१४. एतदग्गवग्गो

(१४) ५. पञ्चमएतदग्गवग्गवण्णना

महापजापतिगोतमीथेरीवत्थु

२३५. थेरिपाळिसंवण्णनाय पठमे यदिदं महागोतमीति एत्थ ‘‘यदिदं महापजापति गोतमी’’ति च पठन्ति. तत्थ गोतमीति गोत्तं. नामकरणदिवसे पनस्सा लद्धसक्कारा ब्राह्मणा लक्खणसम्पत्तिं दिस्वा ‘‘सचे अयं धीतरं लभिस्सति, चक्कवत्तिरञ्ञो महेसी भविस्सति. सचे पुत्तं लभिस्सति, चक्कवत्तिराजा भविस्सती’’ति उभयथापि ‘‘महतीयेवस्सा पजा भविस्सती’’ति ब्याकरिंसु, तस्मा पुत्तपजाय चेव धीतुपजाय च महन्तताय ‘‘महापजापती’’ति वोहरिंसु. तदुभयं पन संसन्देत्वा ‘‘महापजापतिगोतमी’’ति वुत्तं. वारभिक्खन्ति वारेन दातब्बं भिक्खं. नामं अकंसूति गोत्तंयेव नामं अकंसु. मातुच्छन्ति चूळमातरं. मातुभगिनी हि मातुच्छाति वुच्चति. कलहविवादसुत्तपरियोसानेति ‘‘कुतोपहूता कलहा विवादा’’तिआदिना सुत्तनिपाते आगतस्स कलहविवादसुत्तस्स (सु. नि. ८६८ आदयो) परियोसाने. इदञ्च अङ्गुत्तरभाणकानं कथामग्गानुसारेन वुत्तं. अपरे पन ‘‘तस्मिंयेव सुत्तनिपाते ‘अत्तदण्डाभयं जात’न्तिआदिना आगतस्स अत्तदण्डसुत्तस्स (सु. नि. ९४१ आदयो) परियोसाने’’ति वदन्ति. निक्खमित्वा पब्बजितानन्ति एत्थ एहिभिक्खुपब्बज्जाय एते पब्बजिताति वदन्ति. तेनेव सुत्तनिपाते अत्तदण्डसुत्तसंवण्णनाय (सु. नि. अट्ठ. २.९४२ आदयो) वुत्तं – ‘‘देसनापरियोसाने पञ्चसता साकियकुमारा कोळियकुमारा च एहिभिक्खुपब्बज्जाय पब्बजिता. ते गहेत्वा भगवा महावनं पाविसी’’ति. सेसमेत्थ सुविञ्ञेय्यमेव.

खेमाथेरीवत्थु

२३६. दुतिये परपरियापन्ना हुत्वाति परेसं दासी हुत्वा. सुवण्णरसपिञ्जरो अहोसीति सुवण्णरसपिञ्जरो विय अहोसि.

मक्कटकोव जालन्ति यथा नाम मक्कटको सुत्तजालं कत्वा मज्झट्ठाने नाभिमण्डले निपन्नो परियन्ते पतितं पटङ्गं वा मक्खिकं वा वेगेन गन्त्वा विज्झित्वा तस्स रसं पिवित्वा पुनागन्त्वा तस्मिंयेव ठाने निपज्जति, एवमेव ये सत्ता रागरत्ता दोसपदुट्ठा मोहमूळ्हा सयंकतं तण्हासोतं अनुपतन्ति, ते तं समतिक्कमितुं न सक्कोन्ति, एवं दुरतिक्कमं. एतम्पि छेत्वान वजन्ति धीराति पण्डिता एतं बन्धनं छिन्दित्वा अनपेक्खिनो निरालया हुत्वा अरहत्तमग्गेन सब्बं दुक्खं पहाय वजन्ति गच्छन्तीति अत्थो.

उप्पलवण्णाथेरीवत्थु

२३७. ततियं उत्तानत्थमेव.

पटाचाराथेरीवत्थु

२३८. चतुत्थे पटिहारसतेनपीति द्वारसतेनपि. पटिहारसद्दो हि द्वारे दोवारिके च दिस्सति. कुलसभागन्ति अत्तनो गेहसमीपं.

