भिक्खुनीविभङ्गवण्णना
१. पाराजिककण्डं (भिक्खुनीविभङ्गवण्णना)
यो भिक्खूनं विभङ्गस्स, सङ्गहितो अनन्तरं;
भिक्खुनीनं विभङ्गस्स, तस्स संवण्णनाक्कमो.
पत्तो यतो ततो तस्स, अपुब्बपदवण्णनं;
कातुं पाराजिके ताव, होति संवण्णना अयं.
१. पठमपाराजिकसिक्खापदवण्णना
६५६. तेन समयेन बुद्धो भगवा सावत्थियं विहरति…पे… साळ्हो मिगारनत्ताति एत्थ साळ्होति तस्स नामं; मिगारमातुया पन नत्ता होति, तेन वुत्तं – ‘‘मिगारनत्ता’’ति. नवकम्मिकन्ति नवकम्माधिट्ठायिकं. पण्डिताति पण्डिच्चेन समन्नागता. ब्यत्ताति वेय्यत्तिकेन समन्नागता. मेधाविनीति पाळिग्गहणे सतिपुब्बङ्गमाय पञ्ञाय अत्थग्गहणे पञ्ञापुब्बङ्गमाय सतिया समन्नागता. दक्खाति छेका; अविरज्झित्वा सीघं कत्तब्बकारिनीति अत्थो. अनलसाति आलसियविरहिता. तत्रुपायायाति तेसु तेसु कम्मेसु उपायभूताय. वीमंसायाति कत्तब्बकम्मुपपरिक्खाय. समन्नागताति सम्पयुत्ता. अलं कातुन्ति समत्था तं तं कम्मं कातुं. अलं संविधातुन्ति एवञ्च एवञ्च इदं होतूति एवं संविदहितुम्पि समत्था. कताकतं जानितुन्ति कतञ्च अकतञ्च जानितुं. तेति ते उभो; सा च सुन्दरीनन्दा सो च साळ्होति अत्थो. भत्तग्गेति परिवेसनट्ठाने. निकूटेति कोणसदिसं कत्वा दस्सिते गम्भीरे. विस्सरो मे भविस्सतीति विरूपो मे सरो भविस्सति; विप्पकारसद्दो भविस्सतीति अत्थो. पतिमानेन्तीति अपेक्खमाना. क्याहन्ति किं अहं. जरादुब्बलाति जराय दुब्बला. चरणगिलानाति पादरोगेन समन्नागता.
६५७-८. अवस्सुताति कायसंसग्गरागेन अवस्सुता; तिन्ता किलिन्नाति अत्थो. पदभाजने पनस्स तमेव रागं गहेत्वा ‘‘सारत्ता’’तिआदि वुत्तं. तत्थ सारत्ताति वत्थं विय रङ्गजातेन कायसंसग्गरागेन सुट्ठु रत्ता. अपेक्खवतीति तस्सेव रागस्स वसेन तस्मिं पुरिसे पवत्ताय अपेक्खाय समन्नागता. पटिबद्धचित्ताति तेन रागेन तस्मिं पुरिसे बन्धित्वा ठपितचित्ता विय. एस नयो दुतियपदविभङ्गेपि. पुरिसपुग्गलस्साति पुरिससङ्खातस्स पुग्गलस्स. अधक्खकन्ति अक्खकानं अधो. उब्भजाणुमण्डलन्ति जाणुमण्डलानं उपरि. पदभाजने पन पदपटिपाटिया एव ‘‘हेट्ठक्खकं उपरिजाणुमण्डल’’न्ति वुत्तं. एत्थ च उब्भकप्परम्पि उब्भजाणुमण्डलेनेव सङ्गहितं. सेसं महाविभङ्गे वुत्तनयेनेव वेदितब्बं. पुरिमायो उपादायाति साधारणपाराजिकेहि पाराजिकायो चतस्सो उपादायाति अत्थो. उब्भजाणुमण्डलिकाति इदं पन इमिस्सा पाराजिकाय नाममत्तं, तस्मा पदभाजने न विचारितं.
६५९. एवं उद्दिट्ठसिक्खापदं पदानुक्कमेन विभजित्वा इदानि अवस्सुतादिभेदेन आपत्तिभेदं दस्सेतुं ‘‘उभतोअवस्सुते’’तिआदिमाह. तत्थ उभतोअवस्सुतेति उभतोअवस्सवे; भिक्खुनिया चेव पुरिसस्स च कायसंसग्गरागेन अवस्सुतभावे सतीति अत्थो. कायेन कायं आमसतीति भिक्खुनी यथापरिच्छिन्नेन कायेन पुरिसस्स यंकिञ्चि कायं पुरिसो वा येन केनचि कायेन भिक्खुनिया यथापरिच्छिन्नं कायं आमसति, उभयथापि भिक्खुनिया पाराजिकं. कायेन कायपटिबद्धन्ति वुत्तप्पकारेनेव अत्तनो कायेन पुरिसस्स कायपटिबद्धं. आमसतीति एत्थ सयं वा आमसतु, तस्स वा आमसनं सादियतु, थुल्लच्चयमेव. कायपटिबद्धेन कायन्ति अत्तनो वुत्तप्पकारकायपटिबद्धेन पुरिसस्स कायं. आमसतीति इधापि सयं वा आमसतु, तस्स वा आमसनं सादियतु, थुल्लच्चयमेव. अवसेसपदेसुपि इमिनाव नयेन विनिच्छयो वेदितब्बो.
सचे पन भिक्खु चेव भिक्खुनी च होति, तत्र चे भिक्खुनी आमसति, भिक्खु निच्चलो हुत्वा चित्तेन सादियति, भिक्खु आपत्तिया न कारेतब्बो. सचे भिक्खु आमसति, भिक्खुनी निच्चला हुत्वा चित्तेनेव अधिवासेति, कायङ्गं अचोपयमानापि पाराजिकक्खेत्ते पाराजिकेन, थुल्लच्चयक्खेत्ते थुल्लच्चयेन, दुक्कटक्खेत्ते दुक्कटेन कारेतब्बा. कस्मा? ‘‘कायसंसग्गं सादियेय्या’’ति वुत्तत्ता. अयं अट्ठकथासु विनिच्छयो. एवं पन सति किरियासमुट्ठानता न दिस्सति, तस्मा तब्बहुलनयेन सा वुत्ताति वेदितब्बा.
६६०. उब्भक्खकन्ति अक्खकानं उपरि. अधोजाणुमण्डलन्ति जाणुमण्डलानं हेट्ठा. एत्थ च अधोकप्परम्पि अधोजाणुमण्डलेनेव सङ्गहितं.
