६. देवदूतसुत्तवण्णना

३६. छट्ठे देवदूतानीति लिङ्गविपल्लासं कत्वा वुत्तन्ति आह ‘‘देवदूता’’ति, उभयलिङ्गं वा एतं पदं, तस्मा नपुंसकलिङ्गवसेन पाळियं वुत्तस्स पुल्लिङ्गवसेन अत्थदस्सनं कतं. देवोति मच्चूति अभिभवनट्ठेन सत्तानं अत्तनो वसे वत्तापनतो मच्चुराजा ‘‘देवो’’ति वुच्चति. यथा हि देवो पकतिसत्ते अभिभवति, एवं मच्चु सब्बसत्ते अभिभवति, तस्मा देवो वियाति देवो. ‘‘तस्स दूता’’ति वत्वा इदानिस्स दूते तेसं दूतभावञ्च विभावेतुं ‘‘जिण्णब्याधिमता ही’’तिआदि वुत्तं. तेन चोदनत्थेन देवस्स दूता वियाति देवदूताति दस्सेति. ‘‘अहं असुकं पमद्दितुं आगमिस्सामि, तुवं तस्स केसे गहेत्वा मा विस्सज्जेही’’ति मच्चुदेवस्स आणाकरा दूता वियाति हि दूताति वुच्चन्ति.

इदानि सद्धातब्बट्ठेन देवा विय दूताति देवदूताति दस्सेन्तो ‘‘देवा विय दूता’’तिआदिमाह. तत्थ अलङ्कतप्पटियत्तायाति इदं अत्तनो दिब्बानुभावं आविकत्वा ठितायाति दस्सनत्थं वुत्तं. देवताय ब्याकरणसदिसमेव होति न चिरस्सेव जराब्याधिमरणस्स सम्भवतो. विसुद्धिदेवानन्ति खीणासवब्रह्मानं. ते हि चरिमभवे बोधिसत्तानं जिण्णादिभेदं दस्सेन्ति, तस्मा अन्तिमभविकबोधिसत्तानं विसुद्धिदेवेहि उपट्ठापितभावं उपादाय तदञ्ञेसम्पि तेहि अनुपट्ठापितानम्पि तथा वोहरितब्बता परियायसिद्धाति वेदितब्बा. दिस्वावाति विसुद्धिदेवेहि दस्सिते दिस्वाव. ततोयेव हि ते विसुद्धिदेवानं दूता वुत्ता.

कस्मा आरद्धन्ति केवलं देवदूते एव सरूपतो अदस्सेत्वाति अधिप्पायो. देवानं दूतानं दस्सनूपायत्ता तथा वुत्तन्ति दस्सेन्तो ‘‘देवदूता…पे… समनुयुञ्जती’’ति आह. तत्थ देवदूता…पे… दस्सनत्थन्ति देवदूतानं अनुयुञ्जनट्ठानूपगस्स कम्मस्स दस्सनत्थं.

एकच्चे थेराति अन्धकादिके विञ्ञाणवादिनो च सन्धाय वदति. नेरयिके निरये पालेन्ति ततो निग्गन्तुं अप्पदानवसेन रक्खन्तीति निरयपाला. अथ वा निरयपालताय नेरयिकानं निरयदुक्खेन परियोनद्धाय अलं समत्थाति निरयपाला. तन्ति ‘‘नत्थि निरयपाला’’ति वचनं. पटिसेधितमेवाति ‘‘अत्थि निरयेसु निरयपाला अत्थि च कारणिका’’तिआदिना नयेन अभिधम्मे (कथा. ८६६) पटिसेधितमेव. यदि निरयपाला नाम न सियुं, कम्मकारणापि न भवेय्य. सति हि कारणिके कम्मकारणाय भवितब्बन्ति अधिप्पायो. तेनाह ‘‘यथा ही’’तिआदि. एत्थाह – ‘‘किं पनेते निरयपाला नेरयिका, उदाहु अनेरयिका’’ति. किञ्चेत्थ – यदि ताव नेरयिका निरयसंवत्तनियेन कम्मेन निब्बत्ता, सयम्पि निरयदुक्खं पच्चनुभवेय्युं, तथा सति अञ्ञेसं नेरयिकानं घातनाय असमत्था सियुं, ‘‘इमे नेरयिका इमे निरयपाला’’ति ववत्थानञ्च न सिया. ये च ये घातेन्ति, तेहि समानरूपबलप्पमाणेहि इतरेसं भयसन्तासा न सियुं. अथ अनेरयिका, नेसं तत्थ कथं सम्भवोति? वुच्चते – अनेरयिका निरयपाला अनिरयगतिसंवत्तनियकम्मनिब्बत्तितो. निरयूपपत्तिसंवत्तनियकम्मतो हि अञ्ञेनेव कम्मुना ते निब्बत्तन्ति रक्खसजातिकत्ता. तथा हि वदन्ति सब्बत्थिवादिनो –

