५. सचेतनसुत्तवण्णना
१५. पञ्चमे इसयो पतन्ति सन्निपतन्ति एत्थाति इसिपतनन्ति आह ‘‘बुद्धपच्चेकबुद्धसङ्खातान’’न्तिआदि. सब्बूपकरणानि सज्जेत्वाति सब्बानि रुक्खस्स छेदनतच्छनादिसाधनानि उपकरणानि रञ्ञा आणत्तदिवसेयेव सज्जेत्वा. नाना करीयति एतेनाति नानाकरणं, नानाभावोति आह ‘‘नानत्त’’न्ति. नेसन्ति सरलोपेनायं निद्देसोति आह ‘‘न एस’’न्ति. तथा अत्थेसन्ति एत्थापीति आह ‘‘अत्थि एस’’न्ति. पवत्तनत्थं अभिसङ्खरणं अभिसङ्खारो, तस्स गति वेगसा पवत्ति. तं सन्धायाह ‘‘पयोगस्स गमन’’न्ति.
सगण्डाति खुद्दानुखुद्दकगण्डा. तेनाह ‘‘उण्णतोणतट्ठानयुत्ता’’ति. सकसावाति सकसटा. तेनाह ‘‘पूतिसारेना’’तिआदि. एवं गुणपतनेन पतिताति यथा तं चक्कं नाभिअरनेमीनं सदोसताय न पतिट्ठासि, एवमेकच्चे पुग्गला कायवङ्कादिवसेन सदोसताय गुणपतनेन पतिता सकट्ठाने न तिट्ठन्ति. एत्थ च फरुसवाचादयोपि अपायगमनीया सोतापत्तिमग्गेनेव पहीयन्तीति दट्ठब्बा.
सचेतनसुत्तवण्णना निट्ठिता.