४. पटिनिद्देसवारो
१. देसनाहारविभङ्गो
५. तत्थ कतमो देसनाहारो? ‘‘अस्सादादीनवता’’ति गाथा अयं देसनाहारो. किं देसयति? अस्सादं आदीनवं निस्सरणं फलं उपायं आणत्तिं. धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामीति.
तत्थ कतमो अस्सादो?
‘‘कामं [काममादिका इमा छ गाथा सु. नि. ७७२ पस्सितब्बा] कामयमानस्स, तस्स चेतं समिज्झति;
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छती’’ति.
अयं अस्सादो.
तत्थ कतमो आदीनवो?
‘‘तस्स चे कामयानस्स, छन्दजातस्स जन्तुनो;
ते कामा परिहायन्ति, सल्लविद्धोव रुप्पती’’ति.
अयं आदीनवो.
तत्थ कतमं निस्सरणं?
‘‘यो कामे परिवज्जेति, सप्पस्सेव पदा सिरो;
सोमं विसत्तिकं लोके, सतो समतिवत्तती’’ति.
इदं निस्सरणं.
तत्थ कतमो अस्सादो?
‘‘खेत्तं वत्थुं हिरञ्ञं वा, गवास्सं दासपोरिसं;
थियो बन्धू पुथू कामे, यो नरो अनुगिज्झती’’ति.
अयं अस्सादो.
तत्थ कतमो आदीनवो?
‘‘अबला नं बलीयन्ति, मद्दन्ते नं परिस्सया;
ततो नं दुक्खमन्वेति, नावं भिन्नमिवोदक’’न्ति.
अयं आदीनवो.
तत्थ कतमं निस्सरणं?
‘‘तस्मा जन्तु सदा सतो, कामानि परिवज्जये;
ते पहाय तरे ओघं, नावं सित्वाव पारगू’’ति.
इदं निस्सरणं.
तत्थ कतमं फलं?
‘‘धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं यथ वस्सकाले;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी’’ति.
इदं फलं.
तत्थ कतमो उपायो?
‘‘सब्बे सङ्खारा अनिच्चा’’ति…पे…
‘‘सब्बे सङ्खारा [पस्स ध. प. २७७] दुक्खा’’ति…पे…
‘‘सब्बे धम्मा अनत्ता’’ति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया’’ति.
अयं उपायो.
तत्थ कतमा आणत्ति?
‘‘चक्खुमा [पस्स उदा. ४३] विसमानीव, विज्जमाने परक्कमे;
पण्डितो जीवलोकस्मिं, पापानि परिवज्जये’’ति.
अयं आणत्ति.
‘‘‘सुञ्ञतो लोकं अवेक्खस्सु,
मोघराजा’ति आणत्ति, ‘सदा सतो’ति उपायो;
‘अत्तानुदिट्ठिं ऊहच्च [उहच्च (क.) पस्स सु. नि. ११२५], एवं मच्चुतरो सिया’’’.
इदं फलं.
६. तत्थ भगवा उग्घटितञ्ञुस्स पुग्गलस्स निस्सरणं देसयति, विपञ्चितञ्ञुस्स पुग्गलस्स आदीनवञ्च निस्सरणञ्च देसयति, नेय्यस्स पुग्गलस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च देसयति.
तत्थ चतस्सो पटिपदा, चत्तारो पुग्गला. तण्हाचरितो मन्दो सतिन्द्रियेन दुक्खाय पटिपदाय दन्धाभिञ्ञाय निय्याति सतिपट्ठानेहि निस्सयेहि. तण्हाचरितो उदत्तो [उदत्थो (सी.) उ + आ + दा + त] समाधिन्द्रियेन दुक्खाय पटिपदाय खिप्पाभिञ्ञाय निय्याति झानेहि निस्सयेहि. दिट्ठिचरितो मन्दो वीरियिन्द्रियेन सुखाय पटिपदाय दन्धाभिञ्ञाय निय्याति सम्मप्पधानेहि निस्सयेहि. दिट्ठिचरितो उदत्तो पञ्ञिन्द्रियेन सुखाय पटिपदाय खिप्पाभिञ्ञाय निय्याति सच्चेहि निस्सयेहि.
उभो तण्हाचरिता समथपुब्बङ्गमाय विपस्सना निय्यन्ति रागविरागाय चेतोविमुत्तिया. उभो दिट्ठिचरिता विपस्सनापुब्बङ्गमे समथेन निय्यन्ति अविज्जाविरागाय पञ्ञाविमुत्तिया.
तत्थ ये समथपुब्बङ्गमाहि पटिपदाहि निय्यन्ति, ते नन्दियावट्टेन नयेन हातब्बा, ये विपस्सनापुब्बङ्गमाहि पटिपदाहि निय्यन्ति, ते सीहविक्कीळितेन नयेन हातब्बा.
