४. काणमातासिक्खापदवण्णना
२३०. चतुत्थसिक्खापदे – काणमाताति काणाय माता. सा किरस्सा धीता अभिरूपा अहोसि, ये ये तं पस्सन्ति, ते ते रागेन काणा होन्ति, रागन्धा होन्तीति अत्थो. तस्मा परेसं काणभावकरणतो ‘‘काणा’’ति विस्सुता अहोसि. तस्सा वसेन मातापिस्सा ‘‘काणमाता’’ति पाकटा जाता. आगतन्ति आगमनं. किस्मिं वियाति कीदिसं विय; लज्जनकं विय होतीति अधिप्पायो. रित्तहत्थं गन्तुन्ति रित्ता हत्था अस्मिं गमने तदिदं रित्तहत्थं, तं रित्तहत्थं गमनं गन्तुं लज्जनकं विय होतीति वुत्तं होति. परिक्खयं अगमासीति उपासिका अरियसाविका भिक्खू दिस्वा सन्तं अदातुं न सक्कोति, तस्मा ताव दापेसि, याव सब्बं परिक्खयं अगमासि. धम्मिया कथायाति एत्थ काणापि मातु अत्थाय देसियमानं धम्मं सुणन्ती देसनापरियोसाने सोतापन्ना अहोसि. उट्ठायासना पक्कामीति आसनतो उट्ठहित्वा गतो. सोपि पुरिसो ‘‘सत्था किर काणमाताय निवेसनं अगमासी’’ति सुत्वा काणं आनेत्वा पकतिट्ठानेयेव ठपेसि.
२३१. इमस्मिं पन वत्थुस्मिं उप्पन्नमत्ते अप्पञ्ञत्तेयेव सिक्खापदे पाथेय्यवत्थु उदपादि, तस्मा अनन्तरमेव चेतं दस्सेतुं ‘‘तेन खो पन समयेना’’तिआदि वुत्तं. सोपि च उपासको अरियसावकत्ता सब्बमेव दापेसि. तेन वुत्तं – ‘‘परिक्खयं अगमासी’’ति.
२३३. यंकिञ्चि पहेणकत्थायाति पण्णाकारत्थाय पटियत्तं यंकिञ्चि अतिरसकमोदकसक्खलिकादि सब्बं इध पूवोत्वेव सङ्ख्यं गच्छति. यंकिञ्चि पाथेय्यत्थायाति मग्गं गच्छन्तानं अन्तरामग्गत्थाय पटियत्तं यंकिञ्चि बद्धसत्तुअबद्धसत्तुतिलतण्डुलादि सब्बं इध मन्थोत्वेव सङ्ख्यं गच्छति. ततो चे उत्तरिन्ति सचेपि ततियं पत्तं थूपीकतं गण्हाति, पूवगणनाय पाचित्तियं.
द्वत्तिपत्तपूरे पटिग्गहेत्वाति मुखवट्टिया हेट्ठिमलेखाय समपूरे पत्ते गहेत्वा. अमुत्र मया द्वत्तिपत्तपूराति एत्थ सचे द्वे गहिता, ‘‘अत्र मया द्वे पत्तपूरा पटिग्गहिता, त्वं एकं गण्हेय्यासी’’ति वत्तब्बं. तेनापि अञ्ञं पस्सित्वा ‘‘पठमं आगतेन द्वे पत्तपूरा गहिता, मया एको, मा त्वं गण्ही’’ति वत्तब्बं. येन पठमं एको गहितो, तस्सापि परम्परारोचने एसेव नयो. येन पन सयमेव तयो गहिता, तेन अञ्ञं दिस्वा ‘‘मा खो एत्थ पटिग्गण्हि’’ च्चेव वत्तब्बं. पटिक्कमनं नीहरित्वाति आसनसालं हरित्वा, आसनसालं गच्छन्तेन च छड्डितसाला न गन्तब्बा. यत्थ महा भिक्खुसङ्घो निसीदति, तत्थ गन्तब्बं. महापच्चरियं पन वुत्तं ‘‘या लद्धट्ठानतो आसन्ना आसनसाला, तत्थ गन्तब्बं. अत्तनो ‘सन्दिट्ठानं वा सम्भत्तानं वा एकनिकायिकानं वा दस्सामी’ति अञ्ञत्थ गन्तुं न लब्भति. सचे पनस्स निबद्धनिसीदनट्ठानं होति, दूरम्पि गन्तुं वट्टती’’ति.
संविभजितब्बन्ति सचे तयो पत्तपूरा गहिता, एकं अत्तनो ठपेत्वा द्वे भिक्खुसङ्घस्स दातब्बा. सच्चे द्वे गहिता, एकं अत्तनो ठपेत्वा एको सङ्घस्स दातब्बो, यथामित्तं पन दातुं न लब्भति. येन एको गहितो, न तेन किञ्चि अकामा दातब्बं, यथारुचि कातब्बं.
२३५. गमने पटिप्पस्सद्धेति अन्तरामग्गे उपद्दवं वा दिस्वा अनत्थिकताय वा ‘‘मयं इदानि न पेसिस्साम, न गमिस्सामा’’ति एवं गमने पटिप्पस्सद्धे उपच्छिन्ने. ञातकानं पवारितानन्ति एतेसं बहुम्पि देन्तानं पटिग्गण्हन्तस्स अनापत्ति. अट्ठकथासु पन ‘‘तेसम्पि पाथेय्यपहेणकत्थाय पटियत्ततो पमाणमेव वट्टती’’ति वुत्तं. सेसं उत्तानमेव.
छसमुट्ठानं – किरियं, नोसञ्ञाविमोक्खं, अचित्तकं, पण्णत्तिवज्जं, कायकम्मं, वचीकम्मं, तिचित्तं, तिवेदनन्ति.
काणमातासिक्खापदं चतुत्थं.