११. सङ्कवासुत्तवण्णना
९२. एकादसमे विहारपटिबद्धनवकम्मादिभारं हरति पवत्तेतीति भारहारो. तेनेवाह ‘‘नवे आवासे समुट्ठापेति, पुराणे पटिजग्गती’’ति. सिक्खितब्बतो सिक्खा, पज्जितब्बतो, पज्जन्ति एतेहीति वा पदानि, सिक्खायेव पदानि सिक्खापदानीति आह ‘‘सिक्खासङ्खातेहि पदेही’’ति. दस्सेतीति पच्चक्खतो दस्सेति, हत्थामलकं विय पाकटे विभूते कत्वा विभावेति. गण्हापेतीति ते धम्मे मनसा अनुपक्खिते दिट्ठिया सुप्पटिविद्धे कारेन्तो उग्गण्हापेति. समुस्साहेतीति समाधिम्हि उस्साहं जनेति. पटिलद्धगुणेहीति ताय देसनाय तन्निस्सयपच्चत्तपुरिसकारेन च तेसं पटिविद्धगुणेहि. वोदापेतीति तेसं चित्तसन्तानं अस्सद्धियादिकिलेसमलापगमनेन पभस्सरं करोति. सण्हं सण्हं कथेतीति अतिविय सुखुमं कत्वा कथेति.
अच्चयनं साधुमरियादं मद्दित्वा वीतिक्कमनं अच्चयोति आह ‘‘अपराधो’’ति. अच्चेति अतिक्कमति एतेनाति वा अच्चयो, वीतिक्कमस्स पवत्तनको अकुसलधम्मो. सो एव अपरज्झति एतेनाति अपराधो. सो हि अपरज्झन्तं पुरिसं अधिभवित्वा पवत्तति. तेनाह ‘‘अतिक्कम्म अधिभवित्वा पवत्तो’’ति. पटिग्गण्हातूति अधिवासनवसेन सम्पटिच्छतूति अत्थोति आह ‘‘खमतू’’ति. सदेवकेन लोकेन निस्सरणन्ति अरणीयतो अरियो, तथागतोति आह ‘‘अरियस्स विनयेति बुद्धस्स भगवतो सासने’’ति. पुग्गलाधिट्ठानं करोन्तोति कामं ‘‘वुद्धि हेसा’’ति धम्माधिट्ठानवसेन वाक्यं आरद्धं, तथापि देसनं पन पुग्गलाधिट्ठानं करोन्तो ‘‘संवरं आपज्जती’’ति आहाति योजना.
सङ्कवासुत्तवण्णना निट्ठिता.
समणवग्गवण्णना निट्ठिता.