१४. एतदग्गवग्गो

(१४) ६. छट्ठएतदग्गवग्गवण्णना

तपुस्स-भल्लिकवत्थु

२४८. उपासकपाळिसंवण्णनाय पठमे सब्बपठमं सरणं गच्छन्तानन्ति सब्बेसं पठमं हुत्वा सरणं गच्छन्तानं. इतो परन्ति सत्तसत्ताहतो परं. गमनूपच्छेदं अकासीति गमनविच्छेदं अकासि. यथा ते गोणा धुरं छड्डेत्वा पोथियमानापि न गच्छन्ति, तथा अकासीति अत्थो. तेसन्ति तपुस्सभल्लिकानं. अधिमुच्चित्वाति आविसित्वा. यक्खस्स आवट्टो यक्खावट्टो. एवं सेसेसुपि. अतीतबुद्धानं आचिण्णं ओलोकेसीति अतीतबुद्धा केन भाजनेन पटिग्गण्हिंसूति बुद्धाचिण्णं ओलोकेसि. द्वेवाचिके सरणे पतिट्ठायाति सङ्घस्स अनुप्पन्नत्ता बुद्धधम्मवसेन द्वेवाचिके सरणे पतिट्ठहित्वा. चेतियन्ति पूजनीयवत्थुं. जीवकेसधातुयाति जीवमानस्स भगवतो केसधातुया.

अनाथपिण्डिकसेट्ठिवत्थु

२४९. दुतिये तेनेव गुणेनाति तेनेव दायकभावसङ्खातेन गुणेन. सो हि सब्बकामसमिद्धताय विगतमच्छेरताय करुणादिगुणसमङ्गिताय च निच्चकालं अनाथानं पिण्डमदासि. तेन सब्बकालं उपट्ठितो अनाथानं पिण्डो एतस्स अत्थीति अनाथपिण्डिकोति सङ्खं गतो. योजनिकविहारे कारेत्वाति योजने योजने एकमेकं विहारं कारेत्वा. ‘‘एवरूपं दानं पवत्तेसी’’ति वत्वा तमेव दानं विभजित्वा दस्सेन्तो ‘‘देवसिकं पञ्च सलाकभत्तानि होन्ती’’तिआदिमाह. तत्थ सलाकाय गाहेतब्बं भत्तं सलाकभत्तं. एकस्मिं पक्खे एकदिवसं दातब्बं भत्तं पक्खिकभत्तं. धुरगेहे ठपेत्वा दातब्बं भत्तं धुरभत्तं. आगन्तुकानं दातब्बं भत्तं आगन्तुकभत्तं. एवं सेसेसुपि. पञ्च आसनसतानि गेहे निच्चपञ्ञत्तानेव होन्तीति गेहे निसीदापेत्वा भुञ्जन्तानं पञ्चन्नं भिक्खुसतानं पञ्च आसनसतानि निच्चपञ्ञत्तानि होन्ति.

