१. सीहनादसुत्तवण्णना

२१. ततियस्स पठमे विसमट्ठानेसूति पपातादीसु विसमट्ठानेसु. ‘‘अञ्ञेहि असाधारणानी’’ति कस्मा वुत्तं, ननु चेतानि सावकानम्पि एकच्चानं उप्पज्जन्तीति? कामं उप्पज्जन्ति, यादिसानि पन बुद्धानं ठानाट्ठानञाणादीनि, न तादिसानि तदञ्ञेसं कदाचिपि उप्पज्जन्तीति अञ्ञेहि असाधारणानीति. तेनाह ‘‘तथागतस्सेव बलानी’’ति. इममेव हि यथावुत्तलेसं अपेक्खित्वा तदभावतो आसयानुसयञाणादीसु एव असाधारणसमञ्ञा निरुळ्हा. कामं ञाणबलानं ञाणसम्भारो विसेसपच्चयो, पुञ्ञसम्भारोपि पन नेसं पच्चयो एव. ञाणसम्भारस्सपि वा पुञ्ञसम्भारभावतो ‘‘पुञ्ञुस्सयसम्पत्तिया आगतानी’’ति वुत्तं.

पकतिहत्थिकुलन्ति (सं. नि. टी. २.२.२२) गिरिचरनदिचरवनचरादिप्पभेदा गोचरियकालावकनामा सब्बापि बलेन पाकतिका हत्थिजाति. दसन्नं पुरिसानन्ति थाममज्झिमानं दसन्नं पुरिसानं. एकस्स तथागतस्स कायबलन्ति आनेत्वा सम्बन्धो. एकस्साति च तथा हेट्ठा कथायं आगतत्ता देसनासोतेन वुत्तं. नारायनसङ्घातबलन्ति एत्थ नारा वुच्चन्ति रस्मियो. ता बहू नानाविधा इतो उप्पज्जन्तीति नारायनं, वजिरं, तस्मा नारायनसङ्घातबलन्ति वजिरसङ्घातबलन्ति अत्थो. ञाणबलं पन पाळियं आगतमेव, न कायबलं विय अट्ठकथारुळ्हमेवाति अधिप्पायो.

संयुत्तके (सं. नि. २.३३) आगतानि तेसत्तति ञाणानि, सत्तसत्तति ञाणानीति वुत्तं, तत्थ (विभ. मूलटी. ७६०) पन निदानवग्गे सत्तसत्तति आगतानि चतुचत्तारीसञ्च. तेसत्तति पन पटिसम्भिदामग्गे (पटि. म. १.१) सुतमयादीनि आगतानि दिस्सन्ति, न संयुत्तके. अञ्ञानिपीति एतेन ञाणवत्थुविभङ्गे (विभ. ७५१ आदयो) एककादिवसेन वुत्तानि, अञ्ञत्थ च ‘‘पुब्बन्ते ञाण’’न्तिआदिना (ध. स. १०६३) ब्रह्मजालादीसु च ‘‘तयिदं तथागतो पजानाति ‘इमानि दिट्ठिट्ठानानि एवं गहितानी’ति’’आदिना (दी. नि. १.३६) वुत्तानि अनेकानि ञाणप्पभेदानि सङ्गण्हाति. याथावप्पटिवेधतो सयञ्च अकम्पियं पुग्गलञ्च तंसमङ्गिनं नेय्येसु अधिबलं करोतीति आह ‘‘अकम्पियट्ठेन उपत्थम्भनट्ठेन चा’’ति.

उसभस्स इदन्ति आसभं, सेट्ठट्ठानं. सब्बञ्ञुतापटिजाननवसेन अभिमुखं गच्छन्ति, अट्ठ वा परिसा उपसङ्कमन्तीति आसभा, पुब्बबुद्धा. इदं पनाति बुद्धानं ठानं सब्बञ्ञुतमेव वदति. तिट्ठमानोवाति अवदन्तोपि तिट्ठमानोव पटिजानाति नामाति अत्थो. उपगच्छतीति अनुजानाति.