ताणायाति ताणभावाय पतिट्ठानत्थाय. बन्धवाति पुत्ते च पितरो च ठपेत्वा अवसेसा ञातिसुहज्जा. अन्तकेनाधिपन्नस्साति मरणेन अभिभूतस्स. पवत्तियञ्हि पुत्तादयो अन्नपानादिदानेन चेव उप्पन्नकिच्चनित्थरणेन च ताणा हुत्वापि मरणकाले केनचि उपायेन मरणं पटिबाहितुं असमत्थताय ताणत्थाय लेणत्थाय न सन्ति नाम. तेनेव वुत्तं – ‘‘नत्थि ञातीसु ताणता’’ति.

एतमत्थवसन्ति एतं तेसं अञ्ञमञ्ञस्स ताणं भवितुं असमत्थभावसङ्खातं कारणं जानित्वा पण्डितो चतुपारिसुद्धिसीलेन संवुतो रक्खितगोपितो हुत्वा निब्बानगमनं अट्ठङ्गिकं मग्गं सीघं सोधेय्याति अत्थो.

धम्मदिन्नाथेरीवत्थु

२३९. पञ्चमे परायत्तट्ठानेति परेसं दासिट्ठाने. सुजातत्थेरस्स अधिकारकम्मं कत्वाति सा किर अत्तनो केसे विक्किणित्वा सुजातत्थेरस्स नाम अग्गसावकस्स दानं दत्वा पत्थनं अकासि. तं सन्धायेतं वुत्तं. हत्थे पसारितेति तस्स हत्थावलम्बनत्थं पुब्बाचिण्णवसेन हत्थे पसारिते. सो किर अनागामी हुत्वा गेहं आगच्छन्तो यथा अञ्ञेसु दिवसेसु इतो चितो च ओलोकेन्तो सितं कुरुमानो हसमानो आगच्छति, एवं अनागन्त्वा सन्तिन्द्रियो सन्तमानसो हुत्वा अगमासि. धम्मदिन्ना सीहपञ्जरं उग्घाटेत्वा वीथिं ओलोकयमाना तस्स आगमनाकारं दिस्वा ‘‘किं नु खो एत’’न्ति चिन्तेत्वा तस्स पच्चुग्गमनं कुरुमाना सोपानसीसे ठत्वा ओलम्बनत्थं हत्थं पसारेसि. उपासको अत्तनो हत्थं समिञ्जेसि. सा ‘‘पातरासभोजनकाले जानिस्सामी’’ति चिन्तेसि. उपासको पुब्बे ताय सद्धिं एकतो भुञ्जति. तं दिवसं पन तं अनपलोकेत्वा योगावचरभिक्खु विय एककोव भुञ्जि. तेनाह – ‘‘भुञ्जमानोपि इमं देथ, इमं हरथाति न ब्याहरी’’ति. तत्थ इमं देथाति इमं खादनीयं वा भोजनीयं वा देथ. इमं हरथाति इमं खादनीयं वा भोजनीयं वा अपहरथ. सन्थववसेनाति किलेससन्थववसेन. चिरकालपरिभाविताय घटदीपजालाय विय अब्भन्तरे दिब्बमानाय हेतुसम्पत्तिया चोदियमाना आह – ‘‘एवं सन्ते…पे… मय्हं पब्बज्जं अनुजानाथा’’ति.

अयं ताव सेट्ठि घरमज्झे ठितोव दुक्खस्सन्तं अकासीति सा किर ‘‘धम्मदिन्ने तुय्हं दोसो नत्थि, अहं पन अज्ज पट्ठाय सन्थववसेन…पे… कुलघरं गच्छा’’ति वुत्ते एवं चिन्तेसि – ‘‘पकतिपुरिसो एवं वत्ता नाम नत्थि, अद्धा एतेन लोकुत्तरधम्मो नाम पटिविद्धो’’ति. तेनस्सा अयं सङ्कप्पो अहोसि ‘‘अयं ताव सेट्ठि घरमज्झे ठितोव दुक्खस्सन्तं अकासी’’ति. मज्झिमनिकायट्ठकथायं (म. नि. अट्ठ. १.४६०) पन ‘‘अथ कस्मा मया सद्धिं यथापकतिया आलापसल्लापमत्तम्पि न करोथाति सो चिन्तेसि – ‘अयं लोकुत्तरधम्मो नाम गरु भारियो न पकासेतब्बो; सचे खो पनाहं न कथेस्सामि, अयं हदयं फालेत्वा एत्थेव कालं करेय्या’ति तस्सा अनुग्गहत्थाय कथेसि – ‘धम्मदिन्ने अहं सत्थु धम्मदेसनं सुत्वा लोकुत्तरधम्मं नाम अधिगतो, तं अधिगतस्स एवरूपा लोकियकिरिया न वट्टती’’’ति वुत्तं.

