७. पठममहापञ्हसुत्तवण्णना
२७. सत्तमे वुच्चेथाति वुच्चेय्य. दुतियपदेपीति ‘‘अनुसासनिया वा अनुसासनि’’न्ति एवं दुतियवाक्येपि. ते किर भिक्खू. न चेव सम्पायिस्सन्तीति न चेव सम्मदेव पकारेहि गहेस्सन्ति ञापेस्सन्ति. तेनाह ‘‘सम्पादेत्वा कथेतुं न सक्खिस्सन्ती’’ति. यस्मा अविसये पञ्हं पुच्छिता होन्ति, तस्मा विघातं आपज्जिस्सन्तीति योजना. अञ्ञथा आराधनं नाम नत्थीति इमिना सपच्चयनामरूपानं याथावतो अवबोधो एव इतो बाहिरकानं नत्थि, कुतो पवेदनाति दस्सेति. आराधनन्ति याथावपवेदनेन चित्तस्स परितोसनं.
एको पञ्होति एको पञ्हमग्गो, एकं पञ्हगवेसनन्ति अत्थो. एको उद्देसोति एकं उद्दिसनं अत्थस्स संखित्तवचनं. वेय्याकरणन्ति निद्दिसनं अत्थस्स विवरित्वा कथनं. हेतुनाति ‘‘अन्तवन्ततो अनच्चन्तिकतो तावकालिकतो निच्चप्पटिक्खेपतो’’ति एवमादिना नयेन यथा इमे सङ्खारा एतरहि, एवं अतीते अनागते च अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्माति अतीतानागतेसु नयेन.
सब्बे सत्ताति अनवसेसा सत्ता. ते पन भवभेदतो सङ्खेपेनेव भिन्दित्वा दस्सेन्तो ‘‘कामभवादीसू’’तिआदिमाह. ब्यधिकरणानम्पि बाहिरत्थसमासो होति यथा ‘‘उरसिलोमो’’ति आह ‘‘आहारतो ठिति एतेसन्ति आहारट्ठितिका’’ति. तिट्ठति एतेनाति वा ठिति, आहारो ठिति एतेसन्ति आहारट्ठितिकाति एवं वा एत्थ समासविग्गहो दट्ठब्बो. आहारट्ठितिकाति पच्चयट्ठितिका, पच्चयायत्तवुत्तिकाति अत्थो. पच्चयत्थो हेत्थ आहारसद्दो ‘‘अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाया’’तिआदीसु (सं. नि. ४.२३२) विय. एवञ्हि ‘‘सब्बे सत्ता’’ति इमिना असञ्ञसत्ता परिग्गहिता होन्ति. सा पनायं आहारट्ठितिकता निप्परियायतो सङ्खारधम्मो. तेनाहु अट्ठकथाचरिया ‘‘आहारट्ठितिकाति आगतट्ठाने सङ्खारलोको वेदितब्बो’’ति (पारा. अट्ठ. १.१ वेरञ्जकण्डवण्णना; विसुद्धि. १.१३६). यदि एवं ‘‘सब्बे सत्ता’’ति इदं कथन्ति? पुग्गलाधिट्ठानदेसनाति नायं दोसो. तेनेवाह – ‘‘एकधम्मे, भिक्खवे, भिक्खु सम्मा निब्बिन्दमानो सम्मा विरज्जमानो सम्मा विमुच्चमानो सम्मा परियन्तदस्सावी सम्मदत्थं अभिसमेच्च दिट्ठेव धम्मे दुक्खस्सन्तकरो होति. कतमस्मिं एकधम्मे? सब्बे सत्ता आहारट्ठितिका’’ति. य्वायं पुग्गलाधिट्ठानाय कथाय सब्बेसं सङ्खारानं पच्चयायत्तवुत्तिताय आहारपरियायेन सामञ्ञतो पच्चयधम्मो वुत्तो, अयं आहारो नाम एको धम्मो.
