४. सक्कायदिट्ठिनिद्देसो

१३७. सक्कायदिट्ठिया कतमेहि वीसतिया आकारेहि अभिनिवेसो होति? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति रूपवन्तं वा अत्तानं अत्तनि वा रूपं रूपस्मिं वा अत्तानं. वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति विञ्ञाणवन्तं वा अत्तानं अत्तनि वा विञ्ञाणं विञ्ञाणस्मिं वा अत्तानं.

कथं रूपं अत्ततो समनुपस्सति? इधेकच्चो पथवीकसिणं…पे… ओदातकसिणं अत्ततो समनुपस्सति. ‘‘यं ओदातकसिणं, सो अहं; यो अहं, तं ओदातकसिण’’न्ति – ओदातकसिणञ्च अत्तञ्च अद्वयं समनुपस्सति. सेय्यथापि तेलप्पदीपस्स झायतो…पे… एवमेवं इधेकच्चो ओदातकसिणं अत्ततो समनुपस्सति. अभिनिवेसपरामासो दिट्ठि…पे… अयं पठमा रूपवत्थुका सक्कायदिट्ठि. सक्कायदिट्ठि मिच्छादिट्ठि…पे… इमानि सञ्ञोजनानि, न च दिट्ठियो. एवं रूपं अत्ततो समनुपस्सति…पे… सक्कायदिट्ठिया इमेहि वीसतिया आकारेहि अभिनिवेसो होति.

सक्कायदिट्ठिनिद्देसो चतुत्थो.