७. स्वायं हारो कत्थ सम्भवति, यस्स सत्था वा धम्मं देसयति अञ्ञतरो वा गरुट्ठानीयो सब्रह्मचारी, सो तं धम्मं सुत्वा सद्धं पटिलभति. तत्थ या वीमंसा उस्साहना तुलना उपपरिक्खा, अयं सुतमयी पञ्ञा. तथा सुतेन निस्सयेन या वीमंसा तुलना उपपरिक्खा मनसानुपेक्खणा, अयं चिन्तामयी पञ्ञा. इमाहि द्वीहि पञ्ञाहि मनसिकारसम्पयुत्तस्स यं ञाणं उप्पज्जति दस्सनभूमियं वा भावनाभूमियं वा, अयं भावनामयी पञ्ञा.
८. परतोघोसा सुतमयी पञ्ञा. पच्चत्तसमुट्ठिता योनिसो मनसिकारा चिन्तामयी पञ्ञा. यं परतो च घोसेन पच्चत्तसमुट्ठितेन च योनिसोमनसिकारेन ञाणं उप्पज्जति, अयं भावनामयी पञ्ञा. यस्स इमा द्वे पञ्ञा अत्थि सुतमयी चिन्तामयी च, अयं उग्घटितञ्ञू. यस्स सुतमयी पञ्ञा अत्थि, चिन्तामयी नत्थि, अयं विपञ्चितञ्ञू [विपच्चितञ्ञू (सी.)]. यस्स नेव सुतमयी पञ्ञा अत्थि न चिन्तामयी, अयं नेय्यो.
९. सायं धम्मदेसना किं देसयति? चत्तारि सच्चानि दुक्खं समुदयं निरोधं मग्गं. आदीनवो च फलञ्च दुक्खं, अस्सादो समुदयो, निस्सरणं निरोधो, उपायो आणत्ति च मग्गो. इमानि चत्तारि सच्चानि. इदं धम्मचक्कं.
यथाह भगवा – ‘‘इदं दुक्ख’’न्ति मे, भिक्खवे, बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं, सब्बं धम्मचक्कं.
तत्थ अपरिमाणा पदा, अपरिमाणा अक्खरा, अपरिमाणा ब्यञ्जना, अपरिमाणा आकारा नेरुत्ता निद्देसा. एतस्सेव अत्थस्स सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मं [उत्तानिकम्मं (क.)] पञ्ञत्ति, इतिपिदं दुक्खं अरियसच्चं.
‘‘अयं दुक्खसमुदयो’’ति मे, भिक्खवे, बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं…पे… ‘‘अयं दुक्खनिरोधो’’ति मे, भिक्खवे…पे… ‘‘अयं दुक्खनिरोधगामिनी पटिपदा’’ति मे, भिक्खवे, बाराणसियं इसिपतने मिगदाये अनुत्तरं धम्मचक्कं पवत्तितं अप्पटिवत्तियं समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा केनचि वा लोकस्मिं.
तत्थ अपरिमाणा पदा, अपरिमाणा अक्खरा, अपरिमाणा ब्यञ्जना, अपरिमाणा आकारा नेरुत्ता निद्देसा. एतस्सेव अत्थस्स सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मं पञ्ञत्ति इतिपिदं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं.
तत्थ भगवा अक्खरेहि सङ्कासेति, पदेहि पकासेति, ब्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तीहि उत्तानीकरोति [उत्तानिं करोति (क.)], निद्देसेहि पञ्ञपेति. तत्थ भगवा अक्खरेहि च पदेहि च उग्घटेति [उग्घाटेति (सी.)], ब्यञ्जनेहि च आकारेहि च विपञ्चयति, निरुत्तीहि च निद्देसेहि च वित्थारेति. तत्थ उग्घटना [उग्घाटना (सी.)] आदि, विपञ्चना मज्झे, वित्थारणा परियोसानं. सोयं धम्मविनयो उग्घटीयन्तो उग्घटितञ्ञूपुग्गलं विनेति, तेन नं आहु ‘‘आदिकल्याणो’’ति. विपञ्चीयन्तो विपञ्चितञ्ञूपुग्गलं विनेति, तेन नं आहु ‘‘मज्झेकल्याणो’’ति. वित्थारीयन्तो नेय्यं पुग्गलं विनेति, तेन नं आहु ‘‘परियोसानकल्याणो’’ति.
१०. तत्थ छप्पदानि अत्थो सङ्कासना पकासना विवरणा विभजना उत्तानीकम्मं पञ्ञत्ति, इमानि छप्पदानि अत्थो. छप्पदानि ब्यञ्जनं अक्खरं पदं ब्यञ्जनं आकारो निरुत्ति निद्देसो, इमानि छप्पदानि ब्यञ्जनं. तेनाह भगवा ‘‘धम्मं वो, भिक्खवे, देसेस्सामि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जन’’न्ति.
