५. उत्तियसुत्तवण्णना
९५. पञ्चमे पच्चन्ते भवं पच्चन्तिमं. पाकारस्स थिरभावं उद्धमुद्धं पापेतीति उद्धापं, पाकारमूलं. आदि-सद्देन पाकारद्वारबन्धपरिखादीनं सङ्गहो वेदितब्बो. पण्डितदोवारिकट्ठानियं कत्वा भगवा अत्तानं दस्सेसीति दस्सेन्तो ‘‘एकद्वारन्ति कस्मा आहा’’ति चोदनं समुट्ठापेसि. यस्सा पञ्ञाय वसेन पुरिसो पण्डितोति वुच्चति, तं पण्डिच्चन्ति आह ‘‘पण्डिच्चेन समन्नागतो’’ति. तंतंइतिकत्तब्बतासु छेकभावो ब्यत्तभावो वेय्यत्तियं. मेधति सम्मोहं हिंसति विधमतीति मेधा, सा एतस्स अत्थीति मेधावी. ठाने ठाने उप्पत्ति एतिस्सा अत्थीति ठानुप्पत्तिका, ठानसो उप्पज्जनपञ्ञा. अनुपरियायन्ति एतेनाति अनुपरियायो, सो एव पथोति अनुपरियायपथो, परितो पाकारस्स अनुसंयायनमग्गो. पाकारभागा सन्धातब्बा एत्थाति पाकारसन्धि, पाकारस्स फुल्लितप्पदेसो. सो पन हेट्ठिमन्तेन द्विन्नम्पि इट्ठकानं विगमेन एवं वुच्चतीति आह ‘‘द्विन्नं इट्ठकानं अपगतट्ठान’’न्ति. छिन्नट्ठानन्ति छिन्नभिन्नप्पदेसो, छिद्दट्ठानं वा. तञ्हि विवरन्ति वुच्चति.
उत्तियसुत्तवण्णना निट्ठिता.