१-४. पठमअधम्मसुत्तादिवण्णना

११३-६. दुतियस्स पठमदुतियानि उत्तानत्थानि. ततिये जानं जानातीति सब्बञ्ञुतञ्ञाणेन जानितब्बं सब्बं जानाति एव. न हि पदेसञाणे ठितो जानितब्बं सब्बं जानाति. उक्कट्ठनिद्देसेन हि अविसेसग्गहणेन च ‘‘जान’’न्ति इमिना निरवसेसं ञेय्यजातं परिग्गय्हतीति तब्बिसयाय जाननकिरियाय सब्बञ्ञुतञ्ञाणमेव करणं भवितुं युत्तं, पकरणवसेन ‘‘भगवा’’ति सद्दन्तरसन्निधानेन च अयमत्थो विभावेतब्बो. पस्सितब्बमेव पस्सतीति दिब्बचक्खुपञ्ञाचक्खुधम्मचक्खुबुद्धचक्खुसमन्तचक्खुसङ्खातेहि ञाणचक्खूहि पस्सितब्बं पस्सति एव. अथ वा जानं जानातीति यथा अञ्ञे सविपल्लासा कामरूपपरिञ्ञावादिनो जानन्तापि विपल्लासवसेन जानन्ति, न एवं भगवा. भगवा पन पहीनविपल्लासत्ता जानन्तो जानाति एव, दिट्ठिदस्सनस्स अभावा पस्सन्तो पस्सतियेवाति अत्थो. चक्खु विय भूतोति दस्सनपरिणायकट्ठेन चक्खु विय भूतो. यथा हि चक्खु सत्तानं दस्सनत्थं परिणेति साधेति, एवं लोकस्स याथावदस्सनसाधनतोपि दस्सनकिच्चपरिणायकट्ठेन चक्खु विय भूतो, पञ्ञाचक्खुमयत्ता वा सयम्भुञाणेन पञ्ञाचक्खुं भूतो पत्तोति वा चक्खुभूतो.

ञाणसभावोति विदितकरणट्ठेन ञाणसभावो. अविपरीतसभावट्ठेन परियत्तिधम्मप्पवत्तनतो वा हदयेन चिन्तेत्वा वाचाय निच्छारितधम्ममयोति धम्मभूतो. तेनाह ‘‘धम्मसभावो’’ति. धम्मा वा बोधिपक्खिया तेहि उप्पन्नत्ता लोकस्स च तदुप्पादनतो, अनञ्ञसाधारणं वा धम्मं पत्तो अधिगतोति धम्मभूतो. सेट्ठट्ठेन ब्रह्मभूतोति आह ‘‘सेट्ठसभावो’’ति. अथ वा ब्रह्मा वुच्चति मग्गो, तेन उप्पन्नत्ता लोकस्स च तदुप्पादनतो, तञ्च सयम्भुञाणेन पत्तोति ब्रह्मभूतो. चतुसच्चधम्मं वदतीति वत्ता. चिरं सच्चप्पटिवेधं पवत्तेन्तो वदतीति पवत्ता. अत्थं नीहरित्वाति दुक्खादिअत्थं तत्थापि पीळनादिअत्थं उद्धरित्वा. परमत्थं वा निब्बानं पापयिता निन्नेता. अमताधिगमपटिपत्तिदेसनाय अमतसच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता. बोधिपक्खियधम्मानं तदायत्तभावतो धम्मसामी. चतुत्थे नत्थि वत्तब्बं.

पठमअधम्मसुत्तादिवण्णना निट्ठिता.