केवलन्ति लोकुत्तरं, न मिस्सं लोकियेहि धम्मेहि. परिपुण्णन्ति परिपूरं अनूनं अनतिरेकं. परिसुद्धन्ति निम्मलं सब्बमलापगतं परियोदातं उपट्ठितं सब्बविसेसानं, इदं वुच्चति तथागतपदंइतिपि तथागतनिसेवितंइतिपि तथागतारञ्जितंइतिपि, अतोचेतं ब्रह्मचरियं पञ्ञायति. तेनाह भगवा ‘‘केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सामी’’ति.
केसं अयं धम्मदेसना, योगीनं. तेनाह आयस्मा महाकच्चायनो –
‘‘अस्सादादीनवता, निस्सरणम्पि च फलं उपायो च;
आणत्ती च भगवतो, योगीनं देसनाहारो’’ति.
नियुत्तो देसनाहारो.
२. विचयहारविभङ्गो
११. तत्थ कतमो विचयो हारो? ‘‘यं पुच्छितञ्च विस्सज्जितञ्चा’’ति गाथा, अयं विचयो हारो.
किं विचिनति? पदं विचिनति, पञ्हं विचिनति, विसज्जनं [विस्सज्जनं (सी. क.)] विचिनति, पुब्बापरं विचिनति, अस्सादं विचिनति, आदीनवं विचिनति, निस्सरणं विचिनति, फलं विचिनति, उपायं विचिनति, आणत्तिं विचिनति, अनुगीतिं विचिनति, सब्बे नव सुत्तन्ते विचिनति. यथा किं भवे, यथा आयस्मा अजितो पारायने भगवन्तं पञ्हं पुच्छति –
‘‘केनस्सु [पस्स सु. नि. १०३८] निवुतो लोको, [इच्चायस्मा अजितो,]
केनस्सु नप्पकासति;
किस्साभिलेपनं ब्रूसि, किं सु तस्स महब्भय’’न्ति.
इमानि चत्तारि पदानि पुच्छितानि, सो एको पञ्हो. कस्मा? एकवत्थु परिग्गहा, एवञ्हि आह ‘‘केनस्सु निवुतो लोको’’ति लोकाधिट्ठानं पुच्छति, ‘‘केनस्सु नप्पकासती’’ति लोकस्स अप्पकासनं पुच्छति, ‘‘किस्साभिलेपनं ब्रूसी’’ति लोकस्स अभिलेपनं पुच्छति, ‘‘किंसु तस्स महब्भय’’न्ति तस्सेव लोकस्स महाभयं पुच्छति. लोको तिविधो किलेसलोको भवलोको इन्द्रियलोको.
तत्थ विसज्जना –
‘‘अविज्जाय निवुतो लोको, [अजिताति भगवा,]
विविच्छा [वेविच्छा (सु. नि. १०३९)] पमादा नप्पकासति;
जप्पाभिलेपनं ब्रूमि, दुक्खमस्स महब्भय’’न्ति.
इमानि चत्तारि पदानि इमेहि चतूहि पदेहि विसज्जितानि पठमं पठमेन, दुतियं दुतियेन, ततियं ततियेन, चतुत्थं चतुत्थेन.
‘‘केनस्सु निवुतो लोको’’ति पञ्हे ‘‘अविज्जाय निवुतो लोको’’ति विसज्जना. नीवरणेहि निवुतो लोको, अविज्जानीवरणा हि सब्बे सत्ता. यथाह भगवा ‘‘सब्बसत्तानं, भिक्खवे, सब्बपाणानं सब्बभूतानं परियायतो एकमेव नीवरणं वदामि यदिदं अविज्जा, अविज्जानीवरणा हि सब्बे सत्ता. सब्बसोव, भिक्खवे, अविज्जाय निरोधा चागा पटिनिस्सग्गा नत्थि सत्तानं नीवरणन्ति वदामी’’ति. तेन च पठमस्स पदस्स विसज्जना युत्ता.
‘‘केनस्सु नप्पकासती’’ति पञ्हे ‘‘विविच्छा पमादा नप्पकासती’’ति विसज्जना. यो पुग्गलो नीवरणेहि निवुतो, सो विविच्छति. विविच्छा नाम वुच्चति विचिकिच्छा. सो विचिकिच्छन्तो नाभिसद्दहति, न अभिसद्दहन्तो वीरियं नारभति अकुसलानं धम्मानं पहानाय कुसलानं धम्मानं सच्छिकिरियाय. सो इधप्पमादमनुयुत्तो विहरति पमत्तो, सुक्के धम्मे न उप्पादियति, तस्स ते अनुप्पादियमाना नप्पकासन्ति, यथाह भगवा –
‘‘दूरे सन्तो पकासन्ति [पकासेन्ति ध. प. ३०४], हिमवन्तोव पब्बतो;
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता [रत्ति खित्ता (सी.), पस्स ध. प. ३०४] यथा सरा;
ते गुणेहि पकासन्ति, कित्तिया च यसेन चा’’ति.
