७-१०. दुतियसिक्खासुत्तादिवण्णना
८८-९१. सत्तमे कुला कुलं गमनकोति कुलतो कुलं गच्छन्तो. द्वे वा तयो वा भवेति देवमनुस्सवसेन द्वे वा तयो वा भवे. मिस्सकभववसेन हेतं वुत्तं. देसनामत्तमेव चेतं ‘‘द्वे वा तीणि वा’’ति. याव छट्ठभवा संसरन्तोपि कोलंकोलोव होति. तेनेवाह ‘‘अयञ्हि द्वे वा भवे…पे… एवमेत्थ विकप्पो दट्ठब्बो’’ति. उळारकुलवचनो वा एत्थ कुलसद्दो, कुलतो कुलं गच्छतीति कोलंकोलो. सोतापत्तिफलसच्छिकिरियतो पट्ठाय हि नीचकुले उप्पत्ति नाम नत्थि, महाभोगकुलेसु एव निब्बत्ततीति अत्थो. केवलो हि कुलसद्दो महाकुलमेव वदति ‘‘कुलपुत्तो’’तिआदीसु विय. एकबीजीति एत्थ खन्धबीजं नाम कथितं, खन्धबीजन्ति च पटिसन्धिविञ्ञाणं वुच्चति. यस्स हि सोतापन्नस्स एकं खन्धबीजं अत्थि, एकं भवग्गहणं, सो एकबीजी नाम. तेनाह ‘‘एकस्सेव भवस्स बीजं एतस्स अत्थीति एकबीजी’’ति. ‘‘मानुसकं भव’’न्ति इदं पनेत्थ देसनामत्तमेव, ‘‘देवभवं निब्बत्तेती’’तिपि पन वत्तुं वट्टतियेव.
उद्धंवाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतं वाति उद्धंसोतो, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धमस्स मग्गसोतन्ति उद्धंसोतो. पटिसन्धिवसेन अकनिट्ठभवं गच्छतीति अकनिट्ठगामी. यत्थ कत्थचीति अविहादीसु यत्थ कत्थचि. सप्पयोगेनाति विपस्सनाञाणाभिसङ्खारसङ्खातेन पयोगेन सह, महता विपस्सनापयोगेनाति अत्थो. उपहच्चाति एतस्स उपगन्त्वाति अत्थो. तेन वेमज्झातिक्कमो कालकिरियापगमनञ्च सङ्गहितं होति, तस्मा आयुवेमज्झं अतिक्कमित्वा परिनिब्बायन्तो उपहच्चपरिनिब्बायी नाम होतीति आह ‘‘यो पन कप्पसहस्सायुकेसु अविहेसू’’तिआदि. सो तिविधो होतीति ञाणस्स तिक्खमज्झमुदुभावेन तिविधो होति. तेनाह ‘‘कप्पसहस्सायुकेसू’’तिआदि.
सद्धाधुरेन अभिनिविसित्वाति ‘‘सचे सद्धाय सक्का निब्बत्तेतुं, निब्बत्तेस्सामि लोकुत्तरमग्ग’’न्ति एवं सद्धाधुरवसेन अभिनिविसित्वा विपस्सनं पट्ठपेत्वा. पञ्ञाधुरेन अभिनिविट्ठोति ‘‘सचे पञ्ञाय सक्का, निब्बत्तेस्सामि लोकुत्तरमग्ग’’न्ति एवं पञ्ञाधुरं कत्वा अभिनिविट्ठो. यथावुत्तमेव अट्ठविधत्तं कोलंकोलसत्तक्खत्तुपरमेसु अतिदिसन्तो ‘‘तथा कोलंकोला सत्तक्खत्तुपरमा चा’’ति आह. वुत्तनयेनेव अट्ठ कोलंकोला, अट्ठ सत्तक्खत्तुपरमाति वुत्तं होति.
तत्थ सत्तक्खत्तुं परमा भवूपपत्ति अत्तभावग्गहणं अस्स, ततो परं अट्ठमं भवं नादियतीति सत्तक्खत्तुपरमो. भगवता गहितनामवसेनेव चेतानि अरियाय जातिया जातानं तेसं नामानि जातानि कुमारानं मातापितूहि गहितनामानि विय. एत्तकञ्हि ठानं गतो एकबीजी नाम होति, एत्तकं कोलंकोलो, एत्तकं सत्तक्खत्तुपरमोति भगवता एतेसं नामं गहितं. नियमतो पन अयं एकबीजी, अयं कोलंकोलो, अयं सत्तक्खत्तुपरमोति नत्थि. को पन नेसं एतं पभेदं नियमेतीति? केचि ताव थेरा ‘‘पुब्बहेतु नियमेती’’ति वदन्ति, केचि पठममग्गो, केचि उपरि तयो मग्गा, केचि तिण्णं मग्गानं विपस्सनाति.
