२. तिठानसुत्तवण्णना

४२. दुतिये मच्छरियमेव मलं मच्छरियमलं, चित्तस्स मलीनसभावापादनतो विगतं मच्छरियमलं एत्थाति विगतमच्छरियमलं. गेधाभावेन कोचि किञ्चि देन्तोपि तत्थ आसत्तिं न विस्सज्जेति, अयं पन न तादिसोति आह ‘‘विस्सट्ठचागो’’ति. मलीनहत्थोव चित्तविसुद्धिया अभावतो. धोतहत्थोव धोतहत्थेन कातब्बकिच्चसाधनतो. तेन वुत्तं – ‘‘चित्ते सुद्धे विसुज्झन्ति, इति वुत्तं महेसिना’’ति. याचितुं युत्तो याचकानं मनोरथपूरणतो. याचयोगो पयोगासहेहि याचकेहि सुट्ठु युत्तभावतो. तंसमङ्गी एव तत्थ रतो नाम, न चित्तमत्तेनेवाति आह ‘‘दानं…पे… रतो नाम होती’’ति.

‘‘उच्चा, भन्ते’’ति वत्वा अयं मं उच्चतो वदतीति चिन्तेय्याति पुन ‘‘नातिउच्चा तुम्हे’’ति आह, सरीरेनाति अधिप्पायो. मेचकवण्णस्साति नीलोभासस्स. पुच्छीति भिक्खू पुच्छि. भूमियं लेखं लिखन्तो अच्छीति पठमं मञ्चे निपज्जित्वा उट्ठाय भूमियं लेखं लिखन्तो अच्छि ‘‘अखीणासवोति मञ्ञना होतू’’ति. तथा हि राजा खीणासवस्स नाम…पे… निवत्ति. धजपग्गहितावाति पग्गहितधजाव. सिलाचेतियट्ठानन्ति थूपारामस्स च महाचेतियस्स च अन्तरे सिलाय कतचेतियट्ठानं. चेतियं…पे… अट्ठासि सावकस्स तं कूटागारन्ति कत्वा.

पच्छाभागेनाति धम्मकथिकस्स थेरस्स पिट्ठिपस्सेन. गोनसोति मण्डलसप्पो. धम्मस्सवनन्तराय बहूनं सग्गमग्गप्पटिलाभन्तरायो भवेय्याति अधिप्पायेन ‘‘धम्मस्सवनन्तरायं न करिस्सामी’’ति चिन्तेसि. विसं विक्खम्भेत्वाति विपस्सनातेजेन विसवेगं विक्खम्भेत्वा. गाथासहस्सन्ति गाथासहस्सवन्तं. पट्ठानगाथायाति पट्ठापनगाथाय, आदिगाथायाति अत्थो. पट्ठान…पे… अवसानगाथं एव ववत्थपेसि, न द्विन्नं अन्तरे वुत्तं किलन्तकायत्ता. सरभाणं सायन्हधम्मकथा. पग्गण्हातीति पच्चक्खं करोन्ती गण्हाति, सक्कच्चं सुणातीति अत्थो. धम्मकथनदिवसे धम्मकथिकानं अकिलमनत्थं सद्धा उपासका सिनिद्धभोजनं मधुपानकञ्च देन्ति सरस्स मधुरभावाय सप्पिमधुकतेलादिञ्च भेसज्जं. तेनाह ‘‘अरियवंसं कथेस्सामी’’तिआदि. चतूहि दाठाहि डंसित्वाति दळ्हदट्ठभावदस्सनं. चरिस्सामीति सम्मानेस्सामि, सक्कच्चं सुणिस्सामीति अत्थो. निम्मथेत्वाति निम्मद्दित्वा, अपनेत्वाति अत्थो.

तिठानसुत्तवण्णना निट्ठिता.