४. आनेञ्जसुत्तवण्णना
११७. चतुत्थे सह ब्ययति गच्छतीति सहब्यो, सहपवत्तनको. तस्स भावो सहब्यता, सहपवत्तीति आह ‘‘सहभावं उपपज्जती’’ति. ‘‘यावतकं तेसं देवानं आयुप्पमाणं, तं सब्बं खेपेत्वा निरयम्पि गच्छती’’तिआदिवचनतो अरूपभवतो चुतस्स अपायूपपत्ति वुत्ता विय दिस्सतीति तन्निवत्तनत्थं भगवतो अधिप्पायं विवरन्तो ‘‘सन्धायभासितमिदं वचन’’न्ति दीपेति ‘‘निरयादीहि अविप्पमुत्तत्ता’’तिआदिना. न हि तस्स उपचारज्झानतो बलवतरं अकुसलं अत्थीति. इमिना ततो चवन्तानं उपचारज्झानमेव पटिसन्धिजनकं कम्मन्ति दीपेति. अधिकं पयसति पयुज्जति एतेनाति अधिप्पयासो, सविसेसं इतिकत्तब्बकिरिया. तेनाह ‘‘अधिकप्पयोगो’’ति. सेसमेत्थ उत्तानमेव.
आनेञ्जसुत्तवण्णना निट्ठिता.