४१७. कच्चानिजातकं (१)
१. ओदातवत्था सुचि अल्लकेसा, कच्चानि किं कुम्भिमधिस्सयित्वा [कुम्भिमपस्सयित्वा (पी.)];
पिट्ठा तिला धोवसि तण्डुलानि, तिलोदनो हेहिति किस्स हेतु.
२. न खो अयं ब्राह्मण भोजनत्था [भोजनत्थं (स्या.)], तिलोदनो हेहिति साधुपक्को;
धम्मो मतो तस्स पहुत्तमज्ज [पहूनमज्ज (स्या.), पहूतमज्ज (सी.), बहूतमज्जा (पी.)], अहं करिस्सामि सुसानमज्झे.
३. अनुविच्च कच्चानि करोहि किच्चं, धम्मो मतो को नु तवेव [तवेत (सी. स्या. पी.)] संसि;
सहस्सनेत्तो अतुलानुभावो, न मिय्यती धम्मवरो कदाचि.
४. दळ्हप्पमाणं मम एत्थ ब्रह्मे, धम्मो मतो नत्थि ममेत्थ कङ्खा;
ये येव दानि पापा भवन्ति, ते तेव दानि सुखिता भवन्ति.
५. सुणिसा हि मय्हं वञ्झा अहोसि, सा मं वधित्वान विजायि पुत्तं;
सा दानि सब्बस्स कुलस्स इस्सरा, अहं पनम्हि [वसामि (स्या.)] अपविद्धा एकिका.
६. जीवामि वोहं न मतोहमस्मि [नाहं मतोस्मि (सी. पी.)], तवेव अत्थाय इधागतोस्मि;
या तं वधित्वान विजायि पुत्तं, सहाव पुत्तेन करोमि भस्मं.
७. एवञ्च [एतञ्च (सी. पी.)] ते रुच्चति देवराज, ममेव अत्थाय इधागतोसि;
अहञ्च पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेम.
८. एवञ्च ते रुच्चति कातियानि, हतापि सन्ता न जहासि धम्मं;
तुवञ्च [त्वञ्च (पी. क.)] पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेथ.
९. सा कातियानी सुणिसाय सद्धिं, सम्मोदमाना घरमावसित्थ;
पुत्तो च नत्ता च उपट्ठहिंसु, देवानमिन्देन अधिग्गहीताति.
कच्चानिजातकं पठमं.