३. अत्थवससुत्तवण्णना

४३. ततिये अत्थो नाम फलं, तं एतस्स वसोति अत्थवसो. हेतु, अत्थो एतस्स अत्थीति अत्थो, सो एवाति आह ‘‘तयो अत्थे तीणि कारणानी’’ति. धम्मदेसना नाम उक्कट्ठनिद्देसेन चतुन्नं अरियसच्चानं पकासनाति आह ‘‘चतुसच्चधम्मं पकासेती’’ति. अट्ठकथं ञाणेन पटिसंवेदीति पाळिपदानं अत्थं विवरणञाणेन पटि पटि संवेदनसीलो ‘‘अयं इमस्स भासितस्स अत्थो’’ति. एतेन अत्थपटिसम्भिदाब्यापारमाह. पाळिधम्मं पटिसंवेदीति पाळिगतिं पाळिं पदविवरणं पटि पटि संवेदनसीलो. एतेन धम्मपटिसम्भिदाब्यापारमाह.

अत्थवससुत्तवण्णना निट्ठिता.