तत्थ ‘‘पुब्बहेतु नियमेती’’ति वादे पठममग्गस्स उपनिस्सयो कतो नाम होति, ‘‘उपरि तयो मग्गा निरुपनिस्सया उप्पन्ना’’ति वचनं आपज्जति. ‘‘पठममग्गो नियमेही’’ति वादे उपरि तिण्णं मग्गानं निरत्थकता आपज्जति. ‘‘उपरि तयो मग्गा नियमेन्ती’’ति वादे पठममग्गे अनुप्पन्नेयेव उपरि तयो मग्गा उप्पन्नाति आपज्जतीति. ‘‘तिण्णं मग्गानं विपस्सना नियमेती’’ति वादो पन युज्जति. सचे हि उपरि तिण्णं मग्गानं विपस्सना बलवती होति, एकबीजी नाम होति, ततो मन्दतराय कोलंकोलो, ततो मन्दतराय सत्तक्खत्तुपरमोति.
एकच्चो हि सोतापन्नो वट्टज्झासयो होति वट्टाभिरतो, पुनप्पुनं वट्टस्मिंयेव चरति सन्दिस्सति. अनाथपिण्डिको सेट्ठि, विसाखा उपासिका, चूळरथमहारथा देवपुत्ता, अनेकवण्णो देवपुत्तो, सक्को देवराजा, नागदत्तो देवपुत्तोति इमे हि एत्तका जना वट्टज्झासया वट्टाभिरता आदितो पट्ठाय छ देवलोके सोधेत्वा अकनिट्ठे ठत्वा परिनिब्बायिस्सन्ति, इमे इध न गहिता. न केवलञ्चिमेव, योपि मनुस्सेसुयेव सत्तक्खत्तुं संसरित्वा अरहत्तं पापुणाति, योपि देवलोके निब्बत्तो देवेसुयेव सत्तक्खत्तुं अपरापरं संसरित्वा अरहत्तं पापुणाति. इमेपि इध न गहिता, कालेन देवे, कालेन मनुस्से संसरित्वा पन अरहत्तं पापुणन्तोव इध गहितो, तस्मा ‘‘सत्तक्खत्तुपरमो’’ति इदं इधट्ठकवोकिण्णभवूपपत्तिकसुक्खविपस्सकस्स नामं कथितन्ति वेदितब्बं.
‘‘सकिदेव इमं लोकं आगन्त्वा’’ति (पु. प. ३४) वचनतो पञ्चसु सकदागामीसु चत्तारो वज्जेत्वा एकोव गहितो. एकच्चो हि इध सकदागामिफलं पत्वा इधेव परिनिब्बायति, एकच्चो इध पत्वा देवलोके परिनिब्बायति, एकच्चो देवलोके पत्वा तत्थेव परिनिब्बायति, एकच्चो देवलोके पत्वा इधूपपज्जित्वा परिनिब्बायति. इमे चत्तारोपि इध न गहिता. यो पन इध पत्वा देवलोके यावतायुकं वसित्वा पुन इधूपपज्जित्वा परिनिब्बायिस्सति, अयं एकोव इध गहितोति वेदितब्बो.
इदानि तस्स पभेदं दस्सेन्तो ‘‘तीसु पन विमोक्खेसू’’तिआदिमाह. इमस्स पन सकदागामिनो एकबीजिना सद्धिं किं नानाकरणन्ति? एकबीजिस्स एकाव पटिसन्धि, सकदागामिस्स द्वे पटिसन्धियो, इदं तेसं नानाकरणं. सुञ्ञतविमोक्खेन विमुत्तखीणासवो पटिपदावसेन चतुब्बिधो होति, तथा अनिमित्तअप्पणिहितविमोक्खेहीति एवं द्वादस अरहन्ता होन्तीति आह ‘‘यथा पन सकदागामिनो, तथेव अरहन्तो द्वादस वेदितब्बा’’ति. अट्ठमनवमदसमानि उत्तानत्थानेव.
दुतियसिक्खासुत्तादिवण्णना निट्ठिता.