पञ्चक्खन्धादिवसेन पञ्हे पुच्छीति ‘‘सक्कायो सक्कायोति अय्ये वुच्चति, कतमो नु खो अय्ये सक्कायो वुत्तो भगवता’’तिआदिना चूळवेदल्लसुत्ते (म. नि. १.४६० आदयो) आगतनयेन पुच्छि. पुच्छितं पुच्छितं विस्सज्जेसीति ‘‘पञ्च खो इमे, आवुसो विसाख, उपादानक्खन्धा सक्कायो वुत्तो भगवता’’तिआदिना (म. नि. १.४६० आदयो) तत्थेव आगतनयेन विस्सज्जेसि. सूरभावन्ति तिक्खभावं. अनधिगतअरहत्तमग्गस्स उग्गहेन विना तत्थ पञ्हो न उपट्ठातीति आह – ‘‘उग्गहवसेन अरहत्तमग्गेपि पुच्छी’’ति. तं निवत्तेन्तीति ‘‘विमुत्तिया पनाय्ये किं पटिभागो’’ति पुच्छिते ‘‘विमुत्तिया खो, आवुसो विसाख, निब्बानं पटिभागो’’ति (म. नि. १.४६६) वुत्ते ‘‘निब्बानस्स, पनाय्ये, किं पटिभागो’’ति पुन पुच्छिते तं निवत्तेन्ती ‘‘अच्चसरावुसो विसाखा’’तिआदिमाह. तत्थ अच्चसराति अपुच्छितब्बं पुच्छन्तो पञ्हं अतिक्कामिता अहोसीति अत्थो. नासक्खि पञ्हानं परियन्तं गहेतुन्ति पञ्हानं परिच्छेदप्पमाणं गहेतुं नासक्खि. पञ्हानञ्हि परिच्छेदं गहेतुं युत्तट्ठाने अट्ठत्वा ततो परं पुच्छन्तो नासक्खि पञ्हानं परियन्तं गहेतुं. अप्पटिभागधम्मस्स च पटिभागं पुच्छि. निब्बानं नामेतं अप्पटिभागं, न सक्का नीलं वा पीतकं वाति केनचि धम्मेन सद्धिं पटिभागं कत्वा दस्सेतुं, तञ्च त्वं इमिना अधिप्पायेन पुच्छसीति अत्थो. निब्बानोगधन्ति निब्बानं ओगाहेत्वा ठितं, निब्बानन्तोगधं निब्बानं अनुप्पविट्ठन्ति अत्थो. निब्बानपरायणन्ति निब्बानं परं अयनमस्स परागति, न ततो परं गच्छतीति अत्थो. निब्बानं परियोसानं अवसानं अस्साति निब्बानपरियोसानं.

पुरेति अतीतेसु खन्धेसु. पच्छाति अनागतेसु खन्धेसु. मज्झेति पच्चुप्पन्नेसु खन्धेसु. अकिञ्चनन्ति यस्स एतेसु तीसु तण्हागाहसङ्खातं किञ्चनं नत्थि, तमहं रागकिञ्चनादीहि अकिञ्चनं कस्सचि गहणस्स अभावेन अनादानं ब्राह्मणं वदामीति अत्थो.

पण्डिताति धातुआयतनादिकुसलतासङ्खातेन पण्डिच्चेन समन्नागता. वुत्तञ्हेतं –

‘‘कित्तावता नु खो, भन्ते, पण्डितो होति? यतो खो, आनन्द, भिक्खु धातुकुसलो च होति आयतनकुसलो च पटिच्चसमुप्पादकुसलो च ठानाट्ठानकुसलो च, एत्तावता खो, आनन्द, भिक्खु पण्डितो होती’’ति.

