१. पठमसङ्घादिसेससिक्खापदवण्णना

पाराजिकानन्तरस्स, अयं दानि भविस्सति;

सङ्घादिसेसकण्डस्स, अनुत्तानत्थवण्णना.

६७८. उदोसितन्ति भण्डसाला. माय्यो एवं अवचाति अय्यो मा एवं अवच. अपिनाय्याति अपिनु अय्या. अच्चावदथाति अतिक्कमित्वा वदथ; अक्कोसथाति वुत्तं होति.

६७९. उस्सयवादिकाति मानुस्सयवसेन कोधुस्सयवसेन विवदमाना. यस्मा पन सा अत्थतो अट्टकारिका होति, तस्मा ‘‘उस्सयवादिका नाम अड्डकारिका वुच्चती’’ति पदभाजने वुत्तं. एत्थ च अड्डोति वोहारिकविनिच्छयो वुच्चति, यं पब्बजिता ‘‘अधिकरण’’न्तिपि वदन्ति. दुतियं वा परियेसतीति सक्खिं वा सहायं वा परियेसति, दुक्कटं. गच्छति वाति उपस्सयो वा होतु भिक्खाचारमग्गो वा, यत्थ ठिताय ‘‘अड्डं करिस्सामी’’ति चित्तं उप्पज्जति, ततो वोहारिकानं सन्तिकं गच्छन्तिया पदवारे पदवारे दुक्कटं. एकस्स आरोचेतीति द्वीसु जनेसु यस्स कस्सचि एकस्स कथं यो कोचि वोहारिकानं आरोचेति. दुतियस्स आरोचेतीति एत्थापि एसेव नयो.

अयं पनेत्थ असम्मोहत्थाय वित्थारकथा – यत्थ कत्थचि अन्तमसो भिक्खुनुपस्सयं आगतेपि वोहारिके दिस्वा भिक्खुनी अत्तनो कथं आरोचेति, भिक्खुनिया दुक्कटं. उपासको अत्तनो कथं आरोचेति, भिक्खुनिया थुल्लच्चयं. पठमं उपासको अत्तनो कथं आरोचेति, भिक्खुनिया दुक्कटं. अथ सा अत्तनो कथं आरोचेति, थुल्लच्चयं. भिक्खुनी उपासकं वदति – ‘‘मम च तव च कथं त्वंयेव आरोचेही’’ति, सो अत्तनो वा कथं पठमं आरोचेतु भिक्खुनिया वा, पठमारोचने दुक्कटं, दुतियारोचने थुल्लच्चयं. उपासको भिक्खुनिं वदति – ‘‘मम च तव च कथं त्वंयेव आरोचेही’’ति, एत्थापि एसेव नयो.

भिक्खुनी कप्पियकारकेन कथापेति, तत्थ कप्पियकारको वा भिक्खुनिया कथं पठमं आरोचेतु, इतरो वा अत्तनो कथं, कप्पियकारको वा उभिन्नम्पि कथं, इतरो वा उभिन्नम्पि कथं आरोचेतु, यथा वा तथा वा आरोचियमाने पठमे आरोचने भिक्खुनिया दुक्कटं, दुतिये थुल्लच्चयं. यथा वा तथा वा आरोचितं पन उभिन्नम्पि कथं सुत्वा वोहारिकेहि विनिच्छये कते अड्डपरियोसानं नाम होति, तस्मिं अड्डपरियोसाने भिक्खुनिया जयेपि पराजयेपि सङ्घादिसेसो. सचे पन गतिगतं अधिकरणं होति, सुतपुब्बं वोहारिकेहि. अथ ते भिक्खुनिञ्च अड्डकारकञ्च दिस्वाव ‘‘तुम्हाकं कथनकिच्चं नत्थि, जानाम मयं एत्थ पवत्ति’’न्ति सयमेव विनिच्छिनित्वा देन्ति, एवरूपे अड्डपरियोसानेपि भिक्खुनिया अनापत्ति.

पठमं आपत्ति एतस्साति पठमापत्तिको; वीतिक्कमक्खणेयेव आपज्जितब्बोति अत्थो, तं पठमापत्तिकं. पदभाजने पन अधिप्पायमत्तं दस्सेतुं ‘‘सह वत्थुज्झाचारा आपज्जति असमनुभासनाया’’ति वुत्तं. अयञ्हेत्थ अत्थो – सह वत्थुज्झाचारा यं भिक्खुनी आपज्जति, न ततियाय समनुभासनाय, अयं पठममेव सह वत्थुज्झाचारेन आपज्जितब्बत्ता पठमापत्तिकोति. भिक्खुनिसङ्घतो निस्सारेतीति निस्सारणीयो; तं निस्सारणीयं. पदभाजने पन अधिप्पायमत्तं दस्सेतुं ‘‘सङ्घम्हा निस्सारीयतीति वुत्तं. तत्थ यं आपन्ना भिक्खुनी सङ्घतो निस्सारीयति, सो निस्सारणीयोति एवमत्थो दट्ठब्बो. न हि सो एव धम्मो सङ्घम्हा केनचि निस्सारीयति. तेन पन धम्मेन भिक्खुनी निस्सारीयति, तस्मा सो निस्सारेतीति निस्सारणीयो.