अट्ठसु परिसासूति ‘‘अभिजानामि खो पनाहं, सारिपुत्त, अनेकसतं खत्तियपरिसं…पे… तत्र वत मं भयं वा सारज्जं वा ओक्कमिस्सतीति निमित्तमेतं, सारिपुत्त, न समनुपस्सामी’’ति (म. नि. १.१५१) वुत्तासु अट्ठसु परिसासु. अभीतनादं नदतीति परतो दस्सितञाणयोगेन दसबलोहन्ति अभीतनादं नदति.

पटिवेधनिट्ठत्ता अरहत्तमग्गञाणं पटिवेधोति ‘‘फलक्खणे उप्पन्नं नामा’’ति वुत्तं. तेन पटिलद्धस्सपि देसनाञाणस्स किच्चनिप्फत्ति परस्स अवबुज्झनमत्तेन होतीति ‘‘अञ्ञासिकोण्डञ्ञस्स सोतापत्तिफलक्खणे पवत्तं नामा’’ति वुत्तं. ततो परं पन याव परिनिब्बाना देसनाञाणपवत्ति तस्सेव पवत्तितस्स धम्मचक्कस्स ठानन्ति वेदितब्बं पवत्तितचक्कस्स चक्कवत्तिनो चक्करतनस्स ठानं विय.

तिट्ठतीति वुत्तं, किं भूमियं पुरिसो विय, नोति आह ‘‘तदायत्तवुत्तिताया’’ति. ठानन्ति चेत्थ अत्तलाभो धरमानता च, न गतिनिवत्तीति आह ‘‘उप्पज्जति चेव पवत्तति चा’’ति. यत्थ पनेतं दसबलञाणं वित्थारितं, तं दस्सेन्तो ‘‘अभिधम्मे पना’’तिआदिमाह. सेसेसुपि एसेव नयो.

समादियन्तीति समादानानि, तानि पन समादियित्वा कतानि होन्तीति आह ‘‘समादियित्वा कतान’’न्ति. कम्ममेव वा कम्मसमादानन्ति एतेन समादानसद्दस्स अपुब्बत्थाभावं दस्सेति मुत्तगतसद्दे गतसद्दस्स विय. गतीति निरयादिगतियो. उपधीति अत्तभावो. कालोति कम्मस्स विपच्चनारहकालो. पयोगोति विपाकुप्पत्तिया पच्चयभूता किरिया.

अगतिगामिनिन्ति निब्बानगामिनिं. वुत्तञ्हि ‘‘निब्बानञ्चाहं, सारिपुत्त, पजानामि निब्बानगामिनिञ्च पटिपद’’न्ति (म. नि. १.१५३). बहूसुपि मनुस्सेसु एकमेव पाणं घातेन्तेसु कामं सब्बेसम्पि चेतना तस्सेवेकस्स जीवितिन्द्रियारम्मणा, तं पन कम्मं तेसं नानाकारं. तेसु (विभ. अट्ठ. ८११) हि एको आदरेन छन्दजातो करोति, एको ‘‘एहि त्वम्पि करोही’’ति परेहि निप्पीळितो करोति, एको समानच्छन्दो विय हुत्वा अप्पटिबाहमानो विचरति. तेसु एको तेनेव कम्मेन निरये निब्बत्तति, एको तिरच्छानयोनियं, एको पेत्तिविसये. तं तथागतो आयूहनक्खणेयेव ‘‘इमिना नीहारेन आयूहितत्ता एस निरये निब्बत्तिस्सति, एस तिरच्छानयोनियं, एस पेत्तिविसये’’ति जानाति. निरये निब्बत्तमानम्पि ‘‘एस महानिरये निब्बत्तिस्सति, एस उस्सदनिरये’’ति जानाति. तिरच्छानयोनियं निब्बत्तमानम्पि ‘‘एस अपादको भविस्सति, एस द्विपादको, एस चतुप्पदो, एस बहुप्पदो’’ति जानाति. पेत्तिविसये निब्बत्तमानम्पि ‘‘एस निज्झामतण्हिको भविस्सति, एस खुप्पिपासिको, एस परदत्तूपजीवी’’ति जानाति. तेसु च कम्मेसु ‘‘इदं कम्मं पटिसन्धिं आकड्ढिस्सति, इदं अञ्ञेन दिन्नाय पटिसन्धिया उपधिवेपक्कं भविस्सती’’ति जानाति.

