२. भयसुत्तवण्णना
६३. दुतिये परित्तातुं समत्थभावेनाति उप्पन्नभयतो रक्खितुं समत्थभावेन. नत्थि एत्थ मातापुत्तं अञ्ञमञ्ञं तायितुं समत्थन्ति अमातापुत्तानि, तानियेव अमातापुत्तिकानि. तेनाह ‘‘नत्थि एत्था’’तिआदि. यन्ति भुम्मत्थे उपयोगवचनन्ति आह ‘‘यस्मिं समये’’ति. मातापि पुत्तं पस्सितुं न लभति, परित्तातुं न समत्थन्ति अधिप्पायो. पुत्तोपि मातरन्ति एत्थापि एसेव नयो. चित्तुत्रासोयेव भयं चित्तुत्रासभयं. इमिना ओत्तप्पभयादिं निवत्तेति. अटविग्गहणेन अटविवासिनो वुत्ता ‘‘सब्बो गामो आगतो’’तिआदीसु वियाति आह ‘‘अटवीति चेत्थ अटविवासिनो चोरा वेदितब्बा’’ति. एतेति अटविवासिनो चोरा. एतं वुत्तन्ति ‘‘अटविसङ्कोपो’’ति इदं वुत्तं. ठानगमनादिइरियापथचक्कसमङ्गिनो इरियापथचक्कसमारुळ्हा नाम होन्तीति आह ‘‘इरियापथचक्कम्पि वट्टती’’ति. इरियापथोयेव पवत्तनट्ठेन चक्कन्ति इरियापथचक्कं.
परियायन्तीति परितो तेन तेन दिसाभागेन गच्छन्ति. तेनाह ‘‘इतो चितो च गच्छन्ती’’ति. मातुपेमेन गन्तुं अविसहित्वा अत्तनो सन्तिकं आगच्छन्तं. अत्तसिनेहस्स बलवभावतो मातरम्पि अनपेक्खित्वा ‘‘अत्तानंयेव रक्खिस्सामी’’ति गच्छन्तं. एकस्मिं ठाने निलीनन्ति वुत्तनयेनेव गन्त्वा एकस्मिं खेमे पदेसे निसिन्नं. कुल्ले वातिआदीसु कूलं परतीरं वहति पापेतीहि कुल्लो, तरणत्थाय वेळुनळादीहि कलापं कत्वा बद्धो. पत्थरित्वा बद्धो पन उळुम्पो, चाटिआदि मत्तिकाभाजनं. वुय्हमानन्ति उदकोघेन अधोसोतं नीयमानं.
यथावुत्तानि तीणि भयानि समातापुत्तिकानियेव अस्सुतवतो पुथुज्जनस्स वसेन अमातापुत्तिकानि दस्सितानीति आह ‘‘एवं परियायतो अमातापुत्तिकानि भयानि दस्सेत्वा’’ति.
भयसुत्तवण्णना निट्ठिता.