‘‘कोधा कुरूरकम्मन्ता, पापाभिरुचिनो तथा;

दुक्खितेसु च नन्दन्ति, जायन्ति यमरक्खसा’’ति.

तत्थ यदेके वदन्ति ‘‘यातनादुक्खं पटिसंवेदेय्युं, अथ वा अञ्ञमञ्ञं घातेय्यु’’न्तिआदि, तयिदं असारं निरयपालानं नेरयिकभावस्सेव अभावतो. यदिपि अनेरयिका निरयपाला, अयोमयाय पन आदित्ताय सम्पज्जलिताय सजोतिभूताय निरयभूमिया परिक्कममाना कथं दाहदुक्खं नानुभवन्तीति? कम्मानुभावतो. यथा हि इद्धिमन्तो चेतोवसिप्पत्ता महामोग्गल्लानादयो नेरयिके अनुकम्पन्ता इद्धिबलेन निरयभूमिं उपगता दाहदुक्खेन न बाधीयन्ति, एवं सम्पदमिदं दट्ठब्बं.

इद्धिविसयस्स अचिन्तेय्यभावतोति चे? इदम्पि तंसमानं कम्मविपाकस्स अचिन्तेय्यभावतो. तथारूपेन हि कम्मुना ते निब्बत्ता यथा निरयदुक्खेन अबाधिता एव हुत्वा नेरयिके घातेन्ति, न चेत्तकेन बाहिरविसयाभावो युज्जति इट्ठानिट्ठताय पच्चेकं द्वारपुरिसेसुपि विभत्तसभावत्ता. तथा हि एकच्चस्स द्वारस्स पुरिसस्स च इट्ठं एकच्चस्स अनिट्ठं, एकच्चस्स च अनिट्ठं एकच्चस्स इट्ठं होति. एवञ्च कत्वा यदेके वदन्ति ‘‘नत्थि कम्मवसेन तेजसा परूपतापन’’न्तिआदि, तदपाहतं होति. यं पन वदन्ति ‘‘अनेरयिकानं तेसं कथं तत्थ सम्भवो’’ति निरये नेरयिकानं यातनासब्भावभावतो. नेरयिकसत्तयातनायोग्गञ्हि अत्तभावं निब्बत्तेन्तं कम्मं तादिसनिकन्ति विनामितं निरयट्ठाने एव निब्बत्तेति. ते हि नेरयिकेहि अधिकतरबलारोहपरिणाहा अतिविय भयानकदस्सना कुरूरतरपयोगा च होन्ति. एतेनेव तत्थ नेरयिकानं विबाधककाकसुनखादीनम्पि निब्बत्तिया अत्थिभावो संवण्णितोति दट्ठब्बो.