चित्तगहपतिवत्थु

२५०. ततिये मिगा एव मिगरूपानि. भिक्खं समादापेत्वाति, ‘‘भन्ते, मय्हं अनुग्गहं करोथ, इध निसीदित्वा भिक्खं गण्हथा’’ति भिक्खागहणत्थं समादापेत्वा. विवट्टं उद्दिस्स उपचितं निब्बेधभागियकुसलं उपनिस्सयो. सळायतनविभत्तिमेव देसेसीति सळायतनविभागप्पटिसंयुत्तमेव धम्मकथं कथेसि. थेरेनाति तत्थ सन्निहितानं सब्बेसं जेट्ठेन महाथेरेन. पञ्हं विस्सज्जेतुं असक्कोन्तेनाति चित्तेन गहपतिना ‘‘या इमा, भन्ते थेर, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति, ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्ञं जीवं अञ्ञं सरीर’न्ति वा, ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न होति च तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा यानि चिमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले गणितानि, इमा नु खो, भन्ते, दिट्ठियो किस्मिं सति होन्ति, किस्मिं असति न होन्ती’’ति एवमादिना (सं. नि. ४.३४५) पञ्हे पुट्ठे तं पञ्हं विस्सज्जेतुं असक्कोन्तेन. इमं किर पञ्हं यावततियं पुट्ठो महाथेरो तुण्ही अहोसि. अथ इसिदत्तत्थेरो चिन्तेसि – ‘‘अयं थेरो नेव अत्तना ब्याकरोति, न अञ्ञं अज्झेसति, उपासको च भिक्खुसङ्घं विहेसति, अहमेतं ब्याकरित्वा फासुविहारं कत्वा दस्सामी’’ति. एवं चिन्तेत्वा च आसनतो वुट्ठाय थेरस्स सन्तिकं गन्त्वा ‘‘ब्याकरोमहं, भन्ते, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति (सं. नि. ४.३४५) आह. एवं वुत्ते थेरो ‘‘ब्याकरोहि त्वं, आवुसो इसिदत्त, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति इसिदत्तं अज्झेसि. तेन वुत्तं – ‘‘पञ्हं विस्सज्जेतुं असक्कोन्तेन अज्झिट्ठो’’ति.

पञ्हं विस्सज्जेत्वाति ‘‘या इमा, गहपति, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे… यानि चिमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले गणितानि, इमा खो, गहपति, दिट्ठियो सक्कायदिट्ठिया सति होन्ति, सक्कायदिट्ठिया असति न होन्ती’’तिआदिना नयेन पञ्हं विस्सज्जेत्वा. गिहिसहायकभावे ञातेति थेरस्स गिहिसहायकभावे चित्तेन गहपतिना ञाते. चित्तो किर, गहपति, तस्स पञ्हवेय्याकरणे तुट्ठो ‘‘कुतो, भन्ते, अय्यो इसिदत्तो आगच्छती’’ति वत्वा ‘‘अवन्तिया खो अहं, गहपति, आगच्छामी’’ति वुत्तो ‘‘अत्थि, भन्ते, अवन्तिया इसिदत्तो नाम कुलपुत्तो अम्हाकं अदिट्ठसहायो पब्बजितो, दिट्ठो सो आयस्मता’’ति पुच्छि. थेरो च ‘‘एवं, गहपती’’ति वत्वा ‘‘कहं नु खो, भन्ते, सो आयस्मा एतरहि विहरती’’ति पुन पुट्ठो तुण्ही अहोसि. अथ चित्तो गहपति ‘‘अय्यो नो, भन्ते, इसिदत्तो’’ति पुच्छित्वा ‘‘एवं, गहपती’’ति वुत्ते अत्तनो गिहिसहायभावं अञ्ञासि.

तेजोसमापत्तिपाटिहारियं दस्सेत्वाति एकस्मिं किर दिवसे चित्तो गहपति ‘‘साधु मे, भन्ते, अय्यो उत्तरिमनुस्सधम्मा इद्धिपाटिहारियं दस्सेतू’’ति महाथेरं याचि. थेरो ‘‘तेन हि त्वं, गहपति, आळिन्दे उत्तरासङ्गं पञ्ञापेत्वा तत्थ तिणकलापं ओकिरा’’ति वत्वा तेन च तथा कते सयं विहारं पविसित्वा च घटिकं दत्वा तथारूपं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा ताळच्छिग्गळेन च अग्गळन्तरिकाय च अच्चि निक्खमित्वा तिणानि झापेति, उत्तरासङ्गं न झापेति. अथ चित्तो गहपति उत्तरासङ्गं पप्फोटेत्वा संविग्गो लोमहट्ठजातो एकमन्तं ठितो थेरं बहि निक्खमन्तं दिस्वा ‘‘अभिरमतु, भन्ते, अय्यो मच्छिकासण्डे, रमणीयं अम्बाटकवनं, अहं अय्यस्स उस्सुक्कं करिस्सामि चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारान’’न्ति आह. ततो थेरो ‘‘न दानि इध वसितुं सक्का’’ति तम्हा विहारा पक्कामि. तं सन्धायेतं वुत्तं – ‘‘तेजोसमापत्ति पाटिहारियं दस्सेत्वा ‘इदानि इध वसितुं न युत्त’न्ति यथासुखं पक्कामी’’ति. द्वे अग्गसावकातिआदीसु यं वत्तब्बं, तं वित्थारतो विनयपाळियं आगतमेव.

