२. कायसुत्तवण्णना

१८३. दुतिये आहारट्ठितिकोति पच्चयट्ठितिको. आहारं पटिच्चाति पच्चयं पटिच्च. सुभनिमित्तन्ति सुभम्पि सुभनिमित्तं, सुभस्स आरम्मणम्पि सुभनिमित्तं. अयोनिसोमनसिकारोति अनुपायमनसिकारो उप्पथमनसिकारो अनिच्चे ‘‘निच्च’’न्ति वा, दुक्खे ‘‘सुख’’न्ति, अनत्तनि ‘‘अत्ता’’ति वा, असुभे ‘‘सुभ’’न्ति वा, मनसिकारो. तं तस्मिं सुभारम्मणे बहुलं पवत्तयतो कामच्छन्दो उप्पज्जति. तेन वुत्तं ‘‘अत्थि, भिक्खवे, सुभनिमित्त’’न्तिआदि. एवं सब्बनीवरणेसु योजना वेदितब्बा.

पटिघनिमित्तन्तिआदीसु पन पटिघोपि पटिघनिमित्तं पटिघारम्मणम्पि. अरतीति उक्कण्ठिता. यं सन्धाय वुत्तं – ‘‘तत्थ कतमा अरति? पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति अरतिता अनभिरति अनभिरमना उक्कण्ठिता परितस्सिता, अयं वुच्चति अरती’’ति (विभ. ८५६).

तन्दीति अतिसीतादिपच्चया उप्पन्नं आगन्तुककायालसियं. यस्मिं उप्पन्ने ‘‘अतिसीतं अतिउण्हं अतिच्छातोस्मि अतिधातोस्मि अतिदूरमग्गं गतोस्मी’’ति वदति, यं सन्धाय वुत्तं ‘‘तत्थ कतमा तन्दि, या तन्दी तन्दियना तन्दिमनकता आलस्यं आलस्यायना आलस्यायितत्तं, अयं वुच्चति तन्दी’’ति (विभ. ८५७).

विजम्भिताति किलेसवसेन कायविनमना. यं सन्धाय वुत्तं – ‘‘तत्थ कतमा विजम्भिता? या कायस्स जम्भना विजम्भना आनमना विनमना सन्नमना पणमना ब्याधियकं, अयं वुच्चति विजम्भिता’’ति (विभ. ८५८).

भत्तसम्मदोति भत्तपरिळाहो. यं सन्धाय वुत्तं – ‘‘तत्थ कतमो भत्तसम्मदो? या भुत्ताविस्स भत्तमुच्छा भत्तकिलमथो भत्तपरिळाहो कायदुट्ठुल्लं, अयं वुच्चति भत्तसम्मदो’’ति (विभ. ८५९).

चेतसो च लीनत्तन्ति चित्तस्स लीयनाकारो, यं सन्धाय वुत्तं – ‘‘तत्थ कतमं चेतसो लीनत्तं? या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं थिनं थियना थियितत्तं चित्तस्स, इदं वुच्चति चेतसो लीनत्त’’न्ति (विभ. ८६०).

चेतसो अवूपसमोति यथा नाम वीतच्चिकोपि अङ्गारो नेव ताव सन्निसीदति पतापं करोतियेव, यथा च पत्तपचनट्ठाने नेव ताव सन्निसीदति पतापं करोतियेव, एवं चित्तस्स अवूपसन्ताकारो, अत्थतो पनेतं उद्धच्चकुक्कुच्चमेव होति.

विचिकिच्छट्ठानीया धम्माति विचिकिच्छाय आरम्मणधम्मा. अयोनिसोमनसिकारो सब्बत्थ वुत्तनयोव. एवमेत्थ कामच्छन्दो विचिकिच्छाति इमे द्वे धम्मा आरम्मणेन कथिता, ब्यापादो आरम्मणेन च उपनिस्सयेन च, सेसा सहजातेन च उपनिस्सयेन चाति.

सतिसम्बोज्झङ्गट्ठानीया धम्माति सतिया आरम्मणधम्मा सत्ततिंस बोधिपक्खिया च नव लोकुत्तरधम्मा च. तत्थ योनिसोमनसिकारबहुलीकारोति तत्थ उपायमनसिकारस्स पुनप्पुनं करणं.

कुसलाकुसला धम्मातिआदीसु कुसलाति कोसल्लसम्भूता अनवज्जसुखविपाका. अकुसलाति अकोसल्लसम्भूता सावज्जदुक्खविपाका. सावज्जाति अकुसला. अनवज्जाति कुसला. हीनपणीतकण्हसुक्केसुपि एसेव नयो. सप्पटिभागाति कण्हसुक्कायेव. कण्हा हि कण्हविपाकदानतो, सुक्का च सुक्कविपाकदानतो सप्पटिभागा नाम, सदिसविपाककोट्ठासाति अत्थो. पटिपक्खभूतस्स वा भागस्स अत्थिताय सप्पटिभागा. कण्हानञ्हि सुक्का पटिपक्खभागा, सुक्कानञ्च कण्हा पटिपक्खभागाति एवम्पि सप्पटिभागा. सप्पटिबाहितट्ठेन वा सप्पटिभागा. अकुसलञ्हि कुसलं पटिबाहित्वा अत्तनो विपाकं देति, कुसलञ्च अकुसलं पटिबाहित्वाति एवम्पि कण्हसुक्का सप्पटिभागा.

आरम्भधातूति पठमारम्भवीरियं. निक्कमधातूति कोसज्जतो निक्खन्तत्ता ततो बलवतरं. परक्कमधातूति परं परं ठानं अक्कमनताय ततोपि बलवतरन्ति तीहिपि पदेहि वीरियमेव कथितं.

पीतिसम्बोज्झङ्गट्ठानीयाति पीतिया आरम्मणधम्मा. कायपस्सद्धीति तिण्णं खन्धानं दरथपस्सद्धि. चित्तपस्सद्धीति विञ्ञाणक्खन्धस्स दरथपस्सद्धि. समथनिमित्तन्ति समथोपि समथनिमित्तं, आरम्मणम्पि. अब्यग्गनिमित्तन्ति तस्सेव वेवचनं.

उपेक्खासम्बोज्झङ्गट्ठानीयाति उपेक्खाय आरम्मणधम्मा, अत्थतो पन मज्झत्ताकारो उपेक्खाट्ठानीया धम्मोति वेदितब्बो. एवमेत्थ सतिधम्मविचयउपेक्खासम्बोज्झङ्गा आरम्मणेन कथिता, सेसा आरम्मणेनपि उपनिस्सयेनपि.