तेन च दुतियस्स पदस्स विसज्जना युत्ता.
‘‘किस्साभिलेपनं ब्रूसी’’ति पञ्हे ‘‘जप्पाभिलेपनं ब्रूमी’’ति विसज्जना. जप्पा नाम वुच्चति तण्हा. सा कथं अभिलिम्पति? यथाह भगवा –
‘‘रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति;
अन्धन्तमं [अन्धतमं (क.)] तदा होति, यं रागो सहते नर’’न्ति.
सायं तण्हा आसत्तिबहुलस्स पुग्गलस्स ‘‘एवं अभिजप्पा’’ति करित्वा तत्थ लोको अभिलित्तो नाम भवति, तेन च ततियस्स पदस्स विसज्जना युत्ता.
‘‘किं सु तस्स महब्भय’’न्ति पञ्हे ‘‘दुक्खमस्स महब्भय’’न्ति विसज्जना. दुविधं दुक्खं – कायिकञ्च चेतसिकञ्च. यं कायिकं इदं दुक्खं, यं चेतसिकं इदं दोमनस्सं. सब्बे सत्ता हि दुक्खस्स उब्बिज्जन्ति, नत्थि भयं दुक्खेन समसमं, कुतो वा पन तस्स उत्तरितरं? तिस्सो दुक्खता – दुक्खदुक्खता सङ्खारदुक्खता विपरिणामदुक्खता. तत्थ लोको ओधसो कदाचि करहचि दुक्खदुक्खताय मुच्चति. तथा विपरिणामदुक्खताय. तं किस्स हेतु? होन्ति लोके अप्पाबाधापि दीघायुकापि. सङ्खारदुक्खताय पन लोको अनुपादिसेसाय निब्बानधातुया मुच्चति, तस्मा सङ्खारदुक्खता दुक्खं लोकस्साति कत्वा दुक्खमस्स महब्भयन्ति. तेन च चतुत्थस्स पदस्स विसज्जना युत्ता. तेनाह भगवा ‘‘अविज्जाय निवुतो लोको’’ति.
सवन्ति सब्बधि सोता, [इच्चायस्मा अजितो,]
सोतानं किं निवारणं;
सोतानं संवरं ब्रूहि, केन सोता पिधीयरे [पिथीयरे (सी.), पिधिय्यरे (क.), पस्स सु. नि. १०४०].
इमानि चत्तारि पदानि पुच्छितानि. ते द्वे पञ्हा. कस्मा? इमेहि बत्वाधिवचनेन पुच्छिता. एवं समापन्नस्स लोकस्स एवं संकिलिट्ठस्स किं लोकस्स वोदानं वुट्ठानमिति, एवञ्हि आह.
सवन्ति सब्बधि सोताति. असमाहितस्स सवन्ति अभिज्झाब्यापादप्पमादबहुलस्स. तत्थ या अभिज्झा अयं लोभो अकुसलमूलं, यो ब्यापादो अयं दोसो अकुसलमूलं, यो पमादो अयं मोहो अकुसलमूलं. तस्सेवं असमाहितस्स छसु आयतनेसु तण्हा सवन्ति रूपतण्हा सद्दतण्हा गन्धतण्हा रसतण्हा फोट्ठब्बतण्हा धम्मतण्हा, यथाह भगवा –
‘‘सवती’’ति च खो, भिक्खवे, छन्नेतं अज्झत्तिकानं आयतनानं अधिवचनं. चक्खु सवति मनापिकेसु रूपेसु, अमनापिकेसु [अमनापियेसु (क.)] पटिहञ्ञतीति. सोतं…पे… घानं… जिव्हा… कायो… मनो सवति मनापिकेसु धम्मेसु अमनापिकेसु पटिहञ्ञतीति. इति सब्बा च सवति, सब्बथा च सवति. तेनाह ‘‘सवन्ति सब्बधि सोता’’ति.
‘‘सोतानं किं निवारण’’न्ति परियुट्ठानविघातं पुच्छति, इदं वोदानं. ‘‘सोतानं संवरं ब्रूहि, केन सोता पिधीयरे’’ति अनुसयसमुग्घातं पुच्छति, इदं वुट्ठानं.
तत्थ विसज्जना –
‘‘यानि सोतानि लोकस्मिं, [अजिताति भगवा,]
सति तेसं निवारणं;
सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे’’ति.
कायगताय सतिया भाविताय बहुलीकताय चक्खु नाविञ्छति मनापिकेसु रूपेसु, अमनापिकेसु न पटिहञ्ञति, सोतं…पे… घानं… जिव्हा… कायो… मनो नाविञ्छति मनापिकेसु धम्मेसु, अमनापिकेसु न पटिहञ्ञति. केन कारणेन? संवुतनिवारितत्ता इन्द्रियानं. केन ते संवुतनिवारिता? सतिआरक्खेन. तेनाह भगवा – ‘‘सति तेसं निवारण’’न्ति.