तथा सकलगामवासिकेसु एकतो पिण्डपातं ददमानेसु कामं सब्बेसम्पि चेतना पिण्डपातारम्मणाव, तं पन कम्मं तेसं नानाकारं. तेसु हि एको आदरेन करोतीति सब्बं पुरिमसदिसं, तस्मा तेसु केचि देवलोके निब्बत्तन्ति, केचि मनुस्सलोके. तं तथागतो आयूहनक्खणेयेव जानाति. ‘‘इमिना नीहारेन आयूहितत्ता एस मनुस्सलोके निब्बत्तिस्सति, एस देवलोके. तत्थापि एस खत्तियकुले, एस ब्राह्मणकुले, एस वेस्सकुले, एस सुद्दकुले, एस परनिम्मितवसवत्तीसु, एस निम्मानरतीसु, एस तुसितेसु, एस यामेसु, एस तावतिंसेसु, एस चातुमहाराजिकेसु, एस भुम्मदेवेसू’’तिआदिना तत्थ तत्थ हीनपणीतसुवण्णदुब्बण्णअप्पपरिवारमहापरिवारतादिभेदं तं तं विसेसं आयूहनक्खणेयेव जानाति.

तथा विपस्सनं पट्ठपेन्तेसुयेव ‘‘इमिना नीहारेन एस किञ्चि सल्लक्खेतुं न सक्खिस्सति, एस महाभूतमत्तमेव ववत्थपेस्सति, एस रूपपरिग्गहेयेव ठस्सति, एस अरूपपरिग्गहेयेव, एस नामरूपपरिग्गहेयेव, एस पच्चयपरिग्गहेयेव, एस लक्खणारम्मणिकविपस्सनायमेव, एस पठमफलेयेव, एस दुतियफलेयेव, एस ततियफलेयेव, एस अरहत्तं पापुणिस्सती’’ति जानाति. कसिणपरिकम्मं करोन्तेसुपि ‘‘इमस्स परिकम्ममत्तमेव भविस्सति, एस निमित्तं उप्पादेस्सति, एस अप्पनं एव पापुणिस्सति, एस झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्तं गण्हिस्सती’’ति जानाति. तेनाह ‘‘इमस्स चेतना’’तिआदि.