सद्धोति लोकियलोकुत्तराय सद्धाय समन्नागतो. सीलेनाति अगारियसीलं अनगारियसीलन्ति दुविधं सीलं, तेसु इध अगारियं सीलं अधिप्पेतं, तेन समन्नागतोति अत्थो. यसोभोगसमप्पितोति यादिसो अनाथपिण्डिकादीनं पञ्चउपासकसतपरिवारसङ्खातो अगारियो यसो, तादिसेनेव यसेन, यो च धनधञ्ञादिको चेव सत्तविधअरियधनसङ्खातो चाति दुविधो भोगो, तेन च समन्नागतोति अत्थो. यं यं पदेसन्ति पुरत्थिमादीसु दिसासु एवरूपो कुलपुत्तो यं यं पदेसं भजति, तत्थ तत्थ एवरूपेन लाभसक्कारेन पूजितोव होतीति अत्थो.

हत्थकआळवकवत्थु

२५१. चतुत्थे चतुब्बिधेन सङ्गहवत्थुनाति दानपियवचनअत्थचरियासमानत्ततासङ्खातेन चतुब्बिधेन सङ्गहवत्थुना. ‘‘स्वे भत्तचाटिया सद्धिं आळवकस्स पेसेतब्बो अहोसी’’ति वुत्तमत्थं पाकटं कत्वा दस्सेतुं – ‘‘तत्रायं अनुपुब्बिकथा’’तिआदिमाह. मिगवत्थाय अरञ्ञं गन्त्वाति आळवको राजा विविधनाटकूपभोगं छड्डेत्वा चोरप्पटिबाहनत्थञ्च पटिराजनिसेधनत्थञ्च ब्यायामकरणत्थञ्च सत्तमे सत्तमे दिवसे मिगवं गच्छन्तो एकदिवसं बलकायेन सद्धिं ‘‘यस्स पस्सेन मिगो पलायति, तस्सेव सो भारो’’ति कतकतिकवत्तो मिगवत्थाय अरञ्ञं गन्त्वा. एकं मिगन्ति अत्तनो ठितट्ठानेन पलातं एणिमिगं. अनुबन्धित्वाति तियोजनमग्गं एककोव अनुबन्धित्वा. जवसम्पन्नो हि राजा धनुं गहेत्वा पत्तिकोव तियोजनं तं मिगमनुबन्धि. घातेत्वाति यस्मा एणिमिगा तियोजनवेगा एव होन्ति, तस्मा परिक्खिणजवं तं मिगं उदकं पविसित्वा ठितं घातेत्वा. द्विधा छेत्वा धनुकोटियं लगेत्वा निवत्तेत्वा आगच्छन्तोति अनत्थिकोपि मंसेन ‘‘नासक्खि मिगं गहेतु’’न्ति अपवादमोचनत्थं द्विधा छिन्नं धनुकोटियं लगेत्वा आगच्छन्तो. सन्दच्छायन्ति घनच्छायं बहलपत्तपलासं.