६६२. एकतोअवस्सुतेति एत्थ किञ्चापि एकतोति अविसेसेन वुत्तं, तथापि भिक्खुनिया एव अवस्सुते सति अयं आपत्तिभेदो वुत्तोति वेदितब्बो.
तत्रायं आदितो पट्ठाय विनिच्छयो – भिक्खुनी कायसंसग्गरागेन अवस्सुता, पुरिसोपि तथेव. अधक्खके उब्भजाणुमण्डले कायप्पदेसे कायसंसग्गसादियने सति भिक्खुनिया पाराजिकं. भिक्खुनिया कायसंसग्गरागो, पुरिसस्स मेथुनरागो वा गेहस्सितपेमं वा सुद्धचित्तं वा होतु, थुल्लच्चयमेव. भिक्खुनिया मेथुनरागो, पुरिसस्स कायसंसग्गरागो वा मेथुनरागो वा गहेस्सितपेमं वा सुद्धचित्तं वा होतु, दुक्कटं. भिक्खुनिया गेहस्सितपेमं, पुरिसस्स वुत्तेसु चतूसु यं वा तं वा होतु, दुक्कटमेव. भिक्खुनिया सुद्धचित्तं, पुरिसस्स वुत्तेसु चतूसु यं वा तं वा होतु, अनापत्ति.
सचे पन भिक्खु चेव होति भिक्खुनी च उभिन्नं कायसंसग्गरागो, भिक्खुस्स सङ्घादिसेसो, भिक्खुनिया पाराजिकं. भिक्खुनिया कायसंसग्गरागो, भिक्खुस्स मेथुनरागो वा गेहस्सितपेमं वा, भिक्खुनिया थुल्लच्चयं, भिक्खुस्स दुक्कटं. उभिन्नं मेथुनरागो वा गेहस्सितपेमं वा, उभिन्नम्पि दुक्कटमेव. यस्स यत्थ सुद्धचित्तं, तस्स तत्थ अनापत्ति. उभिन्नम्पि सुद्धचित्तं, उभिन्नम्पि अनापत्ति.
६६३. अनापत्ति असञ्चिच्चातिआदीसु विरज्झित्वा वा आमसन्तिया अञ्ञविहिताय वा ‘‘अयं पुरिसो वा इत्थी वा’’ति अजानन्तिया वा तेन फुट्ठायपि तं फस्सं असादियन्तिया वा आमसनेपि सति अनापत्ति. सेसं सब्बत्थ उत्तानमेव.
पठमपाराजिकसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनन्ति.
पठमपाराजिकं.
२. दुतियपाराजिकसिक्खापदवण्णना
६६४. दुतिये पाराजिके – कच्चि नो साति कच्चि नु सा. अवण्णोति अगुणो. अकित्तीति निन्दा. अयसोति परिवारविपत्ति; परम्मुखगरहा वा.
६६५. वज्जपटिच्छादिकाति इदम्पि इमिस्सा पाराजिकाय नाममत्तमेव, तस्मा पदभाजने न विचारितं. सेसमेत्थ उत्तानमेव.
६६६. सा वा आरोचेतीति या पाराजिकं आपन्ना, सा सयं आरोचेति. अट्ठन्नं पाराजिकानं अञ्ञतरन्ति भिक्खूहि साधारणानं चतुन्नं असाधारणानञ्च चतुन्नमेव अञ्ञतरं. इदञ्च पाराजिकं पच्छा पञ्ञत्तं, तस्मा ‘‘अट्ठन्न’’न्ति विभङ्गे वुत्तं. पुरिमेन पन सद्धिं युगळत्ता इमस्मिं ओकासे ठपितन्ति वेदितब्बं. धुरं निक्खित्तमत्तेति धुरे निक्खित्तमत्ते. वित्थारकथा पनेत्थ सप्पाणकवग्गम्हि दुट्ठुल्लसिक्खापदे वुत्तनयेनेव वेदितब्बा. तत्र हि पाचित्तियं, इध पाराजिकन्ति अयमेव विसेसो. सेसं तादिसमेव. वज्जपटिच्छादिकाति इदम्पिइमिस्सा पाराजिकाय नाममत्थामेव, तस्मा पदभाजने न विचारितं. सेसमेत्थ उत्तानमेव.
धुरनिक्खेपसमुट्ठानं – कायवाचाचित्ततो समुट्ठाति, अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
दुतियपाराजिकं.
३. ततियपाराजिकसिक्खापदवण्णना
६६९. ततिये – धम्मेनाति भूतेन वत्थुना. विनयेनाति चोदेत्वा सारेत्वा. पदभाजनं पनस्स ‘‘येन धम्मेन येन विनयेन उक्खित्तो सुउक्खित्तो होती’’ति इमंअधिप्पायमत्तं दस्सेतुं वुत्तं. सत्थुसासनेनाति ञत्तिसम्पदाय चेव अनुसावनसम्पदाय च. पदभाजने पनस्स ‘‘जिनसासनेन बुद्धसासनेना’’ति वेवचनमत्तमेव वुत्तं. सङ्घं वा गणं वातिआदीसु येन सङ्घेन कम्मं कतं, तं सङ्घं वा तत्थ सम्बहुलपुग्गलसङ्खातं गणं वा, एकपुग्गलं वा तं कम्मं वा न आदियति, न अनुवत्तति, न तत्थ आदरं जनेतीति अत्थो. समानसंवासका भिक्खू वुच्चन्ति सहाया, सो तेहि सद्धिं नत्थीति एत्थ ‘‘एककम्मं एकुद्देसो समसिक्खता’’ति अयं ताव संवासो; समानो संवासो एतेसन्ति समानसंवासका.एवरूपा भिक्खू भिक्खुस्स तस्मिं संवासे सह अयनभावेन सहायाति वुच्चन्ति. इदानि येन संवासेन ते समानसंवासकाति वुत्ता, सो संवासो तस्स उक्खित्तकस्स तेहि सद्धिं नत्थि. येहि च सद्धिं तस्स सो संवासो नत्थि, न तेन ते भिक्खू अत्तनो सहाया कता होन्ति. तस्मा वुत्तं ‘‘समानसंवासका भिक्खू वुच्चन्ति सहाया, सो तेहि सद्धिं नत्थि, तेन वुच्चति अकतसहायो’’ति. सेसं सङ्घभेदसिक्खापदादीसु वुत्तनयत्ता उत्तानत्थमेव.
