८-९. दुतियमहापञ्हसुत्तादिवण्णना
२८-२९. अट्ठमे एवंनामकेति कजङ्गलाति एवं इत्थिलिङ्गवसेन लद्धनामके मज्झिमप्पदेसस्स मरियादभूते नगरे. ‘‘निगमे’’तिपि वदन्ति, ‘‘निचुलवने’’तिपि वदन्ति. निचुलं नाम एका रुक्खजाति, ‘‘नीपरुक्खो’’तिपि वदन्ति. तेन सञ्छन्नो महावनसण्डो, तत्थ विहरतीति अत्थो. हेतुना नयेनाति च हेट्ठा वुत्तमेव. ननु च ‘‘एसो चेव तस्स अत्थो’’ति कस्मा वुत्तं. भगवता हि चत्तारोतिआदिपञ्हब्याकरणा चत्तारो आहारा, पञ्चुपादानक्खन्धा, छ अज्झत्तिकानि आयतनानि, सत्त विञ्ञाणट्ठितियो, अट्ठ लोकधम्मा दस्सिता. भिक्खुनिया पन चत्तारो सतिपट्ठाना, पञ्चिन्द्रियानि, छ निस्सारणीया धातुयो, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गोति दस्सितधम्मा अञ्ञोयेवत्थो भिक्खुनिया दस्सितोति चोदनं सन्धायाह ‘‘किञ्चापी’’तिआदि. नवमे नत्थि वत्तब्बं.
दुतियमहापञ्हसुत्तादिवण्णना निट्ठिता.