१५०. सञ्जीवजातकं
१५०. असन्तं यो पग्गण्हाति, असन्तं चूपसेवति;
तमेव घासं कुरुते, ब्यग्घो सञ्जीवको यथाति.
सञ्जीवजातकं दसमं.
ककण्टक [पापसेवन (क.)] वग्गो पन्नरसमो.
तस्सुद्दानं –
सुखमेधति दण्डवरो च पुन, लसि वालधि पञ्चमराधवरो;
समहोदधि कत्तिक बोन्दि पुन, चतुरङ्गुलब्यग्घवरेन दसाति.
(उपरिमो पण्णासको.) [( ) सीहळपोत्थकेयेव दिस्सति]
अथ वग्गुद्दानं –
अपण्णकं सीलवग्गकुरुङ्ग, कुलावकं अत्थकामेन पञ्चमं;
आसीसो इत्थिवरुणं अपायि, लित्तवग्गेन ते दस;
परोसतं हंचि कुसनाळि [हंसि सरिक्खं (सब्बत्थ)], असम्पदं ककण्टकवग्गो.
एकनिपातम्हिलङ्कतन्ति.
एककनिपातं निट्ठितं.