५-१०. केसकम्बलसुत्तादिवण्णना
१३८-१४३. पञ्चमे तन्तावुतानं वत्थानन्ति इदं ‘‘यानि कानिची’’ति इमिना समानाधिकरणन्ति आह ‘‘पच्चत्ते सामिवचन’’न्ति. वायितानन्ति वीतानं. लामकोति निहीनो, मक्खलि मोघपुरिसोति एत्थ मक्खलीति तस्स नामं. तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं, ‘‘तात, मा खली’’ति सामिको आह. सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो. सामिको उपधावित्वा नं दुस्सकण्णे अग्गहेसि, साटकं छड्डेत्वा अचेलको हुत्वा पलायि. सो पण्णेन वा तिणेन वा पटिच्छादेतुम्पि अजानन्तो जातरूपेनेव एकं गामं पाविसि. मनुस्सा तं दिस्वा ‘‘अयं समणो अरहा अप्पिच्छो, नत्थि इमिना सदिसो’’ति पूवभत्तादीनि गहेत्वा उपसङ्कमन्ति. सो ‘‘मय्हं साटकं अनिवत्थभावेन इदं उप्पन्न’’न्ति ततो पट्ठाय साटकं लभित्वापि न निवासेसि, तदेव च पब्बज्जं अग्गहेसि. तस्स सन्तिके अञ्ञेपि अञ्ञेपीति पञ्चसता मनुस्सा पब्बजिंसु. तं सन्धायाह ‘‘मक्खलि मोघपुरिसो’’ति. छट्ठादीनि उत्तानत्थानि एव.
केसकम्बलसुत्तादिवण्णना निट्ठिता.