कामनतो कामेतब्बतो कामप्पटिसंयुत्ततो च धातु कामधातु. आदि-सद्देन ब्यापादधातुरूपधातुआदीनं सङ्गहो. विलक्खणतायाति विसदिससभावताय. खन्धायतनधातुलोकन्ति अनेकधातुं नानाधातुं खन्धलोकं आयतनलोकं धातुलोकं यथाभूतं पजानातीति योजना. ‘‘अयं रूपक्खन्धो नाम…पे… अयं विञ्ञाणक्खन्धो नाम. तेसुपि एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो. एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो. एकविधेन सञ्ञाक्खन्धो…पे… सङ्खारक्खन्धो…पे… विञ्ञाणक्खन्धो, बहुविधेन विञ्ञाणक्खन्धो’’ति एवं ताव खन्धलोकस्स, ‘‘इदं चक्खायतनं नाम…पे… इदं धम्मायतनं नाम. तत्थ दसायतना कामावचरा, द्वे चातुभूमका’’तिआदिना आयतनलोकस्स, ‘‘अयं चक्खुधातु नाम…पे… अयं मनोविञ्ञाणधातु नाम. तत्थ सोळस धातुयो कामावचरा, द्वे चातुभूमका’’तिआदिना धातुलोकस्स अनेकसभावं नानासभावञ्च पजानाति. न केवलं उपादिन्नसङ्खारलोकस्सेव, अथ खो अनुपादिन्नकसङ्खारलोकस्सपि ‘‘इमाय नाम धातुया उस्सन्नत्ता इमस्स रुक्खस्स खन्धो सेतो, इमस्स काळो, इमस्स मट्ठो, इमस्स सकण्टको, इमस्स बहलत्तचो, इमस्स तनुत्तचो, इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं, इमस्स पुप्फं नीलं पीतं लोहितं ओदातं सुगन्धं दुग्गन्धं, इमस्स फलं खुद्दकं महन्तं दीघं वट्टं सुसण्ठानं दुस्सण्ठानं मट्ठं फरुसं सुगन्धं दुग्गन्धं मधुरं तित्तकं कटुकं अम्बिलं कसावं, इमस्स कण्टको तिखिणो कुण्ठो उजुको कुटिलो तम्बो काळो ओदातो होती’’तिआदिना पजानाति. सब्बञ्ञुबुद्धानं एव हि एतं बलं, न अञ्ञेसं.

नानाधिमुत्तिकतन्ति नानज्झासयतं. अधिमुत्ति नाम अज्झासयधातु अज्झासयसभावो. सो पन हीनपणीततासामञ्ञेन पाळियं द्विधाव वुत्तोपि हीनपणीतादिभेदेन अनेकविधोति आह ‘‘हीनादीहि अधिमुत्तीहि नानाधिमुत्तिकभाव’’न्ति. तत्थ ये ये सत्ता यंयंअधिमुत्तिका, ते ते तंतदधिमुत्तिके एव सेवन्ति भजन्ति पयिरुपासन्ति धातुसभागतो. यथा गूथादीनं धातूनं सभावो एसो, यं गूथादीहि एव संसन्दन्ति समेन्ति, एवं हीनज्झासया दुस्सीलादीहेव संसन्दन्ति समेन्ति, सम्पन्नसीलादयो च सम्पन्नसीलादीहेव. तं नेसं नानाधिमुत्तिकतं भगवा यथाभूतं पजानातीति.

वुद्धिं हानिञ्चाति पच्चयविसेसेन सामत्थियतो अधिकतं अनधिकतञ्च. इन्द्रियपरोपरियत्तञाणनिद्देसे (विभ. ८१४; पटि. म. ११३) ‘‘आसयं जानाति, अनुसयं जानाती’’ति आसयादिजाननं कस्मा निद्दिट्ठन्ति? आसयजाननादिना येहि इन्द्रियेहि परोपरेहि सत्ता कल्याणपापासयादिका होन्ति, तेसं जाननस्स विभावनतो. एवञ्च कत्वा इन्द्रियपरोपरियत्तआसयानुसयञाणानं विसुं असाधारणता, इन्द्रियपरोपरियत्तनानाधिमुत्तिकताञाणानं विसुं बलवता च सिद्धा होति. तत्थ आसयन्ति यत्थ सत्ता निवसन्ति, तं तेसं निवासट्ठानं, दिट्ठिगतं वा यथाभूतञाणं वा आसयो, अनुसयो अप्पहीनभावेन थामगतो किलेसो. तं पन भगवा सत्तानं आसयं जानन्तो तेसं तेसं दिट्ठिगतानं विपस्सनामग्गञाणानञ्च अप्पवत्तिक्खणेपि जानाति. वुत्तञ्हेतं –

‘‘कामं सेवन्तंयेव भगवा जानाति – ‘अयं पुग्गलो कामगरुको कामासयो कामाधिमुत्तो’ति. कामं सेवन्तंयेव जानाति – ‘अयं पुग्गलो नेक्खम्मगरुको नेक्खम्मासयो नेक्खम्माधिमुत्तो’ति. नेक्खम्मं सेवन्तंयेव जानाति. ब्यापादं, अब्यापादं, थिनमिद्धं, आलोकसञ्ञं सेवन्तंयेव जानाति – ‘अयं पुग्गलो थिनमिद्धगरुको थिनमिद्धासयो थिनमिद्धाधिमुत्तो’’’ति (पटि. म. १.११३).