चोदको वुत्तम्पि अत्थं याथावतो अप्पटिविज्झमानो नेय्यत्थं सुत्तपदं नीतत्थतो दहन्तो ‘‘सब्बे सत्ता’’ति वचनमत्ते ठत्वा ‘‘ननु चा’’तिआदिना चोदेति. आचरियो अविपरीतं तत्थ यथाधिप्पेतमत्थं पवेदेन्तो ‘‘न विरुज्झती’’ति वत्वा ‘‘तेसञ्हि झानं आहारो होती’’ति आह. झानन्ति एकवोकारभवावहं सञ्ञाय विरज्जनवसेन पवत्तरूपावचरचतुत्थज्झानं. पाळियं पन ‘‘अनाहारा’’ति वचनं असञ्ञभवे चतुन्नं आहारानं अभावं सन्धाय वुत्तं, न पच्चयाहारस्स अभावतो. एवं सन्तेपीति इदं सासने येसु धम्मेसु विसेसतो आहारसद्दो निरुळ्हो, ‘‘आहारट्ठितिका’’ति एत्थ यदि तेयेव गय्हन्ति, अब्यापितदोसमापन्नो. अथ सब्बोपि पच्चयधम्मो आहारोति अधिप्पेतो, इमाय आहारपाळिया विरोधो आपन्नोति दस्सेतुं आरद्धं. ‘‘न विरुज्झती’’ति येनाधिप्पायेन वुत्तं, तं विवरन्तो ‘‘एतस्मिञ्हि सुत्ते’’तिआदिमाह. कबळीकाराहारादीनं ओजट्ठमकरूपाहरणादि निप्परियायेन आहारभावो. यथा हि कबळीकाराहारो ओजट्ठमकरूपाहरणेन रूपकायं उपत्थम्भेन्ति, एवं फस्सादयो वेदनादिआहरणेन नामकायं उपत्थम्भेति, तस्मा सतिपि जनकभावे उपत्थम्भकभावो ओजादीसु सातिसयो लब्भमानो मुख्यो आहारट्ठोति ते एव निप्परियायेन आहारलक्खणा धम्मा वुत्ता.
इधाति इमस्मिं सुत्ते परियायेन पच्चयो आहारोति वुत्तो, सब्बो पच्चयधम्मो अत्तनो फलं आहरतीति इमं परियायं लभतीति. तेनाह ‘‘सब्बधम्मानञ्ही’’तिआदि. तत्थ सब्बधम्मानन्ति सब्बेसं सङ्खतधम्मानं. इदानि यथावुत्तमत्थं सुत्तेन समत्थेतुं ‘‘तेनेवाहा’’तिआदि वुत्तं. अयन्ति पच्चयाहारो. निप्परियायाहारोपि गहितोव होतीति यावता सोपि पच्चयभावेनेव जनको उपत्थम्भको च हुत्वा तं तं फलं आहरतीति वत्तब्बतं लभतीति.
तत्थाति परियायाहारो, निप्परियायाहारोति द्वीसु आहारेसु असञ्ञभवे यदिपि निप्परियायाहारो न लब्भति, परियायाहारो पन लब्भतेव. इदानि तमेवत्थं वित्थारतो दस्सेतुं ‘‘अनुप्पन्ने हि बुद्धे’’तिआदि वुत्तं. उप्पन्ने बुद्धे तित्थकरमतनिस्सितानं झानभावनाय असिज्झनतो ‘‘अनुप्पन्ने बुद्धे’’ति वुत्तं. सासनिका तादिसं झानं न निब्बत्तेन्तीति ‘‘तित्थायतने पब्बजिता’’ति वुत्तं. तित्थिया हि उपपत्तिविसेसे विमुत्तिसञ्ञिनो सञ्ञाविरागाविरागेसु आदीनवानिसंसदस्सिनोव हुत्वा असञ्ञसमापत्तिं निब्बत्तेत्वा अक्खणभूमियं उप्पज्जन्ति, न सासनिका. वायोकसिणे परिक्कम्मं कत्वाति वायोकसिणे पठमादीनि तीणि झानानि निब्बत्तेत्वा ततियज्झाने चिण्णवसी हुत्वा ततो वुट्ठाय चतुत्थज्झानाधिगमाय परिकम्मं कत्वा. तेनेवाह ‘‘चतुत्थज्झानं निब्बत्तेत्वा’’ति.
