७. तिणकुटिदायकत्थेरअपदानं
७४. ‘‘नगरे बन्धुमतिया, अहोसिं परकम्मिको;
परकम्मायने युत्तो, परभत्तं अपस्सितो.
७५. ‘‘रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;
बुद्धो लोके समुप्पन्नो, अधिकारो च नत्थि मे.
७६. ‘‘कालो मे गतिं [कालो गतिं मे (सी. स्या.)] सोधेतुं, खणो मे पटिपादितो;
दुक्खो निरयसम्फस्सो, अपुञ्ञानञ्हि पाणिनं.
७७. ‘‘एवाहं चिन्तयित्वान, कम्मसामिं उपागमिं;
एकाहं कम्मं याचित्वा, विपिनं पाविसिं अहं.
७८. ‘‘तिणकट्ठञ्च वल्लिञ्च, आहरित्वानहं तदा;
तिदण्डके ठपेत्वान, अकं तिणकुटिं अहं.
७९. ‘‘सङ्घस्सत्थाय कुटिकं, निय्यादेत्वान [निय्यातेत्वान (सी.)] तं अहं;
तदहेयेव आगन्त्वा, कम्मसामिं उपागमिं.
८०. ‘‘तेन कम्मेन सुकतेन, तावतिंसमगच्छहं;
तत्थ मे सुकतं ब्यम्हं, कुटिकाय सुनिम्मितं [तिणकुटिकाय निम्मितं (सी.)].
८१. ‘‘सहस्सकण्डं सतभेण्डु, धजालु हरितामयं;
सतसहस्सनिय्यूहा, ब्यम्हे पातुभविंसु मे.
८२. ‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;
मम सङ्कप्पमञ्ञाय, पासादो उपतिट्ठति.
८३. ‘‘भयं वा छम्भितत्तं वा, लोमहंसो न विज्जति;
तासं मम न जानामि, तिणकुटिकायिदं [तिणकुटियिदं (क.)] फलं.
८४. ‘‘सीहब्यग्घा च दीपी च, अच्छकोकतरच्छका [तरच्छयो (स्या. क.)];
सब्बे मं परिवज्जेन्ति, तिणकुटिकायिदं फलं.
८५. ‘‘सरीसपा [सिरिंसपा (सी. स्या.), सरिंसपा (क.)] च भूता च, अही कुम्भण्डरक्खसा;
तेपि मं परिवज्जेन्ति, तिणकुटिकायिदं फलं.
८६. ‘‘न पापसुपिनस्सापि, सरामि दस्सनं मम;
उपट्ठिता सति मय्हं, तिणकुटिकायिदं फलं.
८७. ‘‘तायेव तिणकुटिकाय, अनुभोत्वान सम्पदा;
गोतमस्स भगवतो, धम्मं सच्छिकरिं अहं.
८८. ‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, तिणकुटिकायिदं फलं.
८९. ‘‘पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनं’’.
इत्थं सुदं आयस्मा तिणकुटिदायको थेरो इमा गाथायो अभासित्थाति.
तिणकुटिदायकत्थेरस्सापदानं सत्तमं.