पञ्ञाय अनुसया पहीयन्ति, अनुसयेसु पहीनेसु परियुट्ठाना पहीयन्ति. किस्स [तस्स (सी.)], अनुसयस्स पहीनत्ता? तं यथा खन्धवन्तस्स रुक्खस्स अनवसेसमूलुद्धरणे कते पुप्फफलपल्लवङ्कुरसन्तति समुच्छिन्ना भवति. एवं अनुसयेसु पहीनेसु परियुट्ठानसन्तति समुच्छिन्ना भवति पिदहिता पटिच्छन्ना. केन? पञ्ञाय. तेनाह भगवा ‘‘पञ्ञायेते पिधीयरे’’ति.
‘‘पञ्ञा चेव सति च, [इच्चायस्मा अजितो,]
नामरूपञ्च मारिस;
एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झती’’ति.
‘‘यमेतं पञ्हं अपुच्छि [मं पुच्छि (क.), पस्स सु. नि. १०४३], अजित तं वदामि ते;
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झती’’ति.
अयं पञ्हे [पञ्हो (सी. क.) नेत्तिविभावनी पस्सितब्बा] अनुसन्धिं पुच्छति. अनुसन्धिं पुच्छन्तो किं पुच्छति? अनुपादिसेसं निब्बानधातुं. तीणि च सच्चानि सङ्खतानि निरोधधम्मानि दुक्खं समुदयो मग्गो, निरोधो असङ्खतो. तत्थ समुदयो द्वीसु भूमीसु पहीयति दस्सनभूमिया च भावनाभूमिया च. दस्सनेन तीणि संयोजनानि पहीयन्ति सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो, भावनाय सत्त संयोजनानि पहीयन्ति कामच्छन्दो ब्यापादो रूपरागो अरूपरागो मानो उद्धच्चं अविज्जावसेसा [अविज्जा च निरवसेसा (सी. क.)]. तेधातुके इमानि दस संयोजनानि पञ्चोरम्भागियानि पञ्चुद्धम्भागियानि.
१२. तत्थ तीणि संयोजनानि सक्कायदिट्ठि विचिकिच्छा सीलब्बतपरामासो अनञ्ञातञ्ञस्सामीतिन्द्रियं अधिट्ठाय निरुज्झन्ति. सत्त संयोजनानि कामच्छन्दो ब्यापादो रूपरागो अरूपरागो मानो उद्धच्चं अविज्जावसेसा अञ्ञिन्द्रियं अधिट्ठाय निरुज्झन्ति. यं पन एवं जानाति ‘‘खीणा मे जाती’’ति, इदं खये ञाणं. ‘‘नापरं इत्थत्ताया’’ति पजानाति, इदं अनुप्पादे ञाणं. इमानि द्वे ञाणानि अञ्ञाताविन्द्रियं. तत्थ यञ्च अनञ्ञातञ्ञस्सामीतिन्द्रियं यञ्च अञ्ञिन्द्रियं, इमानि अग्गफलं अरहत्तं पापुणन्तस्स निरुज्झन्ति, तत्थ यञ्च खये ञाणं यञ्च अनुप्पादे ञाणं, इमानि द्वे ञाणानि एकपञ्ञा.
अपि च आरम्मणसङ्केतेन द्वे नामानि लब्भन्ति, ‘‘खीणा मे जाती’’ति पजानन्तस्स खये ञाणन्ति नामं लभति, ‘‘नापरं इत्थत्ताया’’ति पजानन्तस्स अनुप्पादे ञाणन्ति नामं लभति. सा पजाननट्ठेन पञ्ञा, यथादिट्ठं अपिलापनट्ठेन सति.
१३. तत्थ ये पञ्चुपादानक्खन्धा, इदं नामरूपं. तत्थ ये फस्सपञ्चमका धम्मा, इदं नामं. यानि पञ्चिन्द्रियानि रूपानि, इदं रूपं. तदुभयं नामरूपं विञ्ञाणसम्पयुत्तं तस्स निरोधं भगवन्तं पुच्छन्तो आयस्मा अजितो पारायने एवमाह –
‘‘पञ्ञा चेव सति च, नामरूपञ्च मारिस;
एतं मे पुट्ठो पब्रूहि, कत्थेतं उपरुज्झती’’ति.