रुक्खे अधिवत्था देवताति आळवकं यक्खं सन्धाय वदति. सो हि महाराजूनं सन्तिका वरं लभित्वा मज्झन्हिकसमये तस्स रुक्खस्स छायाय फुट्ठोकासं पविट्ठे पाणिनो खादन्तो तत्थ पटिवसति. आळवकस्स निसीदनपल्लङ्के निसीदीति यत्थ अभिलक्खितेसु मङ्गलदिवसादीसु आळवको निसीदित्वा सिरिं अनुभोति, तस्मिंयेव दिब्बरतनपल्लङ्के निसीदि. अत्तनो गमने असम्पज्जमाने ‘‘किं नु खो कारण’’न्ति आवज्जेन्ताति तदा किर सातागिरहेमवता भगवन्तं जेतवनेयेव वन्दित्वा ‘‘यक्खसमागमं गमिस्सामा’’ति सपरिवारा नानायानेहि आकासेन गच्छन्ति, आकासे च यक्खानं न सब्बत्थ मग्गो अत्थि, आकासट्ठानि विमानानि परिहरित्वा मग्गट्ठानेनेव मग्गो होति, आळवकस्स पन विमानं भूमट्ठं सुगुत्तं पाकारपरिक्खित्तं सुसंविहितद्वारट्टालकगोपुरं उपरि कंसजालसञ्छन्नमञ्जूसासदिसं तियोजनं उब्बेधेन, तस्स उपरि मग्गो होति, ते तं पदेसमागम्म गन्तुमसमत्था अहेसुं. बुद्धानञ्हि निसिन्नोकासस्स उपरिभागेन याव भवग्गा कोचि गन्तुमसमत्थो, तस्मा अत्तनो गमने असम्पज्जमाने ‘‘किं नु खो कारण’’न्ति आवज्जेसुं. तेसं कथं सुत्वा चिन्तेसीति यस्मा अस्सद्धस्स सद्धाकथा दुक्कथा होति दुस्सीलादीनं सीलकथादयो विय, तस्मा तेसं यक्खानं सन्तिका भगवतो पसंसं सुत्वा एव अग्गिम्हि पक्खित्तलोणसक्खरा विय अब्भन्तरे उप्पन्नकोपेन पटपटायमानहदयो हुत्वा चिन्तेसि. पब्बतकूटन्ति केलासपब्बतकूटं.

इतो पट्ठाय आळवकयुद्धं वित्थारेतब्बन्ति सो किर मनोसिलातले वामपादेन ठत्वा ‘‘पस्सथ दानि तुम्हाकं वा सत्था महानुभावो, अहं वा’’ति दक्खिणपादेन सट्ठियोजनमत्तं केलासकूटपब्बतं अक्कमि, तं अयोकूटप्पहतो विय निद्धन्तअयपिण्डो पपटिकायो मुञ्चि. सो तत्र ठत्वा ‘‘अहं आळवको’’ति उग्घोसेसि, सकलजम्बुदीपं सद्दो फरि. तियोजनसहस्सवित्थतहिमवापि सम्पकम्पि यक्खस्सानुभावेन. सो वातमण्डलं समुट्ठापेसि ‘‘एतेनेव समणं पलापेस्सामी’’ति. ते पुरत्थिमादिभेदा वाता समुट्ठहित्वा अड्ढयोजनयोजनद्वियोजनतियोजनप्पमाणानि पब्बतकूटानि पदालेत्वा वनगच्छरुक्खादीनि उम्मूलेत्वा आळविनगरं पक्खन्दा जिण्णहत्थिसालादीनि चुण्णेन्ता छदनिट्ठका आकासे भमेन्ता. भगवा ‘‘मा कस्सचि उपरोधो होतू’’ति अधिट्ठासि. ते वाता दसबलं पत्वा चीवरकण्णमत्तम्पि चालेतुं नासक्खिंसु. ततो महावस्सं समुट्ठापेसि ‘‘उदकेन अज्झोत्थरित्वा समणं मारेस्सामी’’ति. तस्सानुभावेन उपरूपरि सतपटलसहस्सपटलादिभेदा वलाहका उट्ठहित्वा पवस्सिंसु. वुट्ठिधारावेगेन पथवी छिद्दा अहोसि. वनरुक्खादीनं उपरि महोघो आगन्त्वा दसबलस्स चीवरे उस्सावबिन्दुमत्तम्पि तेमेतुं नासक्खि. ततो पासाणवस्सं समुट्ठापेसि. महन्तानि महन्तानि पब्बतकूटानि धूमायन्तानि पज्जलन्तानि आकासेनागन्त्वा दसबलं पत्वा दिब्बमालागुळानि सम्पज्जिंसु. ततो पहरणवस्सं समुट्ठापेसि. एकतोधारा उभतोधारा असिसत्तिखुरप्पादयो धूमायन्ता पज्जलन्ता आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि अहेसुं.

