६. एळकलोमसिक्खापदवण्णना
५७१. तेन समयेनाति एळकलोमसिक्खापदं. तत्थ उप्पण्डेसुन्ति ‘‘कित्तकेन, भन्ते, कीतानी’’तिआदीनि वदन्ता अवहसिंसु. ठितकोव आसुम्भीति यथा मनुस्सा अरञ्ञतो महन्तं दारुभारं आनेत्वा किलन्ता ठितकाव पातेन्ति, एवं पातेसीति अत्थो.
५७२. सहत्थाति सहत्थेन, अत्तना हरितब्बानीति वुत्तं होति. बहितियोजनं पातेतीति तियोजनतो बहि पातेति. अनन्तरायेन पतनके हत्थतो मुत्तमत्ते लोमगणनाय निस्सग्गियपाचित्तियानि. सचे बहितियोजने रुक्खे वा थम्भे वा पटिहञ्ञित्वा पुन अन्तो पतन्ति, अनापत्ति. भूमियं पतित्वा ठत्वा ठत्वा वट्टमाना एळकलोमभण्डिका पुन अन्तो पविसति, आपत्तियेव. अन्तो ठत्वा हत्थेन वा पादेन वा यट्ठिया वा वट्टेति ठत्वा वा अठत्वा वा वट्टमाना भण्डिका गच्छतु, आपत्तियेव. ‘‘अञ्ञो हरिस्सती’’ति ठपेति, तेन हरितेपि आपत्तियेव. सुद्धचित्तेन ठपितं वातो वा अञ्ञो वा अत्तनो धम्मताय बहि पातेति, आपत्तियेव. सउस्साहत्ता अचित्तकत्ता च सिक्खापदस्स. कुरुन्दियादीसु पन ‘‘एत्थ अनापत्ती’’ति वुत्ता, सा अनापत्ति पाळिया न समेति. उभतोभण्डिकं एकाबद्धं कत्वा एकं भण्डिकं अन्तोसीमाय एकं बहिसीमाय करोन्तो ठपेति, रक्खति ताव. एकाबद्धे काजेपि एसेव नयो. यदि पन अबन्धित्वा काजकोटियं ठपितमत्तमेव होति, न रक्खति. एकाबद्धेपि परिवत्तेत्वा ठपिते आपत्तियेव.
अञ्ञस्स याने वाति एत्थ गच्छन्ते याने वा हत्थिपिट्ठिआदीसु वा सामिकस्स अजानन्तस्सेव हरिस्सतीति ठपेति, तस्मिं तियोजनं अतिक्कन्ते आपत्ति. अगच्छन्तेपि एसेव नयो. सचे पन अगच्छन्ते याने वा हत्थिपिट्ठियादीसु वा ठपेत्वा अभिरुहित्वा सारेति, हेट्ठा वा गच्छन्तो चोदेति, पक्कोसन्तो वा अनुबन्धापेति, ‘‘अञ्ञं हरापेती’’ति वचनतो अनापत्ति. कुरुन्दियादीसु पन ‘‘आपत्ती’’ति वुत्तं, तं ‘‘अञ्ञं हरापेती’’ति इमिना न समेति. अदिन्नादाने पन सुङ्कघाते आपत्ति होति. या हि तत्थ आपत्ति, सा इध अनापत्ति. या इध आपत्ति, सा तत्थ अनापत्ति. तं ठानं पत्वा अञ्ञविहितो वा चोरादीहि वा उपद्दुतो गच्छति, आपत्तियेव. सब्बत्थ लोमगणनाय आपत्तिपरिच्छेदो वेदितब्बो.
५७५. तियोजनं वासाधिप्पायो गन्त्वा ततो परं हरतीति यत्थ गतो, तत्थ उद्देसपरिपुच्छादीनं वा पच्चयादीनं वा अलाभेन ततो परं अञ्ञत्थ गच्छति, ततोपि अञ्ञत्थाति एवं योजनसतम्पि हरन्तस्स अनापत्ति. अच्छिन्नं पटिलभित्वाति चोरा अच्छिन्दित्वा निरत्थकभावं ञत्वा पटिदेन्ति, तं हरन्तस्स अनापत्ति. निस्सट्ठं पटिलभित्वाति विनयकम्मकतं पटिलभित्वाति अत्थो.
कतभण्डन्ति कतंभण्डं कम्बलकोजवसन्थतादिं यं किञ्चि अन्तमसो सुत्तकेन बद्धमत्तम्पि. यो पन तनुकपत्तत्थविकन्तरे वा आयोगअंसबद्धककायबन्धनादीनं अन्तरेसु वा पिप्फलिकादीनं मलरक्खणत्थं सिपाटिकाय वा अन्तमसो वाताबाधिको कण्णच्छिद्देपि लोमानि पक्खिपित्वा गच्छति, आपत्तियेव. सुत्तकेन पन बन्धित्वा पक्खित्तं कतभण्डट्ठाने तिट्ठति, वेणिं कत्वा हरति, इदं निधानमुखं नाम, आपत्तियेवाति. सेसं उत्तानत्थमेव.
समुट्ठानादीसु इदं एळकलोमसमुट्ठानं नाम, कायतो च कायचित्ततो च समुट्ठाति, किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.
एळकलोमसिक्खापदवण्णना निट्ठिता.