महापञ्ञाति महन्ते अत्थे महन्ते धम्मे महन्ता निरुत्तियो महन्तानि पटिभानानि परिग्गहणे समत्थाय पञ्ञाय समन्नागता. इमिस्सा हि थेरिया असेक्खप्पटिसम्भिदाप्पत्तताय पटिसम्भिदायो पूरेत्वा ठितताय पञ्ञामहत्तं. यथा तं धम्मदिन्नायाति यथा धम्मदिन्नाय भिक्खुनिया ब्याकतं, अहं एवमेव ब्याकरेय्यन्ति अत्थो. तन्ति निपातमत्थं.

नन्दाथेरीवत्थु

२४०. छट्ठे अञ्ञं मग्गं अपस्सन्तीति अञ्ञं उपायं अपस्सन्ती. विस्सत्थाति निरासङ्का. इत्थिनिमित्तन्ति इत्थिया सुभनिमित्तं, सुभाकारन्ति वुत्तं होति. धम्मपदे गाथं वत्वाति –

‘‘अट्ठीनं नगरं कतं, मंसलोहितलेपनं;

यत्थ जरा च मच्चु च, मानो मक्खो च ओहितो’’ति. (ध. प. १५०) –

इमं गाथं वत्वा. तत्रायमधिप्पायो – यथेव हि पुब्बण्णापरण्णादीनं ओदहनत्थाय कट्ठानि उस्सापेत्वा वल्लीहि बन्धित्वा मत्तिकाय विलिम्पित्वा नगरसङ्खातं बहिद्धा गेहं करोन्ति, एवमिदं अज्झत्तिकम्पि तीणि अट्ठिसतानि उस्सापेत्वा न्हारुविनद्धं मंसलोहितलेपनं तचपटिच्छन्नं जीरणलक्खणाय जराय मरणलक्खणस्स मच्चुनो आरोग्यसम्पदादीनि पटिच्च उप्पज्जनलक्खणस्स मानस्स सुकतकारणविनासनलक्खणस्स मक्खस्स च ओदहनत्थाय नगरं कतं. एवरूपो एव हि एत्थ कायिकचेतसिको आबाधो ओहितो, इतो उद्धं किञ्चि गय्हूपगं नत्थीति.

सुत्तं अभासीति –

‘‘चरं वा यदि वा तिट्ठं, निसिन्नो उद वा सयं;

समिञ्जेति पसारेति, एसा कायस्स इञ्जना.

‘‘अट्ठिनहारुसंयुत्तो, तचमंसावलेपनो;

छविया कायो पटिच्छन्नो, यथाभूतं न दिस्सती’’ति. (सु. नि. १९५-१९६) –

आदिना सुत्तमभासि.

सोणाथेरीवत्थु

२४१. सत्तमे सब्बेपि विसुं विसुं घरावासे पतिट्ठापेसीति एत्थ सब्बेपि विसुं विसुं घरावासे पतिट्ठापेत्वा ‘‘पुत्ताव मं पटिजग्गिस्सन्ति, किं मे विसुं कुटुम्बेना’’ति सब्बं सापतेय्यम्पि विभजित्वा अदासीति वेदितब्बं. तेनेव हि ततो पट्ठाय ‘‘अयं अम्हाकं किं करिस्सती’’ति अत्तनो सन्तिकं आगतं ‘‘माता’’ति सञ्ञम्पि न करिंसु. तथा हि नं कतिपाहच्चयेन जेट्ठपुत्तस्स भरिया ‘‘अहो अम्हाकं अयं जेट्ठेपुत्तो मेति द्वे कोट्ठासे दत्वा विय इममेव गेहं आगच्छती’’ति आह. सेसपुत्तानं भरियायोपि एवमेवं वदिंसु. जेट्ठधीतरं आदिं कत्वा तासं गेहं गतकाले तापि नं एवमेव वदिंसु. सा अवमानप्पत्ता हुत्वा ‘‘किं मे इमेसं सन्तिके वुत्थेन, भिक्खुनी हुत्वा जीविस्सामी’’ति भिक्खुनीउपस्सयं गन्त्वा पब्बज्जं याचि, ता नं पब्बाजेसुं. इममेव वत्थुं दस्सेन्तो ‘‘बहुपुत्तिकसोणा तेसं अत्तनि अगारवभावं ञत्वा ‘घरावासेन किं करिस्सामी’ति निक्खमित्वा पब्बजी’’ति आह.

