६. काळीसुत्तवण्णना
२६. छट्ठे अत्थस्स पत्तिन्ति एकन्ततो हितानुप्पत्तिं. हदयस्स सन्तिन्ति परमचित्तूपसमं. किलेससेनन्ति कामगुणसङ्खातं पठमं किलेससेनं. सा हि किलेससेना अच्छरासङ्घातसभावापि पटिपत्थयमाना पियायितब्बइच्छितब्बरूपसभावतो पियरूपसातरूपा नाम अत्तनो किच्चवसेन. अहं एकोव झायन्तोति अहं गणसङ्गणिकाय किलेससङ्गणिकाय च अभावतो एको असहायो लक्खणूपनिज्झानेन झायन्तो. अनुबुज्झिन्ति अनुक्कमेन मग्गपटिपाटिया बुज्झिं पटिविज्झिं. इदं वुत्तं होति – पियरूपं सातरूपं सेनं जिनित्वा अहं एकोव झायन्तो ‘‘अत्थस्स पत्तिं हदयस्स सन्ति’’न्ति सङ्खं गतं अरहत्तसुखं पटिविज्झिं, तस्मा जनेन मित्तसन्थवं न करोमि, तेनेव च मे कारणेन केनचि सद्धिं सक्खी न सम्पज्जतीति. अत्थाभिनिब्बत्तेसुन्ति इतिसद्दलोपेनायं निद्देसोति आह ‘‘अत्थोति गहेत्वा’’ति.
काळीसुत्तवण्णना निट्ठिता.