१. कताधिकारसफलपञ्हो
१. अथ खो मिलिन्दो राजा कतावकासो निपच्च गरुनो पादे सिरसि अञ्जलिं कत्वा एतदवोच ‘‘भन्ते नागसेन, इमे तित्थिया एवं भणन्ति [वञ्चो भवति अफलो (सी. पी. क.)] ‘यदि बुद्धो पूजं सादियति, न परिनिब्बुतो बुद्धो संयुत्तो लोकेन अन्तोभविको लोकस्मिं लोकसाधारणो, तस्मा तस्स कतो अधिकारो अवञ्झो भवति सफलो. यदि परिनिब्बुतो विसंयुत्तो लोकेन निस्सटो सब्बभवेहि, तस्स पूजा नुप्पज्जति, परिनिब्बुतो न किञ्चि सादियति, असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलो’ति उभतो कोटिको एसो पञ्हो, नेसो विसयो अप्पत्तमानसानं, महन्तानं येवेसो विसयो, भिन्देतं दिट्ठिजालं एकंसे ठपय, तवेसो पञ्हो अनुप्पत्तो, अनागतानं जिनपुत्तानं चक्खुं देहि परवादनिग्गहाया’’ति.
थेरो आह ‘‘परिनिब्बुतो, महाराज, भगवा, न च भगवा पूजं सादियति, बोधिमूले येव तथागतस्स सादियना पहीना, किं पन अनुपादिसेसाय निब्बानधातुया परिनिब्बुतस्स. भासितम्पेतं, महाराज, थेरेन सारिपुत्तेन धम्मसेनापतिना –
‘‘‘पूजियन्ता [पूजिता (स्या.)] असमसमा, सदेवमानुसेहि ते;
न सादियन्ति सक्कारं, बुद्धानं एस धम्मता’’’ति.
राजा आह ‘‘भन्ते नागसेन, पुत्तो वा पितुनो वण्णं भासति, पिता वा पुत्तस्स वण्णं भासति, न चेतं कारणं परवादानं निग्गहाय, पसादप्पकासनं नामेतं, इङ्घ मे त्वं तत्थ कारणं सम्मा ब्रूहि सकवादस्स पतिट्ठापनाय दिट्ठिजालविनिवेठनाया’’ति.
थेरो आह ‘‘परिनिब्बुतो, महाराज, भगवा, न च भगवा पूजं सादियति, असादियन्तस्सेव तथागतस्स देवमनुस्सा धातुरतनं वत्थुं करित्वा तथागतस्स ञाणरतनारम्मणेन सम्मापटिपत्तिं सेवन्ता तिस्सो सम्पत्तियो पटिलभन्ति.
‘‘यथा, महाराज, महतिमहाअग्गिक्खन्धो पज्जलित्वा निब्बायेय्य, अपि नु खो सो, महाराज, महाअग्गिक्खन्धो सादियति तिणकट्ठुपादान’’न्ति? ‘‘जलमानोपि सो, भन्ते, महाअग्गिक्खन्धो तिणकट्ठुपादानं न सादियति, किं पन निब्बुतो उपसन्तो अचेतनो सादियति? ‘‘तस्मिं पन, महाराज, अग्गिक्खन्धे उपरते उपसन्ते लोके अग्गि सुञ्ञो होती’’ति. ‘‘न हि, भन्ते, कट्ठं अग्गिस्स वत्थु होति उपादानं, ये केचि मनुस्सा अग्गिकामा, ते अत्तनो थामबलवीरियेन पच्चत्तपुरिसकारेन कट्ठं मन्थयित्वा [मद्दित्वा (क.)] अग्गिं निब्बत्तेत्वा तेन अग्गिना अग्गिकरणीयानि कम्मानि करोन्ती’’ति. ‘‘तेन हि, महाराज, तित्थियानं वचनं मिच्छा भवति ‘असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलो’ति.