कथमञ्ञगतिकेहि अञ्ञगतिकबाधनन्ति च न वत्तब्बं अञ्ञत्थापि तथा दस्सनतो. यं पनेके वदन्ति ‘‘असत्तसभावा एव निरये निरयपाला निरये सुनखादयो चा’’ति, तम्पेतेसं मतिमत्तं अञ्ञत्थ तथा अदस्सनतो. न हि काचि अत्थि तादिसी धम्मप्पवत्ति, या असत्तसभावा, सम्पतिसत्तेहि अप्पयोजिता च अत्थकिच्चं साधेन्ती दिट्ठपुब्बा. पेतानं पानीयनिवारकानं दण्डादिहत्थानञ्च पुरिसानं सब्भावे असत्तभावे च विसेसकारणं नत्थीति तादिसानं सब्भावे किं पापकानं वत्तब्बं. सुपिनोपघातोपि अत्थकिच्चसमत्थताय अप्पमाणं दस्सनादिमत्तेनपि तदत्थसिद्धितो. तथा हि सुपिने आहारूपभोगादिना न अत्थसिद्धि, इद्धिनिम्मानरूपं पनेत्थ लद्धपरिहारं इद्धिविसयस्स अचिन्तेय्यभावतो. इधापि कम्मविपाकस्स अचिन्तेय्यभावतोति चे? तं न, असिद्धत्ता. नेरयिकानं कम्मविपाको निरयपालाति सिद्धमेत्तं, वुत्तनयेन पाळितो च तेसं सत्तभावो एव सिद्धो. सक्का हि वत्तुं सत्तसङ्खाता निरयपालसञ्ञिता धम्मप्पवत्ति साभिसन्धिकपरूपघाति अत्थकिच्चसब्भावतो ओजाहारादि रक्खससन्तति विय. अभिसन्धिपुब्बकता चेत्थ न सक्का पटिक्खिपितुं तथा तथा अभिसन्धिया घातनतो. ततो एव न सङ्घातपब्बतेहि अनेकन्तिकता. ये पन वदन्ति ‘‘भूतविसेसा एव ते वण्णसण्ठानादिविसेसवन्तो भेरवाकारा नरकपालाति समञ्ञं लभन्ती’’ति, तदसिद्धं उजुकमेव पाळियं ‘‘अत्थि निरये निरयपाला’’ति वादस्स पतिट्ठापितत्ता.

अपिच यथा अरियविनये नरकपालानं भूतमत्तता असिद्धा, तथा पञ्ञत्तिमत्तवादिनोपि भूतमत्तता असिद्धा सब्बसो रूपधम्मानं अत्थिभावस्सेव अप्पटिजाननतो. न हि तस्स भूतानि नाम परमत्थतो सन्ति. यदि परमत्थं गहेत्वा वोहरति, अथ कस्मा चक्खुरूपादीनि पटिक्खिपतीति? तिट्ठतेसा अनवट्ठिततक्कानं अप्पहीनविपल्लासानं वादवीमंसा. एवं अत्थेव निरये निरयपालाति निट्ठमेत्थ गन्तब्बं. सति च नेसं सब्भावे असतिपि बाहिरे विसये नरके विय देसादिनियमो होतीति वादो न सिज्झति, सति एव पन बाहिरे विसये देसादिनियमोति दट्ठब्बं.

देवदूतसरापनवसेन सत्ते यथूपचिते पुञ्ञकम्मे यमेति नियमेतीति यमो. तस्स यमस्स वेमानिकपेतानं राजभावतो रञ्ञो. तेनाह ‘‘यमराजा नाम वेमानिकपेतराजा’’ति. कम्मविपाकन्ति अकुसलकम्मविपाकं. वेमानिकपेता हि कण्हसुक्कवसेन मिस्सकं कम्मं कत्वा विनिपातिकदेवता विय सुक्केन कम्मुना पटिसन्धिं गण्हन्ति. तथा हि मग्गफलभागिनोपि होन्ति, पवत्तियं पन कम्मानुरूपं कदाचि पुञ्ञफलं, कदाचि अपुञ्ञफलं पच्चनुभवन्ति. येसं पन अरियमग्गो उप्पज्जति, तेसं मग्गाधिगमतो पट्ठाय पुञ्ञफलमेव उप्पज्जतीति दट्ठब्बं. अपुञ्ञफलं पुब्बे विय कटुकं न होति, मनुस्सत्तभावे ठितानं विय मुदुकमेव होतीति अपरे. धम्मिको राजाति एत्थ तस्स धम्मिकभावो धम्मदेवपुत्तस्स विय उप्पत्तिनियतो धम्मतावसेन वेदितब्बो. द्वारेसूति अवीचिमहानरकस्स चतूसु द्वारेसु. खीणासवा ब्राह्मणा नाम उक्कट्ठनिद्देसेन.

