२. दुतियसिक्खापदवण्णना
९३७. दुतिये – एकं अत्थरणञ्चेव पावुरणञ्च एतासन्ति एकत्थरणपावुरणा; संहारिमानं पावारत्थरणकटसारकादीनं एकं अन्तं अत्थरित्वा एकं पारुपित्वा तुवट्टेन्तीनमेतं अधिवचनं.
९४०. ववत्थानं दस्सेत्वाति मज्झे कासावं वा कत्तरयट्ठिं वा अन्तमसो कायबन्धनम्पि ठपेत्वा निपज्जन्तीनं अनापत्तीति अत्थो. सेसं उत्तानमेव. एळकलोमसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.
दुतियसिक्खापदं.