तत्थ सति च पञ्ञा च चत्तारि इन्द्रियानि, सति द्वे इन्द्रियानि सतिन्द्रियञ्च समाधिन्द्रियञ्च, पञ्ञा द्वे इन्द्रियानि पञ्ञिन्द्रियञ्च वीरियिन्द्रियञ्च. या इमेसु चतूसु इन्द्रियेसु सद्दहना ओकप्पना, इदं सद्धिन्द्रियं. तत्थ या सद्धाधिपतेय्या चित्तेकग्गता, अयं छन्दसमाधि. समाहिते चित्ते किलेसानं विक्खम्भनताय पटिसङ्खानबलेन वा भावनाबलेन वा, इदं पहानं. तत्थ ये अस्सासपस्सासा वितक्कविचारा सञ्ञावेदयिता सरसङ्कप्पा, इमे सङ्खारा. इति पुरिमको च छन्दसमाधि, किलेसविक्खम्भनताय च पहानं इमे च सङ्खारा, तदुभयं छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. तत्थ या वीरियाधिपतेय्या चित्तेकग्गता, अयं वीरियसमाधि…पे… तत्थ या चित्ताधिपतेय्या चित्तेकग्गता, अयं चित्तसमाधि…पे… तत्थ या वीमंसाधिपतेय्या चित्तेकग्गता, अयं वीमंसासमाधि. समाहिते चित्ते किलेसानं विक्खम्भनताय पटिसङ्खानबलेन वा भावनाबलेन वा, इदं पहानं. तत्थ ये अस्सासपस्सासा वितक्कविचारा सञ्ञावेदयिता सरसङ्कप्पा, इमे सङ्खारा. इति पुरिमको च वीमंसासमाधि, किलेसविक्खम्भनताय च पहानं इमे च सङ्खारा, तदुभयं वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं.
१४. सब्बो समाधि ञाणमूलको ञाणपुब्बङ्गमो ञाणानुपरिवत्ति.
यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे;
यथा दिवा तथा रत्तिं [रत्ति (क.) अयं गाथा थेरगा. ३९७ दिस्सति], यथा रत्तिं तथा दिवा.
इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति. पञ्चिन्द्रियानि कुसलानि चित्तसहभूनि चित्ते उप्पज्जमाने उप्पज्जन्ति, चित्ते निरुज्झमाने निरुज्झन्ति. नामरूपञ्च विञ्ञाणहेतुकं विञ्ञाणपच्चया निब्बत्तं, तस्स मग्गेन हेतु उपच्छिन्नो, विञ्ञाणं अनाहारं अनभिनन्दितं अप्पटिसन्धिकं तं निरुज्झति. नामरूपमपि अहेतु अप्पच्चयं पुनब्भवं न निब्बत्तयति [निब्बत्तियति (क.)]. एवं विञ्ञाणस्स निरोधा पञ्ञा च सति च नामरूपञ्च निरुज्झति. तेनाह भगवा –
‘‘यमेतं पञ्हं अपुच्छि, अजित तं वदामि ते;
यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति;
विञ्ञाणस्स निरोधेन, एत्थेतं उपरुज्झती’’ति.
‘‘ये च [अयं गाथा सु. नि. १०४४ अञ्ञथा दिस्सति] सङ्खातधम्मासे, [इच्चायस्मा अजितो]
ये च सेक्खा पुथू इध;
तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति.
१५. इमानि तीणि पदानि पुच्छितानि, ते तयो पञ्हा. किस्स? सेखासेखविपस्सनापुब्बङ्गमप्पहानयोगेन, एवञ्हि आह. ‘‘ये च सङ्खातधम्मासे’’ति अरहत्तं पुच्छति, ‘‘ये च सेखा पुथू इधा’’ति सेखं पुच्छति, ‘‘तेसं मे निपको इरियं, पुट्ठो पब्रूहि मारिसा’’ति विपस्सनापुब्बङ्गमं पहानं पुच्छति.
तत्थ विसज्जना –
‘‘कामेसु नाभिगिज्झेय्य, [अजिताति भगवा]
मनसानाविलो सिया;
कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति.
भगवतो सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति, सब्बं वचीकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति, सब्बं मनोकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्ति. अतीते अंसे अप्पटिहतञाणदस्सनं, अनागते अंसे अप्पटिहतञाणदस्सनं, पच्चुप्पन्ने अंसे अप्पटिहतञाणदस्सनं.
को च ञाणदस्सनस्स पटिघातो? यं अनिच्चे दुक्खे अनत्तनि च अञ्ञाणं अदस्सनं, अयं ञाणदस्सनस्स पटिघातो. यथा इध पुरिसो तारकरूपानि पस्सेय्य, नो च गणनसङ्केतेन जानेय्य, अयं ञाणदस्सनस्स पटिघातो.
भगवतो पन अप्पटिहतञाणदस्सनं, अनावरणञाणदस्सना हि बुद्धा भगवन्तो. तत्थ सेखेन द्वीसु धम्मेसु चित्तं रक्खितब्बं गेधा च रजनीयेसु धम्मेसु, दोसा च परियुट्ठानीयेसु. तत्थ या इच्छा मुच्छा पत्थना पियायना कीळना, तं भगवा निवारेन्तो एवमाह ‘‘कामेसु नाभिगिज्झेय्या’’ति.