अनुयोगवत्तन्ति अनुयोगे कते वत्तितब्बवत्तं. आरोपेन्तोति कारापेन्तो, अत्तनो पुच्छं उद्दिस्स पटिवचनं दापेन्तो पुच्छति. परस्स हि अधिप्पायं ञातुं इच्छन्तो तदुपगं पयोगं करोन्तो पुच्छति नाम. लद्धिन्ति गाहं. पतिट्ठापेन्तोति तत्थ निच्चकालं कारापेन्तो. कारणं पुच्छन्तोति युत्तिं पुच्छन्तो. समनुभासतीति यथानुयुत्तमत्थं विभूतं कत्वा कथेति.

जिण्णन्ति जरापत्तिया जिण्णं. एकच्चो दहरकालतो पट्ठाय पण्डुरोगादिना अभिभूतकायताय जिण्णसदिसो होति, अयं न तथा जरापत्तिया जिण्णोति दस्सेति. गोपानसी विय वङ्कन्ति वङ्कगोपानसी विय वङ्कं. न हि वङ्कभावस्स निदस्सनत्थं अवङ्कगोपानसी गय्हति. भग्गन्ति भग्गसरीरं कटियं भग्गकायत्ता. तेनाह ‘‘इमिनापिस्स वङ्कभावमेव दीपेती’’ति. दण्डपटिसरणन्ति ठानगमनेसु दण्डो पटिसरणं एतस्साति दण्डपटिसरणं तेन विना वत्तितुं असमत्थत्ता. तेनाह ‘‘दण्डदुतिय’’न्ति. जरातुरन्ति जराय पत्थतसंकिलन्तकायं. सब्बसो किमिहतं विय महाखल्लाटं सीसमस्साति महाखल्लाटसीसं. सञ्जातवलिन्ति समन्ततो जातवलिकं. जराधम्मोति जरापकतिको. तेनाह ‘‘जरासभावो’’ति. सभावो च नाम तेजोधातुया उण्हता विय न कदाचि विगच्छतीति आह ‘‘अपरिमुत्तो जराया’’तिआदि.

अत्थतो एवं वदति नाम, वाचाय अवदन्तोपि अत्थापत्तितो एवं वदन्तो विय होति विञ्ञूनन्ति अत्थो. तरुणो अहोसिं योब्बनेन समन्नागतो. ऊरूनं बलं एतस्स अत्थीति ऊरुबली. तेन दूरेपि गमनागमनलङ्घनादिसमत्थतं दस्सेति, बाहुबलीति पन इमिना हत्थेहि कातब्बकिच्चसमत्थतं, जवग्गहणेन वेगसा पवत्तिसमत्थतं. अन्तरहिताति नट्ठा. एत्थ च न खो पनाहन्तिआदि जराय देवदूतभावदस्सनं. तेनाह ‘‘तेनेस देवदूतो नाम जातो’’ति. आबाधस्स अत्थिताय आबाधिकं. विविधं दुक्खं आदहतीति ब्याधि, विसेसेन वा आधियति एतेनाति ब्याधि, ब्याधि संजातो एतस्साति ब्याधितं. एस नयो दुक्खितन्ति एत्थापि.

दुतियं देवदूतन्ति एत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. ब्याधिना अभिहतोति ब्याधिना बाधितो, उपद्दुतोति अत्थो.

विपरिभिन्नवण्णोति विपरिभिन्ननीलवण्णो. तञ्हि यत्थ यत्थ गहितपुब्बकं, तत्थ तत्थ पण्डुवण्णं, मंसुस्सदट्ठाने रत्तवण्णं, येभुय्येन च नीलसाटकपारुतं विय होति. तेन वुत्तं ‘‘विपरिभिन्ननीलवण्णो’’ति.

