२-४. अधिवुत्तिपदसुत्तादिवण्णना
२२-२४. दुतिये अधिवचनपदानन्ति पञ्ञत्तिपदानं. दासादीसु सिरिवड्ढकादिसद्दा विय वचनमत्तमेव अधिकारं कत्वा पवत्तिया अधिवचनं पञ्ञत्ति. अथ वा अधिसद्दो उपरिभागे. वुच्चतीति वचनं, उपरि वचनं अधिवचनं, उपादाभूतरूपादीनं उपरि पञ्ञपियमाना उपादापञ्ञत्तीति अत्थो, तस्मा पञ्ञत्तिदीपकपदानीति अत्थो दट्ठब्बो. तस्स पदानि पदट्ठानानि अधिवचनपदानि. तेनाह ‘‘तेसं ये’’तिआदि. तेसन्ति अधिवचनानं. येति खन्धादयो. अधिवुत्तिताय अधिवुत्तियोति दिट्ठियो वुच्चन्ति. अधिकञ्हि सभावधम्मेसु सस्सतादिं, पकतिआदिं, द्रब्यादिं, जीवादिं, कायादिञ्च, अभूतं अत्थं अज्झारोपेत्वा दिट्ठियो पवत्तन्तीति. तेनाह ‘‘अथ वा’’तिआदि. ततियचतुत्थानि सुविञ्ञेय्यानि.
अधिवुत्तिपदसुत्तादिवण्णना निट्ठिता.