आकड्ढियमाना गच्छतीति अड्डकारकमनुस्सेहि सयं वा आगन्त्वा दूतं वा पेसेत्वा एहीति वुच्चमाना वोहारिकानं सन्तिकं गच्छति, ततो अड्डकारको अत्तनो वा कथं पठमं आरोचेतु भिक्खुनिया वा, नेव पठमारोचने दुक्कटं, न दुतियारोचने थुल्लच्चयं. अमच्चेहि विनिच्छिनित्वा कते अड्डपरियोसानेपि अनापत्तियेव. सचेपि अड्डकारको भिक्खुनिं वदति ‘‘मम च तव च कथं त्वमेव कथेही’’ति; कथेन्तियापि कथं सुत्वा कते अड्डपरियोसानेपि अनापत्तियेव.

रक्खं याचतीति धम्मिकं रक्खं याचति, अनापत्ति. इदानि यथायाचिता रक्खा धम्मिका होति, तं दस्सेतुं अनोदिस्स आचिक्खतीति आह. तत्थ अतीतं आरब्भ अत्थि ओदिस्सआचिक्खना, अत्थि अनोदिस्सआचिक्खना, अनागतं आरब्भापि अत्थि ओदिस्सआचिक्खना, अत्थि अनोदिस्सआचिक्खना.

कथं अतीतं आरब्भ ओदिस्सआचिक्खना होति? भिक्खुनुपस्सये गामदारका धुत्तादयो वा ये केचि अनाचारं वा आचरन्ति, रुक्खं वा छिन्दन्ति, फलाफलं वा हरन्ति, परिक्खारे वा अच्छिन्दन्ति. भिक्खुनी वोहारिके उपसङ्कमित्वा ‘‘अम्हाकं उपस्सये इदं नाम कत’’न्ति वदति. ‘‘केना’’ति वुत्ते ‘‘असुकेन च असुकेन चा’’ति आचिक्खति. एवं अतीतं आरब्भ ओदिस्सआचिक्खना होति, सा न वट्टति. तञ्चे सुत्वा ते वोहारिका तेसं दण्डं करोन्ति, सब्बं भिक्खुनिया गीवा होति. दण्डं गण्हिस्सन्तीति अधिप्पायेपि सति गीवायेव होति. सचे पन तस्स दण्डं गण्हथाति वदति, पञ्चमासकमत्ते गहिते पाराजिकं होति.

‘‘केना’’ति वुत्ते पन ‘‘असुकेनाति वत्तुं अम्हाकं न वट्टति, तुम्हेयेव जानिस्सथ. केवलञ्हि मयं रक्खं याचाम, तं नो देथ, अवहटभण्डञ्च आहरापेथा’’ति वत्तब्बं. एवं अनोदिस्स आचिक्खना होति, सा वट्टति. एवं वुत्ते सचेपि ते वोहारिका कारके गवेसित्वा तेसं दण्डं करोन्ति, सब्बं सापतेय्यम्पि गहितं भिक्खुनिया, नेव गीवा न आपत्ति.

परिक्खारं हरन्ते दिस्वा तेसं अनत्थकामताय चोरो चोरोति वत्तुम्पि न वट्टति. एवं वुत्तेपि हि यं तेसं दण्डं करोन्ति, सब्बम्पि भिक्खुनिया गीवा होति. अत्तनो वचनकरं पन ‘‘इमिना मे परिक्खारो गहितो, तं आहरापेहि, मा चस्स दण्डं करोही’’ति वत्तुं वट्टति. दासदासीवापिआदीनं अत्थाय अड्डं करोन्ति, अयं अकप्पियअड्डो नाम, न वट्टति.

कथं अनागतं आरब्भ ओदिस्सआचिक्खना होति? वुत्तनयेनेव परेहि अनाचारादीसु कतेसु भिक्खुनी वोहारिके एवं वदति ‘‘अम्हाकं उपस्सये इदञ्चिदञ्च करोन्ति, रक्खं नो देथ आयतिं अकरणत्थाया’’ति. ‘‘केन एवं कत’’न्ति वुत्ते च ‘‘असुकेन असुकेन चा’’ति आचिक्खति. एवं अनागतं आरब्भ ओदिस्सआचिक्खना होति, सापि न वट्टति. तेसञ्हि दण्डे कते पुरिमनयेनेव सब्बं भिक्खुनिया गीवा. सेसं पुरिमसदिसमेव.

सचे पन वोहारिका ‘‘भिक्खुनुपस्सये एवरूपं अनाचारं करोन्तानं इमं नाम दण्डं करोमा’’ति भेरिं चरापेत्वा आणाय अतिट्ठमाने परियेसित्वा दण्डं करोन्ति, भिक्खुनिया नेव गीवा न आपत्ति.

यो चायं भिक्खुनीनं वुत्तो, भिक्खूनम्पि एसेव नयो. भिक्खुनोपि हि ओदिस्सआचिक्खना न वट्टति. यं तथा आचिक्खिते दण्डं करोन्ति, सब्बं गीवा होति. वुत्तनयेनेव दण्डं गण्हापेन्तस्स पाराजिकं. यो पन ‘‘दण्डं करिस्सन्ती’’ति जानन्तोपि अनोदिस्स कथेति, ते च परियेसित्वा दण्डं करोन्तियेव, न दोसो. विहारसीमाय रुक्खादीनि छिन्दन्तानं वासिफरसुआदीनि गहेत्वा पासाणेहि कोट्टेन्ति, न वट्टति. सचे धारा भिज्जति, कारापेत्वा दातब्बा. उपधावित्वा तेसं परिक्खारे गण्हन्ति, तम्पि न कातब्बं, लहुपरिवत्तञ्हि चित्तं, थेय्यचेतनाय उप्पन्नाय मूलच्छेज्जम्पि गच्छेय्य. सेसं उत्तानमेव.

कथिनसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.

सत्तरसके पठमसिक्खापदं.