कस्मा (दी. नि. टी. १.६८-७३; दी. नि. अभि. टी. १.६८-७३) पनेत्थ वायोकसिणेयेव परिकम्मं वुत्तन्ति? वुच्चते, यथेव हि रूपपटिभागभूतेसु कसिणविसेसेसु रूपविभावनेन रूपविरागभावनासङ्खातो अरूपसमापत्तिविसेसो सच्छिकरीयति, एवं अपरिब्यत्तविग्गहताय अरूपपटिभागभूते कसिणविसेसे अरूपविभावनेन अरूपविरागभावना सङ्खातो रूपसमापत्तिविसेसो अधिगमीयतीति. एत्थ च ‘‘सञ्ञा रोगो, सञ्ञा गण्डो’’तिआदिना (म. नि. ३.२४), ‘‘धि चित्तं, धि वतेतं चित्त’’न्तिआदिना च नयेन अरूपप्पवत्तिया आदीनवदस्सनेन तदभावे च सन्तपणीतभावसन्निट्ठानेन रूपसमापत्तिया अभिसङ्खरणं अरूपविरागभावना. रूपविरागभावना पन सद्धिं उपचारेन अरूपसमापत्तियो, तत्थापि विसेसेन पठमारुप्पज्झानं. यदि एवं ‘‘परिच्छिन्नाकासकसिणेपी’’ति वत्तब्बं, तस्सापि अरूपपटिभागता लब्भतीति? इच्छितमेवेतं, केसञ्चि अवचनं पनेत्थ पुब्बाचरियेहि अग्गहितभावेन. यथा हि रूपविरागभावना विरज्जनीयधम्माभावमत्तेन परिनिप्फन्ना, विरज्जनीयधम्मपरिभासभूते च विसयविसेसे पातुभवति, एवं अरूपविरागभावनापीति वुच्चमाने न कोचि विरोधो. तित्थियेहेव पन तस्सा समापत्तिया पटिपज्जितब्बताय तेसञ्च विसयपथे सूपनिबन्धनस्सेव तस्स झानस्स पटिपत्तितो दिट्ठिवन्तेहि पुब्बाचरियेहि चतुत्थेयेव भूतकसिणे अरूपविरागभावनापरिकम्मं वुत्तन्ति दट्ठब्बं. किञ्च वण्णकसिणेसु विय पुरिमभूतकसिणत्तयेपि वण्णप्पटिच्छायाव पण्णत्ति आरम्मणं झानस्स लोकवोहारानुरोधेनेव पवत्तितो. एवञ्च कत्वा विसुद्धिमग्गे (विसुद्धि. १.५७) पथवीकसिणस्स आदासचन्दमण्डलूपमवचनञ्च समत्थितं होति, चतुत्थं पन भूतकसिणं भूतप्पटिच्छायमेव झानस्स गोचरभावं गच्छतीति तस्सेवं अरूपपटिभागता युत्ताति वायोकसिणेयेव परिकम्मं वुत्तन्ति वेदितब्बं.