समनुभासनसमुट्ठानं – कायवाचाचित्ततो समुट्ठाति, अकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
ततियपाराजिकं.
४. चतुत्थपाराजिकसिक्खापदवण्णना
६७५. चतुत्थे – अवस्सुताति लोकस्सादमित्तसन्थववसेन कायसंसग्गरागेन अवस्सुता. दुतियपदेपि एसेव नयो. पुरिसपुग्गलस्स हत्थग्गहणं वातिआदीसु पन यं पुरिसपुग्गलेन हत्थे गहणं कतं, तं पुरिसपुग्गलस्स हत्थग्गहणन्ति वुत्तं. एसेव नयो सङ्घाटिकण्णग्गहणेपि. हत्थग्गहणन्ति एत्थ च हत्थग्गहणञ्च अञ्ञम्पि अपाराजिकक्खेत्ते गहणञ्च एकज्झं कत्वा हत्थग्गहणन्ति वुत्तन्ति वेदितब्बं. तेनेवस्स पदभाजने ‘‘हत्थग्गहणं वा सादियेय्याति हत्थो नाम कप्परं उपादाय याव अग्गनखा, एतस्स असद्धम्मस्स पटिसेवनत्थाय उब्भक्खकं अधोजाणुमण्डलं गहणं सादियति, आपत्ति थुल्लच्चयस्सा’’ति वुत्तं. एत्थ च असद्धम्मोति कायसंसग्गो वेदितब्बो, न मेथुनधम्मो. न हि मेथुनस्स सामन्ता थुल्लच्चयं होति. ‘‘विञ्ञू पटिबलो कायसंसग्गं समापज्जितुन्ति वचनम्पि चेत्थ साधकं.
‘‘तिस्सित्थियो मेथुनं तं न सेवे,
तयो पुरिसे तयो च अनरियपण्डके;
न चाचरे मेथुनं ब्यञ्जनस्मिं,
छेज्जा सिया मेथुनधम्मपच्चया;
पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१);
इमाय परिवारे वुत्ताय सेदमोचकगाथाय विरुज्झतीति चे? न; मेथुनधम्मस्स पुब्बभागत्ता. परिवारेयेव हि ‘‘मेथुनधम्मस्स पुब्बभागो जानितब्बो’’ति ‘‘वण्णावण्णो कायसंसग्गो दुट्ठुल्लवाचा अत्तकामपारिचरियागमनुप्पादन’’न्ति एवं सुक्कविस्सट्ठिआदीनि पञ्च सिक्खापदानि मेथुनधम्मस्स पुब्बभागोति वुत्तानि. तस्मा कायसंसग्गो मेथुनधम्मस्स पुब्बभागत्ता पच्चयो होति. इति छेज्जा सिया मेथुनधम्मपच्चयाति एत्थ इमिना परियायेन अत्थो वेदितब्बो. एतेनुपायेन सब्बपदेसु विनिच्छयो वेदितब्बो. अपिच ‘‘सङ्केतं वा गच्छेय्या’’ति एतस्स पदभाजने ‘‘इत्थन्नामं आगच्छा’’ति. एवंनामकं ठानं आगच्छाति अत्थो.
६७६. अट्ठमं वत्थुं परिपूरेन्ती अस्समणी होतीति अनुलोमतो वा पटिलोमतो वा एकन्तरिकाय वा येन तेन नयेन अट्ठमं वत्थुं परिपूरेन्तीयेव अस्समणी होति. या पन एकं वा वत्थुं सत्त वा वत्थूनि सतक्खत्तुम्पि पूरेति, नेव अस्समणी होति. आपन्ना आपत्तियो देसेत्वा मुच्चति. अपिचेत्थ गणनूपिका आपत्ति वेदितब्बा. वुत्तञ्हेतं ‘‘अत्थापत्ति देसिता गणनूपिका, अत्थापत्ति देसिता न गणनूपिका’’ति. तत्रायं विनिच्छयो – इदानि नापज्जिस्सामीति धुरनिक्खेपं कत्वा देसिता गणनूपिका देसितगणनं उपेति पाराजिकस्स अङ्गं न होति. तस्मा या एकं आपन्ना धुरनिक्खेपं कत्वा देसेत्वा पुन किलेसवसेन आपज्जति, पुन देसेति, एवं अट्ठ वत्थूनि पूरेन्तीपि पाराजिका न होति. या पन आपज्जित्वा पुनपि अञ्ञं वत्थुं आपज्जिस्सामीति सउस्साहाव देसेति, तस्सा सा आपत्ति नगणनूपिका, देसितापि अदेसिता होति, देसितगणनं न गच्छति, पाराजिकस्सेव अङ्गं होति. अट्ठमे वत्थुम्हि परिपुण्णमत्ते पाराजिका होति. सेसं उत्तानमेवाति.
धुरनिक्खेपसमुट्ठानं – कायवाचाचित्ततो समुट्ठाति, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, द्विवेदनन्ति.
चतुत्थपाराजिकं.
उद्दिट्ठा खो अय्यायो अट्ठ पाराजिका धम्माति भिक्खू आरब्भ पञ्ञत्ता साधारणा चत्तारो इमे च चत्तारोति एवं पातिमोक्खुद्देसमग्गेन उद्दिट्ठा खो अय्यायो अट्ठ पाराजिका धम्माति एवमेत्थ अत्थो दट्ठब्बो. सेसं महाविभङ्गे वुत्तनयमेवाति.
समन्तपासादिकाय विनयसंवण्णनाय भिक्खुनीविभङ्गे
पाराजिककण्डवण्णना निट्ठिता.
पाराजिककण्डं निट्ठितं.
२. सङ्घादिसेसकण्डं (भिक्खुनीविभङ्गवण्णना)
१. पठमसङ्घादिसेससिक्खापदवण्णना
पाराजिकानन्तरस्स, अयं दानि भविस्सति;
सङ्घादिसेसकण्डस्स, अनुत्तानत्थवण्णना.
६७८. उदोसितन्ति भण्डसाला. माय्यो एवं अवचाति अय्यो मा एवं अवच. अपिनाय्याति अपिनु अय्या. अच्चावदथाति अतिक्कमित्वा वदथ; अक्कोसथाति वुत्तं होति.
