्तवचनं विय ‘‘को आपन्नो, किं आपन्नो, किस्मिं आपन्नो, कं भणथ, किं भणथा’’तिआदिवचनेन अञ्ञं आगन्तुककथं आहरन्तो ‘‘त्वं इत्थन्नामं आपत्तिं आपन्नोसी’’ति पुट्ठो ‘‘पाटलिपुत्तं गतोम्ही’’ति वत्वा पुन ‘‘न तव पाटलिपुत्तगमनं पुच्छाम, आपत्तिं पुच्छामा’’ति वुत्ते ततो राजगहं गतोम्हि. राजगहं वा याहि ब्राह्मणगेहं वा, आपत्तिं आपन्नोसीति. ‘‘तत्थ मे सूकरमंसं लद्ध’’न्तिआदीनि वदन्तो विय समनुयुञ्जकेन वुत्तवचनतो अञ्ञं आगन्तुककथं आहरन्तो अपनामेस्सति, विक्खेपं गमयिस्सति. अप्पतीता होन्ति तेन अतुट्ठा असोमनस्सिकाति अपच्चयो, दोमनस्सेतं अधिवचनं. नेव अत्तनो, न परेसं हितं अभिराधयतीति अनभिरद्धि, दोमनस्समेव. तेनेवाह ‘‘अपच्चयेन दोमनस्सं वुत्त’’न्ति.

यस्स खो पन ते अत्थाय धम्मो देसितोति एत्थ धम्म-सद्देन चतुसच्चधम्मो वुत्तोति आह ‘‘यस्स मग्गस्स वा फलस्स वा अत्थाया’’ति. चतुसच्चधम्मो हि मग्गफलाधिगमत्थाय देसीयति. न निग्गच्छतीति न पवत्तेति. नन्ति नं धम्मं. इदानि ‘‘यस्स खो पन ते अत्थाय धम्मो देसितो’’ति एत्थ धम्म-सद्देन पटिपत्तिधम्मो दस्सितो, न पन चतुसच्चधम्मोति अधिप्पायेन अत्थविकप्पं दस्सेन्तो ‘‘अथ वा’’तिआदिमाह. पञ्च धम्माति गम्भीरञाणचरियभूतानं खन्धादीनं उग्गहसवनधारणपरिचययोनिसोमनसिकारे सन्धायाह. तक्करस्स सम्मा दुक्खक्खयायाति एत्थ सम्मासद्दो उभयत्थापि योजेतब्बो ‘‘सम्मा तक्करस्स सम्मा दुक्खक्खयाया’’ति. यो हि सम्मा धम्मं पटिपज्जति, तस्सेव सम्मा दुक्खक्खयो होतीति. यो पन वुत्तनयेन तक्करो, तस्स निय्यानं अत्थतो धम्मस्सेव निय्यानन्ति तप्पटिक्खेपेन ‘‘सो धम्मो…पे… न निय्याति न निग्गच्छती’’ति आह.

यदि तिरच्छानसीहस्स नादो सब्बतिरच्छानएकच्चमनुस्सामनुस्सनादतो सेट्ठत्ता सेट्ठनादो, किमङ्गं पन तथागतसीहस्स नादोति आह ‘‘सीहनादन्ति सेट्ठनाद’’न्ति. यदि वा तिरच्छानसीहनादस्स सेट्ठनादता निब्भयताय अप्पटिसत्तुताय इच्छिता, तथागतसीहनादस्सेव अयमत्थो सातिसयोति आह ‘‘अभीतनादं अप्पटिनाद’’न्ति. ‘‘अट्ठानमेतं अनवकासो’’तिआदिना (म. नि. ३.१२९; अ. नि. १.२६८-२७१) हि यो अत्थो वुत्तो, तस्स भूतताय अयं नादो सेट्ठनादो नाम होति उत्तमनादो. भूतत्थो हि उत्तमत्थोति. इममत्थं पन वदन्तस्स भगवतो अञ्ञतो भयं वा आसङ्का वा नत्थीति अभीतनादो नाम होति. अभूतञ्हि वदतो कुतोचि भयं वा आसङ्का वा सिया, एवं पन वदन्तं भगवन्तं कोचि उट्ठहित्वा पटिबाहितुं समत्थो नाम नत्थीति अयं नादो अप्पटिनादो नाम होति.

समन्ततो निग्गण्हनवसेन तोदनं विज्झनं सन्नितोदकं, सम्मा वा नितुदन्ति पीळेन्ति एतेनाति सन्नितोदकं. वाचायाति च पच्चत्ते करणवचनं. तेनाह ‘‘वचनपतोदेना’’ति. सञ्जम्भरिमकंसूति समन्ततो सम्भरितं अकंसु, सब्बे परिब्बाजका वाचातोदनेहि तुदिंसूति अत्थो. तेनाह ‘‘सम्भरितं…पे… विज्झिंसू’’ति. सिङ्गालकंयेवाति सिङ्गालमेव, ‘‘सेगालकंयेवा’’तिपि पाठो. तस्सेवाति सिङ्गालरवस्सेव. अथ वा भेरण्डकंयेवाति भेदण्डसकुणिसदिसंयेवाति अत्थो. भेदण्डं नाम एको पक्खी द्विमुखो, तस्स किर सद्दो अतिविय विरूपो अमनापो. तेनाह ‘‘अपिच भिन्नस्सरं अमनापसद्दं नदती’’ति. सेसमेत्थ उत्तानमेव.

सरभसुत्तवण्णना निट्ठिता.