९. उक्खित्तसम्भोगसिक्खापदवण्णना
४२४-५. नवमे – अकटानुधम्मेनाति अनुधम्मो वुच्चति आपत्तिया अदस्सने वा अप्पटिकम्मे वा पापिकाय दिट्ठिया अप्पटिनिस्सग्गे वा धम्मेन विनयेन सत्थुसासनेन उक्खित्तकस्स अनुलोमवत्तं दिस्वा कता ओसारणा; सो ओसारणसङ्खातो अनुधम्मो यस्स न कतो, अयं अकटानुधम्मो नाम, तादिसेन सद्धिन्ति अत्थो. तेनेवस्स पदभाजने ‘‘अकटानुधम्मो नाम उक्खित्तो अनोसारितो’’ति वुत्तं.
देति वा पटिग्गण्हाति वाति एकपयोगेन बहुम्पि ददतो वा गण्हतो वा एकं पाचित्तियं. विच्छिन्दित्वा विच्छिन्दित्वा देन्तस्स च गण्हन्तस्स च पयोगगणनाय पाचित्तियानि. सेसमेत्थ उत्तानमेव. तिसमुट्ठानं – किरियं, सञ्ञाविमोक्खं, सचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
उक्खित्तसम्भोगसिक्खापदं नवमं.