२. पभस्सरविमानवत्थु
६९७. ‘‘पभस्सरवरवण्णनिभे, सुरत्तवत्थवसने [वत्थनिवासने (सी. स्या.)];
महिद्धिके चन्दनरुचिरगत्ते, का त्वं सुभे देवते वन्दसे ममं.
६९८. ‘‘पल्लङ्को च ते महग्घो, नानारतनचित्तितो रुचिरो;
यत्थ त्वं निसिन्ना विरोचसि, देवराजारिव नन्दने वने.
६९९. ‘‘किं त्वं पुरे सुचरितमाचरी भद्दे, किस्स कम्मस्स विपाकं;
अनुभोसि देवलोकस्मिं, देवते पुच्छिताचिक्ख;
किस्स कम्मस्सिदं फल’’न्ति.
७००. ‘‘पिण्डाय ते चरन्तस्स, मालं फाणितञ्च अददं भन्ते;
तस्स कम्मस्सिदं विपाकं, अनुभोमि देवलोकस्मिं.
७०१. ‘‘होति च मे अनुतापो, अपरद्धं [अपराधं (स्या.)] दुक्खितञ्च [दुक्कटञ्च (सी.)] मे भन्ते;
साहं धम्मं नास्सोसिं, सुदेसितं धम्मराजेन.
७०२. ‘‘तं तं वदामि भद्दन्ते, ‘यस्स मे अनुकम्पियो कोचि;
धम्मेसु तं समादपेथ’, सुदेसितं धम्मराजेन.
७०३. ‘‘येसं अत्थि सद्धा बुद्धे, धम्मे च सङ्घरतने;
ते मं अतिविरोचन्ति, आयुना यससा सिरिया.
७०४. ‘‘पतापेन वण्णेन उत्तरितरा,
अञ्ञे महिद्धिकतरा मया देवा’’ति;
पभस्सरविमानं दुतियं.