६७९. उस्सयवादिकाति मानुस्सयवसेन कोधुस्सयवसेन विवदमाना. यस्मा पन सा अत्थतो अट्टकारिका होति, तस्मा ‘‘उस्सयवादिका नाम अड्डकारिका वुच्चती’’ति पदभाजने वुत्तं. एत्थ च अड्डोति वोहारिकविनिच्छयो वुच्चति, यं पब्बजिता ‘‘अधिकरण’’न्तिपि वदन्ति. दुतियं वा परियेसतीति सक्खिं वा सहायं वा परियेसति, दुक्कटं. गच्छति वाति उपस्सयो वा होतु भिक्खाचारमग्गो वा, यत्थ ठिताय ‘‘अड्डं करिस्सामी’’ति चित्तं उप्पज्जति, ततो वोहारिकानं सन्तिकं गच्छन्तिया पदवारे पदवारे दुक्कटं. एकस्स आरोचेतीति द्वीसु जनेसु यस्स कस्सचि एकस्स कथं यो कोचि वोहारिकानं आरोचेति. दुतियस्स आरोचेतीति एत्थापि एसेव नयो.
अयं पनेत्थ असम्मोहत्थाय वित्थारकथा – यत्थ कत्थचि अन्तमसो भिक्खुनुपस्सयं आगतेपि वोहारिके दिस्वा भिक्खुनी अत्तनो कथं आरोचेति, भिक्खुनिया दुक्कटं. उपासको अत्तनो कथं आरोचेति, भिक्खुनिया थुल्लच्चयं. पठमं उपासको अत्तनो कथं आरोचेति, भिक्खुनिया दुक्कटं. अथ सा अत्तनो कथं आरोचेति, थुल्लच्चयं. भिक्खुनी उपासकं वदति – ‘‘मम च तव च कथं त्वंयेव आरोचेही’’ति, सो अत्तनो वा कथं पठमं आरोचेतु भिक्खुनिया वा, पठमारोचने दुक्कटं, दुतियारोचने थुल्लच्चयं. उपासको भिक्खुनिं वदति – ‘‘मम च तव च कथं त्वंयेव आरोचेही’’ति, एत्थापि एसेव नयो.
भिक्खुनी कप्पियकारकेन कथापेति, तत्थ कप्पियकारको वा भिक्खुनिया कथं पठमं आरोचेतु, इतरो वा अत्तनो कथं, कप्पियकारको वा उभिन्नम्पि कथं, इतरो वा उभिन्नम्पि कथं आरोचेतु, यथा वा तथा वा आरोचियमाने पठमे आरोचने भिक्खुनिया दुक्कटं, दुतिये थुल्लच्चयं. यथा वा तथा वा आरोचितं पन उभिन्नम्पि कथं सुत्वा वोहारिकेहि विनिच्छये कते अड्डपरियोसानं नाम होति, तस्मिं अड्डपरियोसाने भिक्खुनिया जयेपि पराजयेपि सङ्घादिसेसो. सचे पन गतिगतं अधिकरणं होति, सुतपुब्बं वोहारिकेहि. अथ ते भिक्खुनिञ्च अड्डकारकञ्च दिस्वाव ‘‘तुम्हाकं कथनकिच्चं नत्थि, जानाम मयं एत्थ पवत्ति’’न्ति सयमेव विनिच्छिनित्वा देन्ति, एवरूपे अड्डपरियोसानेपि भिक्खुनिया अनापत्ति.
पठमं आपत्ति एतस्साति पठमापत्तिको; वीतिक्कमक्खणेयेव आपज्जितब्बोति अत्थो, तं पठमापत्तिकं. पदभाजने पन अधिप्पायमत्तं दस्सेतुं ‘‘सह वत्थुज्झाचारा आपज्जति असमनुभासनाया’’ति वुत्तं. अयञ्हेत्थ अत्थो – सह वत्थुज्झाचारा यं भिक्खुनी आपज्जति, न ततियाय समनुभासनाय, अयं पठममेव सह वत्थुज्झाचारेन आपज्जितब्बत्ता पठमापत्तिकोति. भिक्खुनिसङ्घतो निस्सारेतीति निस्सारणीयो; तं निस्सारणीयं. पदभाजने पन अधिप्पायमत्तं दस्सेतुं ‘‘सङ्घम्हा निस्सारीयतीति वुत्तं. तत्थ यं आपन्ना भिक्खुनी सङ्घतो निस्सारीयति, सो निस्सारणीयोति एवमत्थो दट्ठब्बो. न हि सो एव धम्मो सङ्घम्हा केनचि निस्सारीयति. तेन पन धम्मेन भिक्खुनी निस्सारीयति, तस्मा सो निस्सारेतीति निस्सारणीयो.
आकड्ढियमाना गच्छतीति अड्डकारकमनुस्सेहि सयं वा आगन्त्वा दूतं वा पेसेत्वा एहीति वुच्चमाना वोहारिकानं सन्तिकं गच्छति, ततो अड्डकारको अत्तनो वा कथं पठमं आरोचेतु भिक्खुनिया वा, नेव पठमारोचने दुक्कटं, न दुतियारोचने थुल्लच्चयं. अमच्चेहि विनिच्छिनित्वा कते अड्डपरियोसानेपि अनापत्तियेव. सचेपि अड्डकारको भिक्खुनिं वदति ‘‘मम च तव च कथं त्वमेव कथेही’’ति; कथेन्तियापि कथं सुत्वा कते अड्डपरियोसानेपि अनापत्तियेव.
रक्खं याचतीति धम्मिकं रक्खं याचति, अनापत्ति. इदानि यथायाचिता रक्खा धम्मिका होति, तं दस्सेतुं अनोदिस्स आचिक्खतीति आह. तत्थ अतीतं आरब्भ अत्थि ओदिस्सआचिक्खना, अत्थि अनोदिस्सआचिक्खना, अनागतं आरब्भापि अत्थि ओदिस्सआचिक्खना, अत्थि अनोदिस्सआचिक्खना.
कथं अतीतं आरब्भ ओदिस्सआचिक्खना होति? भिक्खुनुपस्सये गामदारका धुत्तादयो वा ये केचि अनाचारं वा आचरन्ति, रुक्खं वा छिन्दन्ति, फलाफलं वा हरन्ति, परिक्खारे वा अच्छिन्दन्ति. भिक्खुनी वोहारिके उपसङ्कमित्वा ‘‘अम्हाकं उपस्सये इदं नाम कत’’न्ति वदति. ‘‘केना’’ति वुत्ते ‘‘असुकेन च असुकेन चा’’ति आचिक्खति. एवं अतीतं आरब्भ ओदिस्सआचिक्खना होति, सा न वट्टति. तञ्चे सुत्वा ते वोहारिका तेसं दण्डं करोन्ति, सब्बं भिक्खुनिया गीवा होति. दण्डं गण्हिस्सन्तीति अधिप्पायेपि सति गीवायेव होति. सचे पन तस्स दण्डं गण्हथाति वदति, पञ्चमासकमत्ते गहिते पाराजिकं होति.