‘‘यथा, महाराज, महतिमहाअग्गिक्खन्धो पज्जलि, एवमेव भगवा दससहस्सिया [दससहस्सिम्हि (सी. पी. क.)] लोकधातुया बुद्धसिरिया पज्जलि. यथा, महाराज, महतिमहाअग्गिक्खन्धो पज्जलित्वा निब्बुतो, एवमेव भगवा दससहस्सिया लोकधातुया बुद्धसिरिया पज्जलित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो. यथा, महाराज, निब्बुतो अग्गिक्खन्धो तिणकट्ठुपादानं न सादियति, एवमेव खो लोकहितस्स सादियना पहीना उपसन्ता. यथा, महाराज, मनुस्सा निब्बुते अग्गिक्खन्धे अनुपादाने अत्तनो थामबलवीरियेन पच्चत्तपुरिसकारेन कट्ठं मन्थयित्वा अग्गिं निब्बत्तेत्वा तेन अग्गिना अग्गिकरणीयानि कम्मानि करोन्ति, एवमेव खो देवमनुस्सा तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव धातुरतनं वत्थुं करित्वा तथागतस्स ञाणरतनारम्मणेन सम्मापटिपत्तिं सेवन्ता तिस्सो सम्पत्तियो पटिलभन्ति, इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो.
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. यथा, महाराज, महतिमहावातो वायित्वा उपरमेय्य, अपि नु खो सो, महाराज, उपरतो वातो सादियति पुन निब्बत्तापन’’न्ति? ‘‘न हि, भन्ते, उपरतस्स वातस्स आभोगो वा मनसिकारो वा पुन निब्बत्तापनाय’’. ‘‘किं कारणं’’? ‘‘अचेतना सा वायोधातू’’ति. ‘‘अपि नु तस्स, महाराज, उपरतस्स वातस्स वातोति समञ्ञा अपगच्छती’’ति? ‘‘न हि, भन्ते, तालवण्टविधूपनानि वातस्स उप्पत्तिया पच्चया, ये केचि मनुस्सा उण्हाभितत्ता परिळाहपरिपीळिता, ते तालवण्टेन वा विधूपनेन वा अत्तनो थामबलवीरियेन पच्चत्तपुरिसकारेन तं निब्बत्तेत्वा तेन वातेन उण्हं निब्बापेन्ति परिळाहं वूपसमेन्ती’’ति. ‘‘तेन हि, महाराज, तित्थियानं वचनं मिच्छा भवति ‘असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलो’ति.
‘‘यथा, महाराज, महतिमहावातो वायि, एवमेव भगवा दससहस्सिया लोकधातुया सीतलमधुरसन्तसुखुममेत्तावातेन उपवायि. यथा, महाराज, महतिमहावातो वायित्वा उपरतो, एवमेव भगवा सीतलमधुरसन्तसुखुममेत्तावातेन उपवायित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो. यथा, महाराज, उपरतो वातो पुन निब्बत्तापनं न सादियति, एवमेव लोकहितस्स सादियना पहीना उपसन्ता. यथा, महाराज, ते मनुस्सा उण्हाभितत्ता परिळाहपरिपीळिता, एवमेव देवमनुस्सा तिविधग्गिसन्तापपरिळाहपरिपीळिता. यथा तालवण्टविधूपनानि वातस्स निब्बत्तिया पच्चया होन्ति, एवमेव तथागतस्स धातु च ञाणरतनञ्च पच्चयो होति तिस्सन्नं सम्पत्तीनं पटिलाभाय. यथा मनुस्सा उण्हाभितत्ता परिळाहपरिपीळिता तालवण्टेन वा विधूपनेन वा वातं निब्बत्तेत्वा उण्हं निब्बापेन्ति परिळाहं वूपसमेन्ति, एवमेव देवमनुस्सा तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव धातुञ्च ञाणरतनञ्च पूजेत्वा कुसलं निब्बत्तेत्वा तेन कुसलेन तिविधग्गिसन्तापपरिळाहं निब्बापेन्ति वूपसमेन्ति. इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोति.