धीति जिगुच्छनत्थे निपातो, तस्मा धि चित्तन्ति चित्तं जिगुच्छामि. धि वतेतं चित्तन्ति एतं मम चित्तं जिगुच्छितं वत होतु. वताति सम्भावने. तेन जिगुच्छनं सम्भावेन्तो वदति. नामाति च सम्भावने एव. तेन चित्तस्स अभावं सम्भावेति. चित्तस्स भावाभावेसु आदीनवानिसंसे दस्सेतुं ‘‘चित्तञ्ही’’तिआदि वुत्तं. खन्तिं रुचिं उप्पादेत्वाति चित्तस्स अभावो एव साधु सुट्ठूति इमं दिट्ठिनिज्झानक्खन्तिं तत्थ च अभिरुचिं उप्पादेत्वा. तथा भावितस्स झानस्स ठितिभागियभावप्पत्तिया अपरिहीनज्झाना. तित्थायतने पब्बजितस्सेव तथा झानभावना होतीति आह ‘‘मनुस्सलोके’’ति. पणिहितो अहोसीति मरणस्स आसन्नकाले ठपितो अहोसि. यदि ठानादिना आकारेन निब्बत्तेय्य कम्मबलेन, याव भेदा तेनेवाकारेन तिट्ठेय्याति आह ‘‘तेन इरियापथेना’’तिआदि. एवरूपानम्पीति एवं अचेतनानम्पि. पि-सद्देन पगेव सचेतनानन्ति दस्सेति. कथं पन अचेतनानं नेसं पच्चयाहारस्स उपकप्पनन्ति चोदनं सन्धाय तत्थ निदस्सनं दस्सेन्तो ‘‘यथा’’तिआदिमाह. तेन न केवलमागमोयेव, अयमेत्थ युत्तीति दस्सेति. ताव तिट्ठन्तीति उक्कंसतो पञ्च महाकप्पसतानि तिट्ठन्ति.
ये उट्ठानवीरियेन दिवसं वीतिनामेत्वा तस्स निस्सन्दफलमत्तं किञ्चिदेव लभित्वा जीविकं कप्पेन्ति, ते उट्ठानफलूपजीविनो. ये पन अत्तनो पुञ्ञफलमेव उपजीवन्ति, ते पुञ्ञफलूपजीविनो. नेरयिकानं पन नेव उट्ठानवीरियवसेन जीविककप्पनं, पुञ्ञफलस्स पन लेसोपि नत्थीति वुत्तं ‘‘ये पन नेरयिका…पे… जीवीति वुत्ता’’ति. पटिसन्धिविञ्ञाणस्स आहरणेन मनोसञ्चेतना आहारोति वुत्ता, न यस्स कस्सचि फलस्साति अधिप्पायेन ‘‘किं पञ्च आहारा अत्थी’’ति चोदेति. आचरियो निप्परियायाहारे अधिप्पेते ‘‘सिया तव चोदना अवसरा, सा पन एत्थ अनवसरा’’ति च दस्सेन्तो ‘‘पञ्च, न पञ्चाति इदं न वत्तब्ब’’न्ति वत्वा परियायाहारस्सेव पनेत्थ अधिप्पेतभावं दस्सेन्तो ‘‘ननु पच्चयो आहारो’ति वुत्तमेत’’न्ति आह. तस्माति यस्स कस्सचि पच्चयस्स आहारोति इच्छितत्ता. इदानि वुत्तमेवत्थं पाळिया समत्थेन्तो ‘‘यं सन्धाया’’तिआदिमाह.
मुख्याहारवसेनपि नेरयिकानं आहारट्ठितिकतं दस्सेतुं ‘‘कबळीकाराहारं…पे… साधेती’’ति वुत्तं. यदि एवं नेरयिका सुखप्पटिसंवेदिनोपि होन्तीति? नोति दस्सेतुं ‘‘खेळो ही’’तिआदि वुत्तं. तयोति तयो अरूपाहारा कबळीकाराहारस्स अभावतो. अवसेसानन्ति असञ्ञसत्तेहि अवसेसानं कामभवादीसु निब्बत्तसत्तानं. पच्चयाहारो हि सब्बेसं साधारणोति.
पठममहापञ्हसुत्तवण्णना निट्ठिता.