‘‘केना’’ति वुत्ते पन ‘‘असुकेनाति वत्तुं अम्हाकं न वट्टति, तुम्हेयेव जानिस्सथ. केवलञ्हि मयं रक्खं याचाम, तं नो देथ, अवहटभण्डञ्च आहरापेथा’’ति वत्तब्बं. एवं अनोदिस्स आचिक्खना होति, सा वट्टति. एवं वुत्ते सचेपि ते वोहारिका कारके गवेसित्वा तेसं दण्डं करोन्ति, सब्बं सापतेय्यम्पि गहितं भिक्खुनिया, नेव गीवा न आपत्ति.
परिक्खारं हरन्ते दिस्वा तेसं अनत्थकामताय चोरो चोरोति वत्तुम्पि न वट्टति. एवं वुत्तेपि हि यं तेसं दण्डं करोन्ति, सब्बम्पि भिक्खुनिया गीवा होति. अत्तनो वचनकरं पन ‘‘इमिना मे परिक्खारो गहितो, तं आहरापेहि, मा चस्स दण्डं करोही’’ति वत्तुं वट्टति. दासदासीवापिआदीनं अत्थाय अड्डं करोन्ति, अयं अकप्पियअड्डो नाम, न वट्टति.
कथं अनागतं आरब्भ ओदिस्सआचिक्खना होति? वुत्तनयेनेव परेहि अनाचारादीसु कतेसु भिक्खुनी वोहारिके एवं वदति ‘‘अम्हाकं उपस्सये इदञ्चिदञ्च करोन्ति, रक्खं नो देथ आयतिं अकरणत्थाया’’ति. ‘‘केन एवं कत’’न्ति वुत्ते च ‘‘असुकेन असुकेन चा’’ति आचिक्खति. एवं अनागतं आरब्भ ओदिस्सआचिक्खना होति, सापि न वट्टति. तेसञ्हि दण्डे कते पुरिमनयेनेव सब्बं भिक्खुनिया गीवा. सेसं पुरिमसदिसमेव.
सचे पन वोहारिका ‘‘भिक्खुनुपस्सये एवरूपं अनाचारं करोन्तानं इमं नाम दण्डं करोमा’’ति भेरिं चरापेत्वा आणाय अतिट्ठमाने परियेसित्वा दण्डं करोन्ति, भिक्खुनिया नेव गीवा न आपत्ति.
यो चायं भिक्खुनीनं वुत्तो, भिक्खूनम्पि एसेव नयो. भिक्खुनोपि हि ओदिस्सआचिक्खना न वट्टति. यं तथा आचिक्खिते दण्डं करोन्ति, सब्बं गीवा होति. वुत्तनयेनेव दण्डं गण्हापेन्तस्स पाराजिकं. यो पन ‘‘दण्डं करिस्सन्ती’’ति जानन्तोपि अनोदिस्स कथेति, ते च परियेसित्वा दण्डं करोन्तियेव, न दोसो. विहारसीमाय रुक्खादीनि छिन्दन्तानं वासिफरसुआदीनि गहेत्वा पासाणेहि कोट्टेन्ति, न वट्टति. सचे धारा भिज्जति, कारापेत्वा दातब्बा. उपधावित्वा तेसं परिक्खारे गण्हन्ति, तम्पि न कातब्बं, लहुपरिवत्तञ्हि चित्तं, थेय्यचेतनाय उप्पन्नाय मूलच्छेज्जम्पि गच्छेय्य. सेसं उत्तानमेव.
कथिनसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
सत्तरसके पठमसिक्खापदं.
२. दुतियसङ्घादिसेससिक्खापदवण्णना
६८२. दुतिये – वरभण्डन्ति मुत्तामणिवेळुरियादि महग्घभण्डं.
६८३. अनपलोकेत्वाति अनापुच्छित्वा. गणं वाति मल्लगणभटिपुत्तगणादिकं. पूगन्ति धम्मगणं. सेणिन्ति गन्धिकसेणिदुस्सिकसेणिआदिकं. यत्थ यत्थ हि राजानो गणादीनं गामनिगमे निय्यातेन्ति ‘‘तुम्हेव एत्थ अनुसासथा’’ति, तत्थ तत्थ ते एव इस्सरा होन्ति. तस्मा ते सन्धाय इदं वुत्तं. एत्थ च राजानं वा गणादिके वा आपुच्छित्वापि भिक्खुनिसङ्घो आपुच्छितब्बोव. ठपेत्वा कप्पन्ति तित्थियेसु वा अञ्ञभिक्खुनीसु वा पब्बजितपुब्बं कप्पगतिकं ठपेत्वाति. सेसं उत्तानमेव.
चोरीवुट्ठापनसमुट्ठानं – केनचि करणीयेन पक्कन्तासु भिक्खुनीसु अगन्त्वा खण्डसीमं यथानिसिन्नट्ठानेयेव अत्तनो निस्सितकपरिसाय सद्धिं वुट्ठापेन्तिया वाचाचित्ततो समुट्ठाति, खण्डसीमं वा नदिं वा गन्त्वा वुट्ठापेन्तिया कायवाचाचित्ततो समुट्ठाति, अनापुच्छा वुट्ठापनवसेन किरियाकिरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
दुतियसिक्खापदं.
३. ततियसङ्घादिसेससिक्खापदवण्णना
६९२. ततिये – परिक्खेपं अतिक्कामेन्तियाति एत्थ एकं पादं अतिक्कामेन्तिया थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते सङ्घादिसेसो. अपरिक्खित्तस्स गामस्स उपचारन्ति एत्थ परिक्खेपारहट्ठानं एकेन पादेन अतिक्कमति थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते सङ्घादिसेसो. अपिचेत्थ सकगामतो निक्खमन्तिया गामन्तरपच्चया अनापत्ति, निक्खमित्वा पन गामन्तरं गच्छन्तिया पदवारे पदवारे दुक्कटं, एकेन पादेन इतरस्स गामस्स परिक्खेपे वा उपचारे वा अतिक्कन्तमत्ते थुल्लच्चयं, दुतियेन अतिक्कन्तमत्ते सङ्घादिसेसो. ततो निक्खमित्वा पुन सकगामं पविसन्तियापि एसेव नयो. सचे पन खण्डपाकारेन वा वतिछिद्देन वा भिक्खुनिविहारभूमियेव सक्का होति पविसितुं, एवं पविसमानाय कप्पियभूमिं नाम पविट्ठा होति, तस्मा वट्टति. सचेपि हत्थिपिट्ठिआदीहि वा इद्धिया वा पविसति, वट्टतियेव. पदसा गमनमेव हि इधाधिप्पेतं. तेनेव ‘‘पठमं पादं अतिक्कामेन्तिया’’तिआदिमाह.
