६. अनुपखज्जसिक्खापदवण्णना
११९. छट्ठसिक्खापदे – पलिबुन्धेन्तीति पठमतरं गन्त्वा पत्तचीवरं अतिहरित्वा रुम्भित्वा तिट्ठन्ति. थेरा भिक्खू वुट्ठापेन्तीति ‘‘अम्हाकं आवुसो पापुणाती’’ति वस्सग्गेन गहेत्वा वुट्ठापेन्ति. अनुपखज्ज सेय्यं कप्पेन्तीति ‘‘तुम्हाकं भन्ते मञ्चट्ठानंयेव पापुणाति, न सब्बो विहारो. अम्हाकं दानि इदं ठानं पापुणाती’’ति अनुपविसित्वा मञ्चपीठं पञ्ञपेत्वा निसीदन्तिपि निपज्जन्तिपि सज्झायम्पि करोन्ति.
१२०. जानन्ति ‘‘अनुट्ठापनीयो अय’’न्ति जानन्तो; तेनेवस्स विभङ्गे ‘‘वुड्ढोति जानाती’’तिआदि वुत्तं. वुड्ढो हि अत्तनो वुड्ढताय अनुट्ठापनीयो, गिलानो गिलानताय, सङ्घो पन भण्डागारिकस्स वा धम्मकथिकविनयधरादीनं वा गणवाचकआचरियस्स वा बहूपकारतं गुणविसिट्ठतञ्च सल्लक्खेन्तो धुववासत्थाय विहारं सम्मन्नित्वा देति, तस्मा यस्स सङ्घेन दिन्नो, सोपि अनुट्ठापनीयो. कामञ्चेत्थ गिलानस्सापि सङ्घोयेव अनुच्छविकं सेनासनं देति, गिलानो पन ‘‘अपलोकेत्वा सङ्घेन अदिन्नसेनासनोपि न पीळेतब्बो अनुकम्पितब्बो’’ति दस्सेतुं विसुं वुत्तो.
१२१. उपचारेति एत्थ मञ्चपीठानं ताव महल्लके विहारे समन्ता दियड्ढो हत्थो उपचारो, खुद्दके यतो पहोति ततो दियड्ढो हत्थो, पादे धोवित्वा पविसन्तस्स पस्सावत्थाय निक्खमन्तस्स च याव द्वारे निक्खित्तपादधोवनपासाणतो पस्सावट्ठानतो च मञ्चपीठं, ताव दियड्ढहत्थवित्थारो मग्गो उपचारो नाम. तस्मिं मञ्चस्स वा पीठस्स वा उपचारे ठितस्स वा भिक्खुनो पविसन्तस्स वा निक्खमन्तस्स वा उपचारे यो अनुपखज्ज सेय्यं कप्पेतुकामो सेय्यं सन्थरति वा सन्थरापेति वा, आपत्ति दुक्कटस्स.
अभिनिसीदति वा अभिनिपज्जति वाति एत्थ अभिनिसीदनमत्तेन अभिनिपज्जनमत्तेनेव वा पाचित्तियं. सचे पन द्वेपि करोति, द्वे पाचित्तियानि. उट्ठायुट्ठाय निसीदतो वा निपज्जतो वा पयोगे पयोगे पाचित्तियं.
१२२. उपचारं ठपेत्वा सेय्यं सन्थरति वा सन्थरापेति वाति इमस्मिं इतो परे च ‘‘विहारस्स उपचारे’’तिआदिके दुक्कटवारेपि यथा इध अभिनिसीदनमत्ते अभिनिपज्जनमत्ते उभयकरणे पयोगभेदे च पाचित्तियप्पभेदो वुत्तो, एवं दुक्कटप्पभेदो वेदितब्बो. एवरूपेन हि विसभागपुग्गलेन एकविहारे वा एकपरिवेणे वा वसन्तेन अत्थो नत्थि, तस्मा सब्बत्थेवस्स निवासो वारितो. अञ्ञस्स पुग्गलिकेति इधापि विस्सासिकस्स पुग्गलिकं अत्तनो पुग्गलिकसदिसमेव, तत्थ अनापत्ति.
१२३. आपदासूति सचे बहि वसन्तस्स जीवितब्रह्मचरियन्तरायो होति, एवरूपासु आपदासु यो पविसति, तस्सापि अनापत्ति. सेसं उत्तानमेवाति. पठमपाराजिकसमुट्ठानं, किरियं, सञ्ञाविमोक्खं, सचित्तकं, लोकवज्जं, कायकम्मं, अकुसलचित्तं, दुक्खवेदनन्ति.
अनुपखज्जसिक्खापदं छट्ठं.