पठमादीनं चतुन्नं झानानन्ति रूपावचरानं पठमादीनं पच्चनीकज्झापनट्ठेन आरम्मणूपनिज्झापनट्ठेन च झानानं. चतुक्कनयेन हेतं वुत्तं. अट्ठन्नं विमोक्खानन्ति एत्थ पटिपाटिया सत्त अप्पितप्पितक्खणे पच्चनीकधम्मेहि विमुच्चनतो आरम्मणे च अधिमुच्चनतो विमोक्खा नाम. अट्ठमो पन सब्बसो सञ्ञावेदयितेहि विमुत्तत्ता अपगमविमोक्खो नाम. चतुक्कनयपञ्चकनयेसु पठमज्झानसमाधि सवितक्कसविचारो नाम. पञ्चकनये दुतियज्झानसमाधि अवितक्कविचारमत्तो. नयद्वयेपि उपरि तीसु झानेसु समाधि अवितक्कअविचारो. समापत्तीसु पटिपाटिया अट्ठन्नं समाधीतिपि नामं, समापत्तीतिपि चित्तेकग्गतासब्भावतो, निरोधसमापत्तिया तदभावतो न समाधीति नामं. हानभागियधम्मन्ति अप्पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं कामादिअनुपक्खन्दनं. विसेसभागियधम्मन्ति पगुणेहि पठमज्झानादीहि वुट्ठितस्स सञ्ञामनसिकारानं दुतियज्झानादिपक्खन्दनं. इति सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि हानभागियविसेसभागिया धम्माति दस्सितानि. तेहि पन झानानं तंसभावता च धम्मसद्देन वुत्ता. तस्माति वुत्तमेवत्थं हेतुभावेन पच्चामसति. वोदानन्ति पगुणतासङ्खातं वोदानं. तञ्हि पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादिअधिगमस्स पच्चयत्ता ‘‘वुट्ठान’’न्ति वुत्तं. केचि पन ‘‘निरोधतो फलसमापत्तिया वुट्ठानन्ति पाळि नत्थी’’ति वदन्ति. ते ‘‘निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयो’’ति इमाय पाळिया (पट्ठा. १.१.४१७) पटिसेधेतब्बा. यो समापत्तिलाभी समानो एव ‘‘न लाभीम्ही’’ति, कम्मट्ठानं समानं एव ‘‘न कम्मट्ठान’’न्ति सञ्ञी होति, सो सम्पत्तिंयेव समानं ‘‘विपत्ती’’ति पच्चेतीति वेदितब्बो.