‘‘मनसानाविलो सिया’’ति परियुट्ठानविघातं आह. तथा हि सेखो अभिगिज्झन्तो असमुप्पन्नञ्च किलेसं उप्पादेति, उप्पन्नञ्च किलेसं फातिं करोति. यो पन अनाविलसङ्कप्पो अनभिगिज्झन्तो वायमति, सो अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. सो उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. सो अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. सो उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.
१६. कतमे [कतमे च (अट्ठ.)] अनुप्पन्ना पापका अकुसला धम्मा? कामवितक्को ब्यापादवितक्को विहिंसावितक्को, इमे अनुप्पन्ना पापका अकुसला धम्मा. कतमे उप्पन्ना पापका अकुसला धम्मा? अनुसया अकुसलमूलानि, इमे उप्पन्ना पापका अकुसला धम्मा. कतमे अनुप्पन्ना कुसला धम्मा? यानि सोतापन्नस्स इन्द्रियानि, इमे अनुप्पन्ना कुसला धम्मा. कतमे उप्पन्ना कुसला धम्मा? यानि अट्ठमकस्स इन्द्रियानि, इमे उप्पन्ना कुसला धम्मा.
येन कामवितक्कं वारेति, इदं सतिन्द्रियं. येन ब्यापादवितक्कं वारेति, इदं समाधिन्द्रियं. येन विहिंसावितक्कं वारेति, इदं वीरियिन्द्रियं.
येन उप्पन्नुप्पन्ने पापके अकुसले धम्मे पजहति विनोदेति ब्यन्तीकरोति अनभावं गमेति नाधिवासेति, इदं पञ्ञिन्द्रियं. या इमेसु चतूसु इन्द्रियेसु सद्दहना ओकप्पना, इदं सद्धिन्द्रियं.
तत्थ सद्धिन्द्रियं कत्थ दट्ठब्बं? चतूसु सोतापत्तियङ्गेसु. वीरियिन्द्रियं कत्थ दट्ठब्बं? चतूसु सम्मप्पधानेसु. सतिन्द्रियं कत्थ दट्ठब्बं? चतूसु सतिपट्ठानेसु. समाधिन्द्रियं कत्थ दट्ठब्बं? चतूसु झानेसु. पञ्ञिन्द्रियं कत्थ दट्ठब्बं? चतूसु अरियसच्चेसु. एवं सेखो सब्बेहि कुसलेहि धम्मेहि अप्पमत्तो वुत्तो भगवता अनाविलताय मनसा. तेनाह भगवा ‘‘मनसानाविलोसिया’’ति.
१७. ‘‘कुसलो सब्बधम्मान’’न्ति लोको नाम तिविधो किलेसलोको भवलोको इन्द्रियलोको. तत्थ किलेसलोकेन भवलोको समुदागच्छति, सो इन्द्रियानि निब्बत्तेति, इन्द्रियेसु भावियमानेसु नेय्यस्स परिञ्ञा भवति. सा दुविधेन उपपरिक्खितब्बा दस्सनपरिञ्ञाय च भावनापरिञ्ञाय च. यदा हि सेखो ञेय्यं परिजानाति, तदा निब्बिदासहगतेहि सञ्ञामनसिकारेहि नेय्यं परिञ्ञातं भवति. तस्स द्वे धम्मा कोसल्लं गच्छन्ति – दस्सनकोसल्लञ्च भावनाकोसल्लञ्च.
तं ञाणं पञ्चविधेन वेदितब्बंः अभिञ्ञा परिञ्ञा पहानं भावना सच्छिकिरिया. तत्थ कतमा अभिञ्ञा? यं धम्मानं सलक्खणे ञाणं धम्मपटिसम्भिदा च अत्थपटिसम्भिदा च, अयं अभिञ्ञा.
तत्थ कतमा परिञ्ञा? एवं अभिजानित्वा या परिजानना ‘‘इदं कुसलं, इदं अकुसलं, इदं सावज्जं, इदं अनवज्जं, इदं कण्हं, इदं सुक्कं, इदं सेवितब्बं, इदं न सेवितब्बं, इमे धम्मा एवंगहिता, इदं फलं निब्बत्तेन्ति [निब्बत्तापेन्ति (क.)], तेसं एवंगहितानं अयं अत्थो’’ति, अयं परिञ्ञा.
एवं परिजानित्वा तयो धम्मा अवसिट्ठा भवन्ति पहातब्बा भावेतब्बा सच्छिकातब्बा च. तत्थ कतमे धम्मा पहातब्बा? ये अकुसला. तत्थ कतमे धम्मा भावेतब्बा? ये कुसला. तत्थ कतमे धम्मा सच्छिकातब्बा? यं असङ्खतं. यो एवं जानाति अयं वुच्चति अत्थकुसलो धम्मकुसलो कल्याणताकुसलो फलताकुसलो, आयकुसलो अपायकुसलो उपायकुसलो महता कोसल्लेन समन्नागतोति, तेनाह भगवा ‘‘कुसलो सब्बधम्मान’’न्ति.
