१२. ओतरणहारसम्पातो
७४. तत्थ कतमो ओतरणो हारसम्पातो?
‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’ति गाथा. ‘‘तस्मा रक्खितचित्तस्स, सम्मासङ्कप्पगोचरो’’. ‘‘सम्मादिट्ठिपुरेक्खारो’’ति सम्मादिट्ठिया गहिताय गहितानि भवन्ति पञ्चिन्द्रियानि, अयं इन्द्रियेहि ओतरणा.
तानियेव इन्द्रियानि विज्जा, विज्जुप्पादा अविज्जानिरोधो, अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, एवं सब्बं, अयं पटिच्चसमुप्पादेन ओतरणा.
तानियेव पञ्चिन्द्रियानि तीहि खन्धेहि सङ्गहितानि – सीलक्खन्धेन समाधिक्खन्धेन पञ्ञाक्खन्धेन. अयं खन्धेहि ओतरणा.
तानि येव पञ्चिन्द्रियानि सङ्खारपरियापन्नानि. ये सङ्खारा अनासवा नो च भवङ्गा, ते सङ्खारा धम्मधातुसङ्गहिता, अयं धातूहि ओतरणा.
सा धम्मधातु धम्मायतनपरियापन्ना, यं आयतनं अनासवं नो च भवङ्गं, अयं आयतनेहि ओतरणा.
नियुत्तो ओतरणो हारसम्पातो.