ततो अङ्गारवस्सं समुट्ठापेसि. किंसुकवण्णा अङ्गारा आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि हुत्वा विकिरिंसु. ततो कुक्कुळवस्सं समुट्ठापेसि. अच्चुण्हो कुक्कुळो आकासेनागन्त्वा दसबलस्स पादमूले चन्दनचुण्णं हुत्वा निपति. ततो वालिकवस्सं समुट्ठापेसि. अतिसुखुमा वालिका धूमायन्ता पज्जलन्ता आकासेनागन्त्वा दसबलस्स पादमूले दिब्बपुप्फानि हुत्वा निपतिंसु. ततो कललवस्सं समुट्ठापेसि. तं धूमायन्तं पज्जलन्तं आकासेनागन्त्वा दसबलस्स पादमूले दिब्बगन्धं हुत्वा निपति. ततो अन्धकारं समुट्ठापेसि ‘‘भिंसेत्वा समणं पलापेस्सामी’’ति. चतुरङ्गसमन्नागतं अन्धकारसदिसं हुत्वा दसबलं पत्वा सूरियप्पभाविहतमिवन्धकारं अन्तरधायि. एवं यक्खो इमाहि नवहि वातवस्सपासाणपहरणङ्गारकुक्कुळवालिककललन्धकारवुट्ठीहि भगवन्तं पलापेतुमसक्कोन्तो नानाविधप्पहरणहत्थअनेकप्पकाररूपभूतगणसमाकुलाय चतुरङ्गिनिया सेनाय सयमेव भगवन्तं अभिगतो. ते भूतगणा अनेकप्पकारविकारे कत्वा ‘‘गण्हथ हनथा’’ति भगवतो उपरि आगच्छन्ता विय च होन्ति. अपिच खो निद्धन्तलोहपिण्डं विय मक्खिका भगवन्तं अल्लीयितुमसमत्था एव अहेसुं.

एवं सब्बरत्तिं अनेकप्पकारविभिंसाकारदस्सनेनपि भगवन्तं चालेतुमसक्कोन्तो आळवको चिन्तेसि – ‘‘यंनूनाहं केनचि अजेय्यं दुस्सावुधं मुञ्चेय्य’’न्ति. सचे हि सो दुट्ठो आकासे तं दुस्सावुधं मुञ्चेय्य, द्वादस वस्सानि देवो न वस्सेय्य. सचे पथवियं मुञ्चेय्य, सब्बरुक्खतिणादीनि सुस्सित्वा द्वादसवस्सन्तरं न पुन रुहेय्युं. सचे समुद्दे मुञ्चेय्य, तत्तकपाले उदकबिन्दु विय सब्बं सुस्सेय्य. सचे सिनेरुपब्बते मुञ्चेय्य, खण्डाखण्डं हुत्वा विकिरेय्य. सो एवंमहानुभावं दुस्सावुधं उत्तरिसाटकं मुञ्चित्वा अग्गहेसि. येभुय्येन दससहस्सिलोकधातुदेवता वेगेन सन्निपतिंसु ‘‘अज्ज भगवा आळवकं दमेस्सति, तत्थ धम्मं सोस्सामा’’ति. युद्धदस्सनकामापि देवता सन्निपतिंसु. एवं सकलम्पि आकासं देवताहि परिपुण्णं अहोसि. अथाळवको भगवतो समीपे उपरूपरि विचरित्वा वत्थावुधं मुञ्चि. तं असनिचक्कं विय आकासे भेरवसद्दं करोन्तं धूमायन्तं पज्जलन्तं भगवन्तं पत्वा यक्खस्स मानमद्दनत्थं पादपुञ्छनचोळं हुत्वा पादमूले निपति. आळवको तं दिस्वा छिन्नविसाणो विय उसभो, उद्धटदाठो विय सप्पो नित्तेजो निम्मदो निपातितमानद्धजो अहोसि. एवमिदं आळवकयुद्धं वित्थारेतब्बं.