‘‘सतो भिक्खु परिब्बजे’’ति तेन दिट्ठधम्मसुखविहारत्थं अभिक्कन्ते पटिक्कन्ते आलोकिते विलोकिते समिञ्जिते [सम्मिञ्जिते (सी.)] पसारिते सङ्घाटिपत्तचीवरधारणे असिते पीते खायिते सायिते उच्चारपस्सावकम्मे गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हिभावे सतेन सम्पजानेन विहातब्बं. इमा द्वे चरिया अनुञ्ञाता भगवता एका विसुद्धानं, एका विसुज्झन्तानं. के विसुद्धा? अरहन्तो. के विसुज्झन्ता? सेक्खा. कतकिच्चानि हि अरहतो इन्द्रियानि. यं बोज्झं, तं चतुब्बिधं दुक्खस्स परिञ्ञाभिसमयेन समुदयस्स पहानाभिसमयेन मग्गस्स भावनाभिसमयेन निरोधस्स सच्छिकिरियाभिसमयेन, इदं चतुब्बिधं बोज्झं यो एवं जानाति, अयं वुच्चति सतो अभिक्कमति सतो पटिक्कमति खया रागस्स खया दोसस्स खया मोहस्स. तेनाह भगवा ‘‘सतो भिक्खु परिब्बजे’’ति, तेनाह –
‘‘कामेसु नाभिगिज्झेय्य, [अजिताति भगवा]
मनसानाविलो सिया;
कुसलो सब्बधम्मानं, सतो भिक्खु परिब्बजे’’ति.
एवं पुच्छितब्बं, एवं विसज्जितब्बं. सुत्तस्स च अनुगीति अत्थतो च ब्यञ्जनतो च समानेतब्बा [समानयितब्बा (सी. क.)]. अत्थापगतं हि ब्यञ्जनं सम्फप्पलापं भवति. दुन्निक्खित्तस्स पदब्यञ्जनस्स अत्थोपि दुन्नयो भवति, तस्मा अत्थब्यञ्जनूपेतं सङ्गायितब्बं. सुत्तञ्च पविचिनितब्बं. किं इदं सुत्तं आहच्च वचनं अनुसन्धिवचनं नीतत्थं नेय्यत्थं संकिलेसभागियं निब्बेधभागियं असेक्खभागियं? कुहिं इमस्स सुत्तस्स सब्बानि सच्चानि पस्सितब्बानि, आदिमज्झपरियोसानेति? एवं सुत्तं पविचेतब्बं. तेनाह आयस्मा महाकच्चायनो – ‘‘यं पुच्छितञ्च विस्सज्जितञ्च, सुत्तस्स या च अनुगीती’’ति.
नियुत्तो विचयो हारो.
३. युत्तिहारविभङ्गो
१८. तत्थ कतमो युत्तिहारो? ‘‘सब्बेसं हारान’’न्ति, अयं युत्तिहारो. किं योजयति [योजेति (सी.)]? चत्तारो महापदेसा बुद्धापदेसो सङ्घापदेसो सम्बहुलत्थेरापदेसो [सम्पहुल… (क.)] एकत्थेरापदेसो. इमे चत्तारो महापदेसा, तानि पदब्यञ्जनानि सुत्ते ओतारयितब्बानि, विनये सन्दस्सयितब्बानि, धम्मतायं उपनिक्खिपितब्बानि.
कतमस्मिं सुत्ते ओतारयितब्बानि? चतूसु अरियसच्चेसु. कतमस्मिं विनये सन्दस्सयितब्बानि? रागविनये दोसविनये मोहविनये. कतमिस्सं [कतमियं (सी.)] धम्मतायं उपनिक्खिपितब्बानि? पटिच्चसमुप्पादे. यदि चतूसु अरियसच्चेसु अवतरति, किलेसविनये सन्दिस्सति, धम्मतञ्च न विलोमेति, एवं आसवे न जनेति. चतूहि महापदेसेहि यं यं युज्जति, येन येन युज्जति, यथा यथा युज्जति, तं तं गहेतब्बं.
१९. पञ्हं पुच्छितेन कति पदानि पञ्हेति पदसो परियोगाहितब्बं विचेतब्बं? यदि सब्बानि पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो. अथ चत्तारि पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो. अथ तीणि पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो. अथ द्वे पदानि एकं अत्थं अभिवदन्ति, एको पञ्हो. अथ एकं पदं एकं अत्थं अभिवदति, एको पञ्हो. तं उपपरिक्खमानेन अञ्ञातब्बं किं इमे धम्मा नानत्था नानाब्यञ्जना, उदाहु इमेसं धम्मानं एको अत्थो ब्यञ्जनमेव नानन्ति. यथा किं भवे? यथा सा देवता भगवन्तं पञ्हं पुच्छति.
‘‘केनस्सुब्भाहतो [पस्स स. नि. १.६६] लोको, केनस्सु परिवारितो;