१-३. पुब्बेवसम्बोधसुत्तादिवण्णना

१०४-१०६. ततियस्स पठमे सम्बोधितो पुब्बेवाति सम्बोधो वुच्चति चतूसु मग्गेसु ञाणं ‘‘सामं सम्मा बुज्झि एतेना’’ति कत्वा, ततो पुब्बेयेवाति अत्थो. तेनाह ‘‘अरियमग्गप्पत्तितो अपरभागेयेवा’’ति. बोधिसत्तस्सेव सतोति एत्थ यथा उदकतो उग्गन्त्वा ठितं परिपाकगतं पदुमं सूरियरस्मिसम्फस्सेन अवस्सं बुज्झिस्सतीति बुज्झनकपदुमन्ति वुच्चति. एवं बुद्धानं सन्तिके ब्याकरणस्स लद्धत्ता अवस्सं अनन्तरायेन पारमियो पूरेत्वा बुज्झिस्सतीति बुज्झनकसत्तोति बोधिसत्तो. तेनाह ‘‘बुज्झनकसत्तस्सेव…पे… आरभन्तस्सेव सतो’’ति. या वा एसा चतुमग्गञाणसङ्खाता बोधि, ‘‘तं बोधिं कुदास्सु नामाहं पापुणिस्सामी’’ति पत्थयमानो पटिपज्जतीति बोधियं सत्तो आसत्तोतिपि बोधिसत्तो. तेनाह ‘‘सम्बोधिया वा सत्तस्सेव लग्गस्सेव सतो’’ति.

अथ वा बोधीति ञाणं ‘‘बुज्झति एतेना’’ति कत्वा, बोधिमा सत्तो बोधिसत्तो, पुरिमपदे उत्तरपदलोपं कत्वा यथा ‘‘ञाणसत्तो’’ति, ञाणवा पञ्ञवा पण्डितो सत्तोति अत्थो. बुद्धानञ्हि पादमूले अभिनीहारतो पट्ठाय पण्डितोव सो सत्तो, न अन्धबालोति बोधिसत्तो. एवं गुणवतो उप्पन्ननामवसेन बोधिसत्तस्सेव सतो. अस्सादीयतीति अस्सादो, सुखं. तञ्च साताकारलक्खणन्ति आह ‘‘अस्सादोति मधुराकारो’’ति. छन्दरागो विनीयति चेव पहीयति च एत्थाति निब्बानं ‘‘छन्दरागविनयो छन्दरागप्पहानञ्चा’’ति वुच्चति. तेनाह ‘‘निब्बान’’न्तिआदि. तत्थ आगम्माति इदं यो जनो रागं विनेति पजहति च, तस्स आरम्मणकरणं सन्धाय वुत्तं. दुतियततियानि उत्तानत्थानेव.

पुब्बेवसम्बोधसुत्तादिवण्णना निट्ठिता.