न तथा दट्ठब्बन्ति यथा परवादिना वुत्तं, तथा न दट्ठब्बं. सकसककिच्चमेव जानातीति ठानाट्ठानजाननादिसकसकमेव किच्चं कातुं जानाति, यथासकमेव विसयं पटिविज्झतीति अत्थो. तम्पीति तेहि दसबलञाणेहि जानितब्बम्पि. कम्मविपाकन्तरमेवाति कम्मन्तरस्स विपाकन्तरमेव जानाति. चेतनाचेतनासम्पयुत्तधम्मे निरयादिनिब्बानगामिनिप्पटिपदाभूते कम्मन्ति गहेत्वा आह ‘‘कम्मपरिच्छेदमेवा’’ति. धातुनानत्तञ्च धातुनानत्तकारणञ्च धातुनानत्तकारणन्ति एकदेससरूपेकसेसो दट्ठब्बो. तञ्हि ञाणं तदुभयम्पि जानाति. ‘‘इमाय नाम धातुया उस्सन्नत्ता’’तिआदिना (विभ. अट्ठ. ८१२) तथा चेव संवण्णितं. सच्चपरिच्छेदमेवाति परिञ्ञाभिसमयादिवसेन सच्चानं परिच्छिन्नमेव. अप्पेतुं न सक्कोति अट्ठमनवमबलानि विय तंसदिसं, इद्धिविधञाणमिव विकुब्बितुं. एतेनस्स बलसदिसतञ्च निवारेति. झानादिञाणं विय वा अप्पेतुं विकुब्बितुञ्च. यदिपि हि झानादिपच्चवेक्खणञाणं सत्तमबलन्ति तस्स सवितक्कसविचारता वुत्ता, तथापि झानादीहि विना पच्चवेक्खणा नत्थीति झानादिसहगतं ञाणं तदन्तोगधं कत्वा एवं वुत्तन्ति वेदितब्बं. अथ वा सब्बञ्ञुतञ्ञाणं झानादिकिच्चं विय न सब्बं बलकिच्चं कातुं सक्कोतीति दस्सेतुं ‘‘झानं हुत्वा अप्पेतुं, इद्धि हुत्वा विकुब्बितुञ्च न सक्कोती’’ति वुत्तं, न पन कस्सचि बलस्स झानइद्धिभावतोति दट्ठब्बं.

एवं किच्चविसेसवसेनपि दसबलञाणसब्बञ्ञुतञ्ञाणविसेसं दस्सेत्वा इदानि वितक्कत्तिकभूमन्तरवसेनपि तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं. पटिपाटियातिआदितो पट्ठाय पटिपाटिया.

अनुपदवण्णनं ञत्वा वेदितब्बानीति सम्बन्धो. किलेसावरणं नियतमिच्छादिट्ठि. किलेसावरणस्स अभावो आसवक्खयञाणाधिगमस्स ठानं, तब्भावो अट्ठानं. अनधिगमस्स पन तदुभयम्पि यथाक्कमं अट्ठानं ठानञ्चाति तत्थ कारणं दस्सेन्तो ‘‘लोकिय…पे… दस्सनतो चा’’ति आह. तत्थ लोकियसम्मादिट्ठिया ठिति आसवक्खयाधिगमस्स ठानं किलेसावरणाभावस्स कारणत्ता. सा हि तस्मिं सति न होति, असति च होति. एतेन तस्सा अट्ठितिया तस्स अट्ठानता वुत्ता एव. नेसं वेनेय्यसत्तानं. धातुवेमत्तदस्सनतोति कामधातुआदीनं पवत्तिभेददस्सनतो, यदग्गेन धातुवेमत्तं जानाति, तदग्गेन चरियादिविसेसम्पि जानाति. धातुवेमत्तदस्सनतोति वा धम्मधातुवेमत्तदस्सनतो. सब्बापि हि चरिया धम्मधातुपरियापन्ना एवाति. पयोगं अनादियित्वापि सन्ततिमहामत्तादीनं विय. दिब्बचक्खानुभावतो पत्तब्बेनाति एत्थ दिब्बचक्खुना परस्स हदयवत्थुसन्निस्सयलोहितवण्णदस्सनमुखेन तदा पवत्तमानचित्तजाननत्थं परिकम्मकरणं नाम सावकानं, तञ्च खो आदिकम्मिकानं, यतो दिब्बचक्खुआनुभावतो चेतोपरियञाणस्स पत्तब्बता सिया. बुद्धानं पन यदिपि आसवक्खयञाणाधिगमतो पगेव दिब्बचक्खुञाणाधिगमो, तथापि तथापरिकम्मकरणं नत्थि विज्जात्तयसिद्धिया सिज्झनतो. सेसाभिञ्ञात्तये चेतोपरियञाणं दिब्बचक्खुञाणाधिगमेन पत्तन्ति च वत्तब्बतं लभतीति तथा वुत्तन्ति दट्ठब्बं.

सीहनादसुत्तवण्णना निट्ठिता.