६. अस्सुभेसज्जाभेसज्जपञ्हो

६. राजा आह ‘‘भन्ते नागसेन, यो च मातरि मताय रोदति, यो च धम्मपेमेन रोदति, उभिन्नं तेसं रोदन्तानं कस्स अस्सु भेसज्जं, कस्स न भेसज्ज’’न्ति? ‘‘एकस्स खो, महाराज, अस्सु रागदोसमोहेहि समलं उण्हं, एकस्स पीतिसोमनस्सेन विमलं सीतलं. यं खो, महाराज, सीतलं, तं भेसज्जं, यं उण्हं, तं न भेसज्ज’’न्ति.

‘‘कल्लोसि, भन्ते नागसेना’’ति.

अस्सुभेसज्जाभेसज्जपञ्हो छट्ठो.