‘‘को लभति, को न लभती’’ति निरयुपगस्सेव वसेनायं विचारणाति ‘‘येन ताव बहु पापं कत’’न्तिआदि आरद्धं. बहु पापं कतन्ति बहुसो पापं कतं. तेन पापस्स बहुलीकरणमाह. बहूति वा महन्तं. महत्थोपि हि बहुसद्दो दिस्सति ‘‘बहु वत कतं अस्सा’’तिआदीसु, गरुकन्ति वुत्तं होति. सो गरुकं बहुलं वा पापं कत्वा ठितो निरये निब्बत्ततियेव, न यमपुरिसेहि यमस्स सन्तिकं नीयतीति. परित्तन्ति पमाणपरित्तताय कालपरित्तताय च परित्तं. पुरिमस्मिं अत्थे अगरूति अत्थो, दुतियस्मिं अबहुलन्ति. यथावुत्तमत्थं उपमाय विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. कत्तब्बमेव करोन्तीति दण्डमेव करोन्ति. अनुविज्जित्वाति वीमंसित्वा. विनिच्छयट्ठानन्ति अट्टकरणट्ठानं. परित्तपापकम्माति दुब्बलपापकम्मा. अत्तनो धम्मतायाति परेहि असारियमानेपि अत्तनो धम्मताय सरन्ति. ते हि पापकम्मस्स दुब्बलभावतो कतूपचितस्स च ओकासारहकुसलकम्मस्स बलवभावतो अत्तनो धम्मतायपि सरन्ति. सारियमानापीति ‘‘इदं नाम तया कतं पुञ्ञकम्म’’न्ति परेहि सारियमानापि.

आकासचेतियन्ति गिरिसिखरे अब्भोकासे विवटङ्गणे कतचेतियं. रत्तपटेनाति रत्तवण्णेन पटेन पूजेसि पटाकं कत्वा. अग्गिजालसद्दन्ति पटपटायन्तं नरके अग्गिजालसद्दं सुत्वाव. अत्तना पूजितपटं अनुस्सरीति तदा पटाकाय वातप्पहारसद्दे निमित्तस्स गहितत्ता ‘‘मया तदा आकासचेतिये पूजितरत्तपटसद्दो विया’’ति अत्तना पूजितपटं अनुस्सरि.

सुमनपुप्फकुम्भेनाति कुम्भपरिमाणेन सुमनपुप्फरासिना. ‘‘दसाधिकं नाळिसहस्सकुम्भ’’न्ति केचि, ‘‘पञ्चअम्बण’’न्ति अपरे. तीहिपिन सरति बलवतो पापकम्मेन ब्यामोहितो. तुण्ही अहोसीति ‘‘कम्मारहो अय’’न्ति तत्थ पटिकारं अपस्सन्तो तुण्ही अहोसि.

एकपक्खच्छदनमत्ताहीति मज्झिमप्पमाणस्स गेहस्स एकच्छदनप्पमाणेहि. सुत्ताहतं करित्वाति काळसुत्तं पातेत्वा. यथा रथो सब्बसो पज्जलितो होति अयोमयो, एवं युगादयोपिस्स पज्जलिता सजोतिभूता एव होन्तीति आह ‘‘सद्धिं…पे… रथे योजेत्वा’’ति. महाकूटागारप्पमाणन्ति सत्तभूमकमहाकूटागारप्पमाणं.

विभत्तोति सत्तानं साधारणेन पापकम्मुना विभत्तो. हीनं कायन्ति हीनं सत्तनिकायं, हीनं वा अत्तभावं. उपादानेति चतुब्बिधे उपादाने. अत्थतो पन तण्हादिट्ठिग्गाहोति आह ‘‘तण्हादिट्ठिग्गहणे’’ति. सम्भवति जरामरणं एतेनाति सम्भवो, उपादानन्ति आह ‘‘जातिया च मरणस्स छ कारणभूते’’ति. अनुपादाति अनुपादाय. तेनाह ‘‘अनुपादियित्वा’’ति. सकलवट्टदुक्खं अतिक्कन्ताति चरिमचित्तनिरोधेन वट्टदुक्खस्स किलेसानम्पि असम्भवतो सब्बं वट्टदुक्खं अतिक्कन्ता.

देवदूतसुत्तवण्णना निट्ठिता.