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि परवादानं निग्गहाय. यथा, महाराज, पुरिसो भेरिं आकोटेत्वा सद्दं निब्बत्तेय्य, यो सो भेरिसद्दो पुरिसेन निब्बत्तितो, सो सद्दो अन्तरधायेय्य, अपि नु खो सो, महाराज, सद्दो सादियति पुन निब्बत्तापन’’न्ति? ‘‘न हि, भन्ते, अन्तरहितो सो सद्दो, नत्थि तस्स पुन उप्पादाय आभोगो वा मनसिकारो वा, सकिं निब्बत्ते भेरिसद्दे अन्तरहिते सो भेरिसद्दो समुच्छिन्नो होति. भेरी पन, भन्ते, पच्चयो होति सद्दस्स निब्बत्तिया, अथ पुरिसो पच्चये सति अत्तजेन वायामेन भेरिं अकोटेत्वा सद्दं निब्बत्तेती’’ति. ‘‘एवमेव खो, महाराज, भगवा सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनपरिभावितं धातुरतनञ्च धम्मञ्च विनयञ्च अनुसिट्ठञ्च [अनुसत्थिञ्च (सी. पी.)] सत्थारं ठपयित्वा सयं अनुपादिसेसाय निब्बानधातुया परिनिब्बुतो, न च परिनिब्बुते भगवति सम्पत्तिलाभो उपच्छिन्नो होति, भवदुक्खपटिपीळिता सत्ता धातुरतनञ्च धम्मञ्च विनयञ्च अनुसिट्ठञ्च पच्चयं करित्वा सम्पत्तिकामा सम्पत्तियो पटिलभन्ति, इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोति.
‘‘दिट्ठञ्चेतं, महाराज, भगवता अनागतमद्धानं. कथितञ्च भणितञ्च आचिक्खितञ्च ‘सिया खो पनानन्द, तुम्हाकं एवमस्स अतीतसत्थुकं पावचनं नत्थि नो सत्थाति, न खो पनेतं, आनन्द, एवं दट्ठब्बं, यो वो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था’ति. परिनिब्बुतस्स तथागतस्स असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलोति, तं तेसं तित्थियानं वचनं मिच्छा अभूतं वितथं अलिकं विरुद्धं विपरीतं दुक्खदायकं दुक्खविपाकं अपायगमनीयन्ति.
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. सादियति नु खो, महाराज, अयं महापथवी ‘सब्बबीजानि मयि संविरुहन्तू’’’ति? ‘‘न हि, भन्ते’’ति. ‘‘किस्स पन तानि, महाराज, बीजानि असादियन्तिया महापथविया संविरुहित्वा दळ्हमूलजटापतिट्ठिता खन्धसारसाखापरिवित्थिण्णा पुप्फफलधरा होन्ती’’ति? ‘‘असादियन्तीपि, भन्ते, महापथवी तेसं बीजानं वत्थुं होति पच्चयं देति विरुहनाय, तानि बीजानि तं वत्थुं निस्साय तेन पच्चयेन संविरुहित्वा दळ्हमूलजटापतिट्ठिता खन्धसारसाखापरिवित्थिण्णा पुप्फफलधरा होन्ती’’ति. ‘‘तेन हि, महाराज, तित्थिया सके वादे नट्ठा होन्ति हता विरुद्धा, सचे ते भणन्ति ‘असादियन्तस्स कतो अधिकारो वञ्झो भवति अफलो’ ति.
‘‘यथा, महाराज, महापथवी, एवं तथागतो अरहं सम्मासम्बुद्धो. यथा, महाराज, महापथवी न किञ्चि सादियति, एवं तथागतो न किञ्चि सादियति. यथा, महाराज, तानि बीजानि पथविं निस्साय संविरुहित्वा दळ्हमूलजटापतिट्ठिता खन्धसारसाखापरिवित्थिण्णा पुप्फफलधरा होन्ति, एवं देवमनुस्सा तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव धातुञ्च ञाणरतनञ्च निस्साय दळ्हकुसलमूलपतिट्ठिता समाधिक्खन्धधम्मसारसीलसाखापरिवित्थिण्णा विमुत्तिपुप्फसामञ्ञफलधरा होन्ति, इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोति.
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. सादियन्ति नु खो, महाराज, इमे ओट्ठा गोणा गद्रभा अजा पसू मनुस्सा अन्तोकुच्छिस्मिं किमिकुलानं सम्भव’’न्ति? ‘‘न हि, भन्ते’’ति. ‘‘किस्स पन ते, महाराज, किमयो तेसं असादियन्तानं अन्तोकुच्छिस्मिं सम्भवित्वा बहुपुत्तनत्ता वेपुल्लतं पापुणन्ती’’ति? ‘‘पापस्स, भन्ते, कम्मस्स बलवताय असादियन्तानं येव तेसं सत्तानं अन्तोकुच्छिस्मिं किमयो सम्भवित्वा बहुपुत्तनत्ता वेपुल्लतं पापुणन्ती’’ति. ‘‘एवमेव खो, महाराज, तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव धातुस्स च ञाणारम्मणस्स च बलवताय तथागते कतो अधिकारो अवञ्झो भवति सफलोति.
