३-४. चिन्तीसुत्तादिवण्णना
३-४. ततिये एतेहीति दुच्चिन्तितचिन्तितादीहि. एतेन लक्खणसद्दस्स सरणत्थतमाह. तानेवाति लक्खणानि एव. अस्साति बालस्स. बालो अयन्ति निमीयति सञ्जानीयति एतेहीति बालनिमित्तानि. अपदानं वुच्चति, विख्यातं कम्मं, दुच्चिन्तितचिन्तितादीनि च बाले विख्यातानि असाधारणभावेन. तस्मा ‘‘बालस्स अपदानानी’’ति. अभिज्झादीहि दुट्ठं दूसितं चिन्तितं दुच्चिन्तितं, तं चिन्तेतीति दुच्चिन्तितचिन्ती. लोभादीहि दुट्ठं भासितं मुसावादादिं भासतीति दुब्भासितभासी. तेसंयेव वसेन कत्तब्बतो दुक्कटकम्मं पाणातिपातादिं करोतीति दुक्कटकम्मकारी. तेनाह ‘‘चिन्तयन्तो’’तिआदि. वुत्तानुसारेनाति ‘‘बालो अय’’न्तिआदिना वुत्तस्स अत्थवचनस्स ‘‘पण्डितो अयन्ति एतेहि लक्खीयती’’तिआदिना अनुस्सरणेन. मनोसुचरितादीनं वसेनाति ‘‘चिन्तयन्तो अनभिज्झाब्यापादसम्मादस्सनवसेन सुचिन्तितमेव चिन्तेती’’तिआदिना मनोसुचरितादीनं तिण्णं सुचरितानं वसेन योजेतब्बानि. चतुत्थं वुत्तनयत्ता उत्तानत्थमेव.
चिन्तीसुत्तादिवण्णना निट्ठिता.