द्वे गामा भिक्खुनिविहारेन सम्बद्धवतिका होन्ति, यस्मिं गामे भिक्खुनिविहारो, तत्थ पिण्डाय चरित्वा पुन विहारं पविसित्वा सचे विहारमज्झेन इतरस्स गामस्स मग्गो अत्थि, गन्तुं वट्टति. ततो पन गामतो तेनेव मग्गेन पच्चागन्तब्बं. सचे गामद्वारेन निक्खमित्वा आगच्छति, पुरिमनयेनेव आपत्तिभेदो वेदितब्बो. सकगामतो केनचि करणीयेन भिक्खुनीहि सद्धिं निक्खन्ताय पुन पविसनकाले हत्थि वा मुच्चति, उस्सारणा वा होति, इतरा भिक्खुनियो सहसा गामं पविसन्ति, याव अञ्ञा भिक्खुनी आगच्छति, ताव बहिगामद्वारे ठातब्बं. सचे न आगच्छति, दुतियिका भिक्खुनी पक्कन्ता नाम होति, पविसितुं वट्टति.
पुब्बे महागामो होति, मज्झे भिक्खुनिविहारो. पच्छा तं गामं चत्तारो जना लभित्वा विसुं विसुं वतिपरिक्खेपं कत्वा विभजित्वा भुञ्जन्ति, विहारतो एकं गामं गन्तुं वट्टति. ततो अपरं गामं द्वारेन वा वतिछिद्देन वा पविसितुं न वट्टति. पुन विहारमेव पच्चागन्तुं वट्टति. कस्मा? विहारस्स चतुगामसाधारणत्ता.
अन्तरवासको तेमियतीति यत्थ यथा तिमण्डलपटिच्छादनं होति; एवं निवत्थाय भिक्खुनिया वस्सकाले तित्थेन वा अतित्थेन वा ओतरित्वा यत्थ कत्थचि उत्तरन्तिया एकद्वङ्गुलमत्तम्पि अन्तरवासको तेमियति. सेसं नदीलक्खणं नदीनिमित्तकथाय आवि भविस्सति. एवरूपं नदिं तित्थेन वा अतित्थेन वा ओतरित्वा उत्तरणकाले पठमं पादं उद्धरित्वा तीरे ठपेन्तिया थुल्लच्चयं, दुतियपादुद्धारे सङ्घादिसेसो. सेतुना गच्छति, अनापत्ति. पदसा ओतरित्वा उत्तरणकाले सेतुं आरोहित्वा उत्तरन्तियापि अनापत्ति. सेतुना पन गन्त्वा उत्तरणकाले पदसा गच्छन्तिया आपत्तियेव. याननावाआकासगमनादीसुपि एसेव नयो. ओरिमतीरतो पन परतीरमेव अक्कमन्तिया अनापत्ति. रजनकम्मत्थं गन्त्वा दारुसङ्कड्ढनादिकिच्चेन द्वे तिस्सो उभयतीरेसु विचरन्ति, वट्टति. सचे पनेत्थ काचि कलहं कत्वा इतरं तीरं गच्छति, आपत्ति. द्वे एकतो उत्तरन्ति, एका मज्झे नदिया कलहं कत्वा निवत्तित्वा ओरिमतीरमेव आगच्छति, आपत्ति. इतरिस्सा पन अयं पक्कन्तट्ठाने ठिता होति, तस्मा परतीरं गच्छन्तियापि अनापत्ति. न्हायितुं वा पातुं वा ओतिण्णा तमेव तीरं पच्चुत्तरति, अनापत्ति.
सह अरुणुग्गमनाति एत्थ सचे सज्झायं वा पधानं वा अञ्ञं वा किञ्चि कम्मं कुरुमाना पुरेअरुणेयेव दुतियिकाय सन्तिकं गमिस्सामीति आभोगं करोति, अजानन्तिया एव चस्सा अरुणो उग्गच्छति, अनापत्ति. अथ पन ‘‘याव अरुणुग्गमना इधेव भविस्सामी’’ति वा अनाभोगेन वा विहारस्स एकदेसे अच्छति, दुतियिकाय हत्थपासं न ओतरति, अरुणुग्गमने सङ्घादिसेसो. हत्थपासोयेव हि इध पमाणं, हत्थपासातिक्कमे एकगब्भोपि न रक्खति.
अगामके अरञ्ञेति एत्थ ‘‘निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञ’’न्ति एवं वुत्तलक्खणमेव अरञ्ञं. तं पनेतं केवलं गामाभावेन ‘‘अगामक’’न्ति वुत्तं, न विञ्झाटविसदिसताय. तादिसे अरञ्ञे ओक्कन्ते दस्सनूपचारे विजहिते सचेपि सवनूपचारो अत्थि, आपत्ति. तेनेव वुत्तं अट्ठकथायं ‘‘सचे भिक्खुनीसु महाबोधिअङ्गणं पविसन्तीसु एका बहि तिट्ठति, तस्सापि आपत्ति. लोहपासादं पविसन्तीसुपि परिवेणं पविसन्तीसुपि एसेव नयो. महाचेतियं वन्दमानासु एका उत्तरद्वारेन निक्खमित्वा गच्छति, तस्सापि आपत्ति. थूपारामं पविसन्तीसु एका बहि तिट्ठति, तस्सापि आपत्ती’’ति. एत्थ च दस्सनूपचारो नाम यत्थ ठितं दुतियिका पस्सति. सचे पन साणिपाकारन्तरिकापि होति, दस्सनूपचारं विजहति नाम. सवनूपचारो नाम यत्थ ठिता मग्गमूळ्हसद्देन विय धम्मसवनारोचनसद्देन विय च ‘‘अय्ये’’ति सद्दायन्तिया सद्दं सुणाति. अज्झोकासे दूरेपि दस्सनूपचारो नाम होति. सो एवरूपे सवनूपचारे विजहिते न रक्खति, विजहितमत्तेव आपत्ति सङ्घादिसेसस्स.
