५. हत्थकसुत्तवण्णना

१२८. पञ्चमे अभिक्कन्ताति अतिक्कन्ता, विगताति अत्थोति आह ‘‘खये दिस्सती’’ति. तेनेव हि ‘‘निक्खन्तो पठमो यामो’’ति अनन्तरं वुत्तं. अभिक्कन्ततरोति अतिविय कन्ततरो. तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति. कोति देवनागयक्खगन्धब्बादीसु को कतमो? मेति मम. पादानीति पादे. इद्धियाति इमाय एवरूपाय देविद्धिया. यससाति इमिना एदिसेन परिवारेन परिच्छेदेन. जलन्ति विज्जोतमानो. अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन. वण्णेनाति छविवण्णेन सरीरवण्णनिभाय. सब्बा ओभासयं दिसाति दस दिसा पभासेन्तो, चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो. अभिरूपेति उळाररूपे सम्पन्नरूपे. अब्भनुमोदनेति सम्पहंसने. इध पनाति ‘‘अभिक्कन्ताय रत्तिया’’ति एतस्मिं पदे. तेनाति सुन्दरपरियायत्ता. खये वा इध अभिक्कन्तसद्दो दट्ठब्बो, तेन ‘‘अभिक्कन्ताय परिक्खीणाय रत्तिया’’ति वुत्तं होति.

रूपायतनादीसूति आदिसद्देन अक्खरादीनं सङ्गहो दट्ठब्बो. सुवण्णवण्णोति सुवण्णच्छवीति अयमेत्थ अत्थोति आह ‘‘छविय’’न्ति. तथा हि वुत्तं ‘‘कञ्चनसन्निभत्तचो’’ति (म. नि. २.३९९; सु. नि. ५५६). सञ्ञूळ्हाति सम्बन्धिता, गन्थिताति अत्थो. वण्णाति गुणवण्णाति आह ‘‘थुतिय’’न्ति, थोमनायन्ति अत्थो. कुलवग्गेति खत्तियादिकुलकोट्ठासे. तत्थ ‘‘अच्छो विप्पसन्नो’’तिआदिना वण्णितब्बट्ठेन वण्णो, छवि. वण्णनट्ठेन अभित्थवट्ठेन वण्णो, थुति. अञ्ञमञ्ञं असङ्करतो वण्णेतब्बतो ठपेतब्बतो वण्णो, खत्तियादिकुलवग्गो. वण्णीयति ञापीयति एतेनाति वण्णो, ञापककारणं. वण्णनतो थूलरस्सादिभावेन उपट्ठानतो वण्णो, सण्ठानं. महन्तं खुद्दकं मज्झिमन्ति वण्णेतब्बतो पमितब्बतो वण्णो, पमाणं. वण्णीयति चक्खुना पस्सीयतीति वण्णो, रूपायतनन्ति एवं तस्मिं तस्मिं अत्थे वण्णसद्दस्स पवत्ति वेदितब्बा. सोति वण्णसद्दो. छविया दट्ठब्बो रूपायतने गय्हमानस्सपि छविमुखेनेव गहेतब्बतो. छविगता पन वण्णधातु एव ‘‘सुवण्णवण्णो’’ति एत्थ वण्णग्गहणेन गहिताति अपरे.

केवलपरिपुण्णन्ति एकदेसम्पि असेसेत्वा निरवसेसतोव परिपुण्णन्ति अयमेत्थ अत्थोति आह ‘‘अनवसेसता अत्थो’’ति. केवलकप्पाति कप्प-सद्दो निपातो पदपूरणमत्तं, ‘‘केवलं’’इच्चेव अत्थो. केवलसद्दो च बहुलवाचीति आह ‘‘येभुय्यता अत्थो’’ति. केचि पन ‘‘ईसकं असमत्तं केवलं केवलकप्प’’न्ति वदन्ति. अनवसेसत्थो एत्थ केवलसद्दो सिया, अनत्थन्तरेन पन कप्पसद्देन पदवड्ढनं कतं ‘‘केवला एव केवलकप्पा’’ति. तथा वा कप्पनीयत्ता पञ्ञपेतब्बत्ता केवलकप्पा. अब्यामिस्सता विजातियेन असङ्करो सुद्धता. अनतिरेकता तंपरमता विसेसाभावो. केवलकप्पन्ति केवलं दळ्हं कत्वाति अत्थो. केवलं वुच्चति निब्बानं सब्बसङ्खतविवित्तत्ता, तं एतस्स अधिगतं अत्थीति केवली, सच्छिकतनिरोधो खीणासवो.

कप्प-सद्दो पनायं सउपसग्गो अनुपसग्गो चाति अधिप्पायेन ओकप्पनियपदे लब्भमानं ओकप्पसद्दमत्तं निदस्सेति, अञ्ञथा कप्पसद्दस्स अत्थुद्धारे ओकप्पनियपदं अनिदस्सनमेव सिया. समणकप्पेहीति विनयसिद्धेहि समणवोहारेहि. निच्चकप्पन्ति निच्चकालं. पञ्ञत्तीति नामं. नामञ्हेतं तस्स आयस्मतो, यदिदं कप्पोति. कप्पितकेसमस्सूति कत्तरिया छेदितकेसमस्सु. द्वङ्गुलकप्पोति मज्झन्हिकवेलाय वीतिक्कन्ताय द्वङ्गुलताविकप्पो. लेसोति अपदेसो. अनवसेसं फरितुं समत्थस्स ओभासस्स केनचि कारणेन एकदेसफरणम्पि सिया, अयं पन सब्बस्सेव फरतीति दस्सेतुं समन्तत्थो कप्पसद्दो गहितोति आह ‘‘अनवसेसं समन्ततो’’ति.

आभाय फरित्वाति वत्थमालालङ्कारसरीरसमुट्ठिताय आभाय फरित्वा. देवतानञ्हि सरीरोभासं द्वादसयोजनमत्तं ठानं. ततो भिय्योपि फरित्वा तिट्ठति, तथा वत्थाभरणादिसमुट्ठिता पभा.

हत्थकसुत्तवण्णना निट्ठिता.