१. हिमवन्तसुत्तवण्णना

१८२. बोज्झङ्गसंयुत्तस्स पठमे नागाति इमेपि महासमुद्दपिट्ठे ऊमिअन्तरवासिनोव, न विमानट्ठकनागा. तेसं हिमवन्तं निस्साय कायवड्ढनादिसब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं. बोज्झङ्गेति एत्थ बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. किं वुत्तं होति? या हि अयं धम्मसामग्गी, याय लोकियलोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहन कामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा बोधीति वुच्चति. बुज्झतीति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति वुत्तं होति. यथाह ‘‘सत्त बोज्झङ्गे भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’ति (सं. नि. ५.३७८; दी. नि. ३.१४३). तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गाति बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको बोधीति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु अट्ठकथाचरिया – ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति वा बोज्झङ्गा’’ति.

अपिच ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति बोज्झङ्गा, बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा’’इच्चादिना (पटि. म. २.१७) पटिसम्भिदानयेनापि बोज्झङ्गत्थो वेदितब्बो.

सतिसम्बोज्झङ्गन्तिआदीसु पन पसत्थो सुन्दरो च बोज्झङ्गोति सम्बोज्झङ्गो. सतियेव सम्बोज्झङ्गोति सतिसम्बोज्झङ्गो, तं सतिसम्बोज्झङ्गन्ति एवं सब्बत्थ अत्थो वेदितब्बो. भावेतीति वड्ढेति, अत्तनो चित्तसन्ताने पुनप्पुनं जनेति, अभिनिब्बत्तेतीति अत्थो. विवेकनिस्सितन्तिआदीनि कोसलसंयुत्ते ‘‘सम्मादिट्ठिं भावेति विवेकनिस्सित’’न्ति एत्थ वुत्तनयेनेव वेदितब्बानि.

अयं पन विसेसो – तत्थ तदङ्गविवेकनिस्सितं, समुच्छेदविवेकनिस्सितं, निस्सरणविवेकनिस्सितन्ति, विवेकत्तयमेव वुत्तं, बोज्झङ्गभावनं पत्वा पन पञ्चविधविवेकनिस्सितम्पि एके वण्णयन्ति. ते हि न केवलं बलवविपस्सनामग्गफलक्खणेसु एव बोज्झङ्गे उद्धरन्ति विपस्सनापादक-कसिणज्झान-आनापानासुभ-ब्रह्मविहारज्झानेसुपि उद्धरन्ति, न च पटिसिद्धा अट्ठकथाचरियेहि. तस्मा तेसं मतेन एतेसं झानानं पवत्तिक्खणे किच्चतो एव विक्खम्भनविवेकनिस्सितं. यथा च विपस्सनाक्खणे ‘‘अज्झासयतो निस्सरणविवेकनिस्सित’’न्ति वुत्तं, एवं पटिपस्सद्धिविवेकनिस्सितम्पि भावेतीति वत्तुं वट्टति. सेसमेत्थ हेट्ठा वुत्तनयमेव.