एका मग्गं गच्छन्ती ओहीयति. सउस्साहा चे हुत्वा इदानि पापुणिस्सामीति अनुबन्धति, अनापत्ति. सचे पुरिमायो अञ्ञेन मग्गेन गच्छन्ति, पक्कन्ता नाम होन्ति, अनापत्तियेव. द्विन्नं गच्छन्तीनं एका अनुबन्धितुं असक्कोन्ती ‘‘गच्छतु अय’’न्ति ओहीयति, इतरापि ‘‘ओहीयतु अय’’न्ति, गच्छति, द्विन्नम्पि आपत्ति. सचे पन गच्छन्तीसु पुरिमापि अञ्ञं मग्गं गण्हाति, पच्छिमापि अञ्ञं, एका एकिस्सा पक्कन्तट्ठाने तिट्ठति, द्विन्नम्पि अनापत्ति.
६९३. पक्खसङ्कन्ता वाति तित्थायतनं सङ्कन्ता, सेसं उत्तानमेव. पठमपाराजिकसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, तिचित्तं, तिवेदनन्ति.
ततियसिक्खापदं.
४. चतुत्थसङ्घादिसेससिक्खापदवण्णना
६९४-८. चतुत्थे – पादपीठं नाम धोतपादट्ठपनकं. पादकठलिका नाम अधोतपादट्ठपनकं. अनञ्ञाय गणस्स छन्दन्ति तस्सेव कारकगणस्स छन्दं अजानित्वा. वत्ते वत्तन्तिन्ति तेचत्तालीसप्पभेदे नेत्थारवत्ते वत्तमानं. सेसं उत्तानमेव.
धुरनिक्खेपसमुट्ठानं – कायवाचाचित्ततो समुट्ठाति, किरियाकिरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
चतुत्थसिक्खापदं.
५. पञ्चमसङ्घादिसेससिक्खापदवण्णना
७०१. पञ्चमे – एकतो अवस्सुतेति एत्थ ‘‘भिक्खुनिया अवस्सुतभावो दट्ठब्बो’’ति महापच्चरियं वुत्तं. महाअट्ठकथायं पनेतं न वुत्तं, तं पाळिया समेति. सेसं उत्तानमेव.
पठमपाराजिकसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, द्विवेदनन्ति.
पञ्चमसिक्खापदं.
६. छट्ठसङ्घादिसेससिक्खापदवण्णना
७०५-६. छट्ठे – यतो त्वन्ति यस्मा त्वं. उय्योजेति आपत्ति दुक्कटस्सातिआदिका सङ्घादिसेसपरियोसाना आपत्तियो कस्सा होन्तीति? उय्योजिकाय. वुत्तञ्चेतं परिवारेपि –
‘‘न देति न पटिग्गण्हाति, पटिग्गहो तेन न विज्जति;
आपज्जति गरुकं न लहुकं, तञ्च परिभोगपच्चया;
पञ्हा मेसा कुसलेहि चिन्तिता’’ति. (परि. ४८१);
अयञ्हि गाथा इमं उय्योजिकं सन्धाय वुत्ता. इतरिस्सा पन आपत्तिभेदो पठमसिक्खापदे विभत्तोति. सेसं उत्तानमेव.
तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनन्ति.
छट्ठसिक्खापदं.
७. सत्तमसङ्घादिसेससिक्खापदवण्णना
७०९. सत्तमे – यावततियकपदत्थो महाविभङ्गे वुत्तनयेनेव वेदितब्बो. सेसं उत्तानमेवाति.
समनुभासनसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
सत्तमसिक्खापदं.
८. अट्ठमसङ्घादिसेससिक्खापदवण्णना
७१५. अट्ठमे – किस्मिञ्चिदेव अधिकरणेति चतुन्नं अञ्ञतरस्मिं. पदभाजने पन केवलं अधिकरणविभागं दस्सेतुं ‘‘अधिकरणं नाम चत्तारि अधिकरणानी’’तिआदि वुत्तं. सेसं उत्तानमेव सद्धिं समुट्ठानादीहीति.
अट्ठमसिक्खापदं.
९. नवमसङ्घादिसेससिक्खापदवण्णना
७२३. नवमे – संसट्ठाति मिस्सीभूता. अननुलोमिकेनाति पब्बजितानं अननुलोमेन कायिकवाचसिकेन. संसट्ठाति गिहीनं कोट्टनपचनगन्धपिसनमालागन्थनादिना कायिकेन सासनपटिसासनाहरणसञ्चरित्तादिना वाचसिकेन च संसट्ठा. पापो कित्तिसद्दो एतासन्ति पापसद्दा. पापो आजीवसङ्खातो सिलोको एतासन्ति पापसिलोका. सेसं उत्तानमेव सद्धिं समुट्ठानादीहीति.
नवमसिक्खापदं.
१०. दसमसङ्घादिसेससिक्खापदवण्णना
७२७. दसमे – एवाचाराति एवंआचारा. यादिसो तुम्हाकं आचारो, तादिसा आचाराति अत्थो. एस नयो सब्बत्थ. उञ्ञायाति अवञ्ञाय नीचं कत्वा जाननाय. परिभवेनाति किं इमा करिस्सन्तीति एवं परिभवित्वा जाननेन. अक्खन्तियाति असहनताय; कोधेनाति अत्थो. वेभस्सियाति बलवभस्सभावेन; अत्तनो बलप्पकासनेन समुत्रासनेनाति अत्थो. दुब्बल्याति तुम्हाकं दुब्बलभावेन. सब्बत्थ उञ्ञाय च परिभवेन चाति एवं समुच्चयत्थो दट्ठब्बो. विविच्चथाति विना होथ. सेसं उत्तानमेव सद्धिं समुट्ठानादीहीति.
दसमसिक्खापदं.
उद्दिट्ठा खो अय्यायो सत्तरस सङ्घादिसेसाति एत्थ छन्नं पठमापत्तिकानं अनन्तरा सञ्चरित्तं, द्वे दुट्ठदोसाति इमानि तीणि सिक्खापदानि महाविभङ्गतो पक्खिपित्वा नव पठमापत्तिका, चतुन्नं यावततियकानं अनन्तरा महाविभङ्गतोपि चत्तारो यावततियके पक्खिपित्वा अट्ठ यावततियका वेदितब्बा. एवं सब्बेपि पातिमोक्खुद्देसमग्गेन उद्दिट्ठा खो अय्यायो सत्तरस सङ्घादिसेसा धम्माति एवमेत्थ अत्थो दट्ठब्बो. सेसं उत्तानमेव अञ्ञत्र पक्खमानत्ता. तं पन खन्धके वित्थारेन वण्णयिस्सामाति.
