५. कसिणसुत्तवण्णना

२५. पञ्चमे सकलट्ठेनाति निस्सेसट्ठेन. अनवसेसफरणवसेन चेत्थ सकलट्ठो वेदितब्बो, असुभनिमित्तादीसु विय एकदेसे अट्ठत्वा अनवसेसतो गहेतब्बट्ठेनाति अत्थो. तदारम्मणानं धम्मानन्ति तं कसिणं आरब्भ पवत्तनकधम्मानं. खेत्तट्ठेनाति उप्पत्तिट्ठानट्ठेन. अधिट्ठानट्ठेनाति पवत्तिट्ठानभावेन. यथा खेत्तं सस्सानं उप्पत्तिट्ठानं वड्ढनट्ठानञ्च, एवमेव तं त झानं सम्पयुत्तधम्मानन्ति. योगिनो वा सुखविसेसानं कारणभावेन. परिच्छिन्दित्वाति इदं ‘‘उद्धं अधो तिरिय’’न्ति एत्थापि योजेतब्बं. परिच्छिन्दित्वा एव हि सब्बत्थ कसिणं वड्ढेतब्बं. तेन तेन वा कारणेनाति तेन तेन उपरिआदीसु कसिणवड्ढनकारणेन. यथा किन्ति आह ‘‘आलोकमिव रूपदस्सनकामो’’ति. यथा दिब्बचक्खुना उद्धं चे रूपं दट्ठुकामो, उद्धं आलोकं पसारेति. अधो चे, अधो. समन्ततो चे रूपं दट्ठुकामो, समन्ततो आलोकं पसारेति, एवं सब्बकसिणन्ति अत्थो. एकस्साति पथवीकसिणादीसु एकेकस्स. अञ्ञभावानुपगमनत्थन्ति अञ्ञकसिणभावानुपगमनदीपनत्थं, अञ्ञस्स वा कसिणभावानुपगमनदीपनत्थं. न हि अञ्ञेन पसारितकसिणं ततो अञ्ञेन पसारितकसिणभावं उपगच्छति, एवम्पि नेसं अञ्ञकसिणसम्भेदाभावो वेदितब्बो. न अञ्ञं पथवीआदि. न हि उदकेन ठितट्ठाने ससम्भारपथवी अत्थि. अञ्ञकसिणसम्भेदोति आपोकसिणादिना सङ्करो. सब्बत्थाति सब्बेसु सेसकसिणेसु.

एकदेसे अट्ठत्वा अनवसेसफरणं पमाणस्स अग्गहणतो अप्पमाणं. तेनेव हि नेसं कसिणसमञ्ञा. तथा चाह ‘‘तञ्ही’’तिआदि. तत्थ चेतसा फरन्तोति भावनाचित्तेन आरम्मणं करोन्तो. भावनाचित्तञ्हि कसिणं परित्तं वा विपुलं वा सकलमेव मनसि करोति, न एकदेसं. कसिणुग्घाटिमाकासे पवत्तविञ्ञाणं फरणअप्पमाणवसेन विञ्ञाणकसिणन्ति वुत्तं. तथा हि तं विञ्ञाणन्ति वुच्चति. कसिणवसेनाति उग्घाटितकसिणवसेन कसिणुग्घाटिमाकासे उद्धंअधोतिरियता वेदितब्बा. यत्तकञ्हि ठानं कसिणं पसारितं, तत्तकं आकासभावनावसेन आकासं होतीति. एवं यत्तकं ठानं आकासं हुत्वा उपट्ठितं, तत्तकं सकलमेव फरित्वा विञ्ञाणस्स पवत्तनतो आगमनवसेन विञ्ञाणकसिणेपि उद्धंअधोतिरियता वुत्ताति आह ‘‘कसिणुग्घाटिमाकासवसेन तत्थ पवत्तविञ्ञाणे उद्धंअधोतिरियता वेदितब्बा’’ति.

कसिणसुत्तवण्णना निट्ठिता.