अट्ठ पञ्हे पुच्छीति –

‘‘किं सूध वित्तं पुरिसस्स सेट्ठं,

किं सु सुचिण्णं सुखमावहाति;

किं सु हवे सादुतरं रसानं,

कथं जीविं जीवितमाहु सेट्ठ’’न्ति. (सं. नि. १.२४६; सु. नि. १८३) –

आदिना अट्ठ पञ्हे पुच्छि. सत्था विस्सज्जेसीति –

‘‘सद्धीध वित्तं पुरिसस्स सेट्ठं,

धम्मो सुचिण्णो सुखमावहाति;

सच्चं हवे सादुतरं रसानं,

पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति. (सं. नि. १.२४६; सु. नि. १८४) –

आदिना विस्सज्जेसि. विक्कन्दमानायाति अच्चन्तं परिदेवमानाय.

महानामसक्कवत्थु

२५२. पञ्चमे सत्था ततो परं पटिञ्ञं नादासीति संवच्छरतो परं सिक्खापदपञ्ञत्तिया पच्चयप्पवारणासादियनस्स वारितत्ता ‘‘पटिञ्ञं नादासी’’ति वुत्तं. तथा हि भगवा ततियवारेपि महानामेन सक्केन ‘‘इच्छामहं, भन्ते, सङ्घं यावजीवं भेसज्जेन पवारेतु’’न्ति (पाचि. ३०४-३०५) वुत्ते ‘‘साधु साधु, महानाम, तेन हि त्वं, महानाम, सङ्घं यावजीवं भेसज्जेन पवारेही’’ति पटिञ्ञं अदासियेव. एवं पटिञ्ञं दत्वा पच्छा छब्बग्गियेहि भिक्खूहि महानामस्स सक्कस्स विहेठितभावं सुत्वा छब्बग्गिये भिक्खू विगरहित्वा सिक्खापदं पञ्ञपेसि ‘‘अगिलानेन भिक्खुना चातुमासप्पच्चयपवारणा सादितब्बा अञ्ञत्र पुनप्पवारणाय अञ्ञत्र निच्चप्पवारणाय. ततो चे उत्तरि सादियेय्य, पाचित्तिय’’न्ति. तस्मा पठमं अनुजानित्वापि पच्छा सिक्खापदबन्धनेन वारितत्ता ‘‘पटिञ्ञं नादासी’’ति वुत्तं.

उग्गगहपत्यादिवत्थु

२५३-२५६. छट्ठसत्तमअट्ठमनवमानि सुविञ्ञेय्यानेव.

नकुलपितुगहपतिवत्थु

२५७. दसमे सुसुमारगिरिनगरेति एवंनामके नगरे. तस्स किर नगरस्स वत्थुपरिग्गहदिवसे अविदूरे उदकरहदे सुसुमारो सद्दमकासि, गिरं निच्छारेसि. अथ नगरे अनन्तरायेन मापिते तमेव सुसुमारगिरकरणं सुभनिमित्तं कत्वा ‘‘सुसुमारगिरी’’त्वेवस्स नामं अकंसु. केचि पन ‘‘सुसुमारसण्ठानत्ता सुसुमारो नाम एको गिरि, सो तस्स नगरस्स समीपे, तस्मा तं सुसुमारगिरि एतस्स अत्थीति सुसुमारगिरीति वुच्चती’’ति वदन्ति. भेसकळावनेति भेसकळानामके वने. ‘‘भेसकलावने’’तिपि पाठो. कथं पन भगवति नेसं पुत्तसञ्ञा पतिट्ठासीति आह – ‘‘अयं किरा’’तिआदि. दहरस्सेव दहरा आनीताति मे दहरस्सेव सतो दहरा आनीताति अत्थो. अतिचरिताति अतिक्कमित्वा चरन्तो.

(छट्ठएतदग्गवग्गवण्णना निट्ठिता.)

उपासकपाळिसंवण्णना निट्ठिता.