५. हत्थकसुत्तवण्णना
३५. पञ्चमे आळवियन्ति आळविरट्ठे, न आळविनगरे. तेनाह ‘‘आळवियन्ति आळविरट्ठे’’ति. अथाति अविच्छेदत्थे निपातो. तत्थ भगवतो निसज्जाय अविच्छिन्नाय एवाति अत्थो. तेनाह ‘‘एव’’न्तिआदि. हत्थतो हत्थं गतत्ताति आळवकस्स यक्खस्स हत्थतो सम्मासम्बुद्धस्स हत्थं, ततो राजपुरिसानं हत्थं गतत्ता.
माघस्साति माघमासस्स. एवं फग्गुनस्साति एत्थापि. खुरन्तरेहि कद्दमो उग्गन्त्वा तिट्ठतीति कद्दमो खुरन्तरेहि उग्गन्त्वा तिट्ठति. चतूहि दिसाहि वायन्तो वातो वेरम्भोति वुच्चति वेरम्भवातसदिसत्ता.
पञ्चद्वारकायन्ति पञ्चद्वारानुसारेन पवत्तं विञ्ञाणकायं. खोभयमानाति किलेसखोभवसेन खोभयमाना चित्तं सङ्खोभं करोन्ता. चेतसिकाति मनोद्वारिकचित्तसन्निस्सिता. तेनाह ‘‘मनोद्वारं खोभयमाना’’ति. सो रागोति तंसदिसो रागो. भवति हि तंसदिसे तब्बोहारो यथा ‘‘सा एव तित्तिरिका, तानि एव ओसधानी’’ति. यादिसो हि एकस्स पुग्गलस्स उप्पज्जनकरागो, तादिसो एव ततो अञ्ञस्स रागभावसामञ्ञतो. तेन वुत्तं ‘‘तथारूपो रागो’’तिआदि. इच्छितालाभेन रजनीयेसु वा निरुद्धेसु वत्थूसु दोमनस्सुप्पत्तिया दोसपरिळाहानं सम्भवो वेदितब्बो.
न लिम्पति अनुपलित्तचित्तत्ता. सीतिभूतो निब्बुतसब्बपरिळाहत्ता. आसत्तियो वुच्चन्ति तण्हायो तत्थ तत्थ आसञ्जनट्ठेन. दरथन्ति परिळाहजातं. चेतसोति सामिवचनं.
हत्थकसुत्तवण्णना निट्ठिता.