समन्तपासादिकाय विनयसंवण्णनाय भिक्खुनीविभङ्गे
सत्तरसकवण्णना निट्ठिता.
सङ्घादिसेसकण्डं निट्ठितं.
३. निस्सग्गियकण्डं (भिक्खुनीविभङ्गवण्णना)
पठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
तिंस निस्सग्गिया धम्मा, भिक्खुनीनं पकासिता;
ये तेसं दानि भवति, अयं संवण्णनाक्कमो.
७३३. आमत्तिकापणन्ति अमत्तानि वुच्चन्ति भाजनानि; तानि ये विक्किणन्ति, ते वुच्चन्ति आमत्तिका; तेसं आपणो आमत्तिकापणो; तं वा पसारेस्सन्तीति अत्थो.
७३४. पत्तसन्निचयं करेय्याति पत्तसन्निधिं करेय्य; एकाहं अनधिट्ठहित्वा वा अविकप्पेत्वा वा पत्तं ठपेय्याति अत्थो. सेसं महाविभङ्गे वुत्तनयेनेव वेदितब्बं. अयमेव हि विसेसो – तत्थ दसाहं परिहारो, इध एकाहम्पि नत्थि. सेसं तादिसमेव.
इदम्पि कथिनसमुट्ठानं – कायवाचतो कायवाचाचित्ततो च समुट्ठाति, अकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
पठमसिक्खापदं.
दुतियनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७३८. दुतिये – दुच्चोळाति विरूपचोळा; जिण्णचोळाति अत्थो. अपय्याहीति अपि अय्याहि.
७४०. आदिस्स दिन्नन्ति सम्पत्ता भाजेन्तूति वत्वापि इदं गणस्स इदं तुम्हाकं दम्मीति वत्वा वा दातुकम्यताय पादमूले ठपेत्वा वा दिन्नम्पि आदिस्स दिन्नं नाम होति. एतं सब्बम्पि अकालचीवरं. अय्याय दम्मीति एवं पटिलद्धं पन यथादानेयेव उपनेतब्बं. सेसं उत्तानमेव.
तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, तिवेदनन्ति.
दुतियसिक्खापदं.
ततियनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७४३-५. ततिये – हन्दाति गण्ह. सयं अच्छिन्दतीति एकं दत्वा एकं अच्छिन्दन्तिया एकं निस्सग्गियं, बहूसु बहूनि. सचे संहरित्वा ठपितानि एकतो अच्छिन्दति, वत्थुगणनाय आपत्तियो. बन्धित्वा ठपितेसु पन एकाव आपत्ति. सेसं उत्तानमेव.
तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, वचीकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
ततियसिक्खापदं.
चतुत्थनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७४८. चतुत्थे – कयेनाति मूलेन. न मे आवुसो सप्पिना अत्थो; तेलेन मे अत्थोति इदं किर सा आहटसप्पिं दत्वा तेलम्पि आहरिस्सतीति मञ्ञमाना आह. विञ्ञापेत्वाति जानापेत्वा; इदं नाम आहराति याचित्वा वा.
७५२. तञ्ञेव विञ्ञापेतीति यं पठमं विञ्ञत्तं तं थोकं नप्पहोति, तस्मा पुन तञ्ञेव विञ्ञापेतीति अत्थो. अञ्ञञ्च विञ्ञापेतीति सचे पठमं सप्पिविञ्ञत्तं, यमकं पचितब्बन्ति च वेज्जेन वुत्तत्ता तेलेन अत्थो होति, ततो तेलेनापि मे अत्थोति एवं अञ्ञञ्च विञ्ञापेति. आनिसंसं दस्सेत्वाति सचे कहापणस्स सप्पि आभतं होति, इमिना मूलेन दिगुणं तेलं लब्भति, तेनापि च इदं किच्चं निप्फज्जति, तस्मा तेलं आहराति एवं आनिसंसं दस्सेत्वा विञ्ञापेतीति. सेसं उत्तानमेव.
छसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
चतुत्थसिक्खापदं.
पञ्चमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७५३. पञ्चमे – न मे सिक्खमानेति इदं किर सा कुलधीता ‘‘अयं अद्धा एवं वुत्ता इदं तेलं ठपेत्वा सप्पिम्पि मे अत्तनो कुलघरा आहरिस्सती’’ति मञ्ञमाना आह. चेतापेत्वाति जानापेत्वा इच्चेव अत्थो. सेसं सब्बत्थ चतुत्थसदिसमेवाति.
पञ्चमसिक्खापदं.
छट्ठनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७५८. छट्ठे – छन्दकन्ति ‘‘इदं नाम धम्मकिच्चं करिस्साम, यं सक्कोथ; तं देथा’’ति एवं परेसं छन्दञ्च रुचिञ्च उप्पादेत्वा गहितपरिक्खारस्सेतं अधिवचनं. अञ्ञदत्थिकेनाति अञ्ञस्सत्थाय दिन्नेन. अञ्ञुद्दिसिकेनाति अञ्ञं उद्दिसित्वा दिन्नेन. सङ्घिकेनाति सङ्घस्स परिच्चत्तेन.
७६२. सेसकं उपनेतीति यदत्थाय दिन्नो, तं चेतापेत्वा अवसेसं अञ्ञस्सत्थाय उपनेति. सामिके अपलोकेत्वाति ‘‘तुम्हेहि चीवरत्थाय दिन्नो, अम्हाकञ्च चीवरं अत्थि, तेलादीहि पन अत्थो’’ति एवं आपुच्छित्वा उपनेति. आपदासूति तथारूपेसु उपद्दवेसु; भिक्खुनियो विहारं छड्डेत्वा पक्कमन्ति, एवरूपासु आपदासु यं वा तं वा चेतापेतुं वट्टति. सेसं उत्तानमेव.
छसमुट्ठानं – किरियाकिरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
छट्ठसिक्खापदं.
सत्तमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७६४. सत्तमे – सञ्ञाचिकेनाति सयं याचितकेन. एतदेवेत्थ नानाकरणं. सेसं छट्ठसदिसमेवाति.
सत्तमसिक्खापदं.
अट्ठमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७६९. अट्ठमे – महाजनिकेनाति गणस्स परिच्चत्तेन. एतदेवेत्थ नानाकरणं.
अट्ठमसिक्खापदं.
नवमनिस्सग्गियपाचित्तियसिक्खापदवण्णना
७७४. नवमसिक्खापदे – सञ्ञाचिकेनाति इदं पदं इतो अधिकतरं.
नवमसिक्खापदं.