‘‘अपरम्पि, महाराज, उत्तरिं कारणं सुणोहि येन कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो. सादियन्ति नु खो, महाराज, इमे मनुस्सा इमे अट्ठनवुति रोगा काये निब्बत्तन्तू’’ति? ‘‘न हि, भन्ते’’ति. ‘‘किस्स पन ते, महाराज, रोगा असादियन्तानं काये निपतन्ती’’ति? ‘‘पुब्बे कतेन, भन्ते, दुच्चरितेना’’ति. ‘‘यदि, महाराज, पुब्बे कतं अकुसलं इध वेदनीयं होति, तेन हि, महाराज, पुब्बे कतम्पि इध कतम्पि कुसलाकुसलं कम्मं अवञ्झं भवति सफलन्ति. इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोति.
‘‘सुतपुब्बं पन तया, महाराज, नन्दको नाम यक्खो थेरं सारिपुत्तं आसादयित्वा पथविं पविट्ठो’’ति? ‘‘आम, भन्ते, सुय्यति, लोके पाकटो एसो’’ति. ‘‘अपि नु खो, महाराज, थेरो सारिपुत्तो सादियि नन्दकस्स यक्खस्स महापथविगिलन’’न्ति [पवत्तमानेपि (स्या.)]. ‘‘उब्बत्तियन्तेपि, भन्ते, सदेवके लोके पतमानेपि छमायं चन्दिमसूरिये विकिरन्तेपि सिनेरुपब्बतराजे थेरो सारिपुत्तो न परस्स दुक्खं सादियेय्य. तं किस्स हेतु? येन हेतुना थेरो सारिपुत्तो कुज्झेय्य वा दुस्सेय्य वा, सो हेतु थेरस्स सारिपुत्तस्स समूहतो समुच्छिन्नो, हेतुनो समुग्घातितत्ता, भन्ते, थेरो सारिपुत्तो जीवितहारकेपि कोपं न करेय्या’’ति. ‘‘यदि, महाराज, थेरो सारिपुत्तो नन्दकस्स यक्खस्स पथविगिलनं न सादियि, किस्स पन नन्दको यक्खो पथविं पविट्ठो’’ति? ‘‘अकुसलस्स, भन्ते, कम्मस्स बलवताया’’ति. ‘‘यदि, महाराज, अकुसलस्स कम्मस्स बलवताय नन्दको यक्खो पथविं पविट्ठो, असादियन्तस्सापि कतो अपराधो अवञ्झो भवति सफलो. तेन हि, महाराज, अकुसलस्सपि कम्मस्स बलवताय असादियन्तस्स कतो अधिकारो अवञ्झो भवति सफलोति. इमिनापि, महाराज, कारणेन तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलोति.
‘‘कति नु खो ते, महाराज, मनुस्सा, ये एतरहि महापथविं पविट्ठा, अत्थि ते तत्थ सवण’’न्ति? ‘‘आम, भन्ते, सुय्यती’’ति. ‘‘इङ्घ त्वं, महाराज, सावेही’’ति? ‘‘चिञ्चमाणविका, भन्ते, सुप्पबुद्धो च सक्को, देवदत्तो च थेरो, नन्दको च यक्खो, नन्दो च माणवकोति. सुतमेतं, भन्ते, इमे पञ्च जना महापथविं पविट्ठा’’ति. ‘‘किस्मिं ते, महाराज, अपरद्धा’’ति? ‘‘भगवति च, भन्ते, सावकेसु चा’’ति. ‘‘अपि नु खो, महाराज, भगवा वा सावका वा सादियिंसु इमेसं महापथविपविसन’’न्ति? ‘‘न हि भन्ते’’ति. ‘‘तेन हि, महाराज, तथागतस्स परिनिब्बुतस्स असादियन्तस्सेव कतो अधिकारो अवञ्झो भवति सफलो’’ति. ‘‘सुविञ्ञापितो, भन्ते नागसेन, पञ्हो गम्भीरो उत्तानीकतो, गुय्हं विदंसितं, गण्ठि भिन्नो, गहनं अगहनं कतं, नट्ठा परवादा, भग्गा कुदिट्ठी, निप्पभा जाता कुतित्थिया, त्वं गणीवरपवरमासज्जा’’ति.
कताधिकारसफलपञ्हो पठमो.