१-४. कामभोगीसुत्तादिवण्णना

९१-९४. पञ्चमस्स पठमादीनि उत्तानत्थानि. चतुत्थे तपनं सन्तपनं कायस्स खेदनं तपो, सो एतस्स अत्थीति तपस्सी, तं तपस्सिं. यस्मा तथाभूतो तपनिस्सितो, तपो वा तन्निस्सितो, तस्मा आह ‘‘तपनिस्सितक’’न्ति. लूखं फरुसं साधुसम्मताचारविरहतो न पसादनीयं आजीवति वत्ततीति लूखाजीवी, तं लूखाजीविं. उपक्कोसतीति उप्पण्डेति, उपहसनवसेन परिभासति. उपवदतीति अवञ्ञापुब्बकं अपवदति. तेनाह ‘‘हीळेति वम्भेती’’ति.

कामभोगीसुत्तादिवण्णना निट्ठिता.