विहारं गच्छन्तियोति भिक्खुविहारं गच्छन्तियो. धम्ममुत्तमन्ति नवविधलोकुत्तरधम्मं. सो हि उत्तमधम्मो नाम यो हि तं न पस्सति, तस्स वस्ससतम्पि जीवनतो तं धम्मं पस्सन्तस्स पटिविज्झन्तस्स एकाहम्पि एकक्खणम्पि जीवितं सेय्यो. आगन्तुकजनोति विहारगतं भिक्खुनीजनं सन्धाय वदति. अनुपधारेत्वाति असल्लक्खेत्वा.

बकुलाथेरीवत्थु

२४२. अट्ठमं उत्तानत्थमेव.

कुण्डलकेसाथेरीवत्थु

२४३. नवमे चतुक्केति वीथिचतुक्के. चतुन्नं समाहारो चतुक्कं. चारकतोति बन्धनागारतो. उब्बट्टेत्वाति उद्धरित्वा.

मुहुत्तमपि चिन्तयेति मुहुत्तं तङ्खणम्पि ठानुप्पत्तिकपञ्ञाय तङ्खणानुरूपं अत्थं चिन्तितुं सक्कुणेय्य. सहस्समपि चे गाथा, अनत्थपदसंहिताति अयं गाथा दारुचीरियत्थेरस्स भगवता भासिता, इधापि च सायेव गाथा दस्सिता. थेरिगाथासंवण्णनायं आचरियधम्मपालत्थेरेनपि कुण्डलकेसित्थेरिया वत्थुम्हि अयमेव गाथा वुत्ता. धम्मपदट्ठकथायं पन कुण्डलकेसित्थेरिया वत्थुम्हि –

‘‘यो च गाथासतं भासे, अनत्थपदसंहिता;

एकं धम्मपदं सेय्यो, यं सुत्वा उपसम्मती’’ति. (ध. प. अट्ठ. १.१०२) –

अयं गाथा आगता. तंतंभाणकानं कथामग्गानुसारेन तत्थ तत्थ तथा वुत्तन्ति न इध आचरियस्स पुब्बापरविरोधो सङ्कितब्बो.

भद्दाकापिलानीथेरी-भद्दाकच्चानाथेरीवत्थु

२४४-२४५. दसमं एकादसमञ्च उत्तानत्थमेव.

किसागोतमीथेरीवत्थु

२४६. द्वादसमे तीहि लूखेहीति वत्थलूखसुत्तलूखरजनलूखसङ्खातेहि तीहि लूखेहि. सिद्धत्थकन्ति सासपबीजं.

तं पुत्तपसुसम्मत्तन्ति तं रूपबलादिसम्पन्ने पुत्ते च पसू च लभित्वा ‘‘मम पुत्ता अभिरूपा बलसम्पन्ना पण्डिता सब्बकिच्चसमत्था, मम गोणो अरोगो अभिरूपो महाभारवहो, मम गावी बहुखीरा’’ति एवं पुत्तेहि च पसूहि च सम्मत्तं नरं. ब्यासत्तमनसन्ति चक्खुविञ्ञेय्यादीसु आरम्मणेसु हिरञ्ञसुवण्णादीसु पत्तचीवरादीसु वा यं यं लद्धं होति, तत्थ तत्थेव लग्गनाय सत्तमानसं. सुत्तं गामन्ति निद्दं उपगतं सत्तकायं. महोघोवाति यथा एवरूपं गामं गम्भीरतो वित्थारतो च महन्तो महानदिओघो अन्तमसो सुनखम्पि असेसेत्वा सब्बं आदाय गच्छति, एवं वुत्तप्पकारं नरं मच्चु आदाय गच्छतीति अत्थो. अमतं पदन्ति मरणरहितं कोट्ठासं, अमतं महानिब्बानन्ति अत्थो. सेसमेत्थ उत्तानमेव.

सिङ्गालकमाताथेरीवत्थु

२४७. तेरसमं उत्तानत्थमेव.

(पञ्चमएतदग्गवग्गवण्णना निट्ठिता.)

थेरिपाळिसंवण्णना निट्ठिता.