१-२. पठममहानामसुत्तादिवण्णना
१०१७-१८. ततियस्स पठमे इद्धन्ति तेलमधुफाणितादीहि समिद्धं. फीतन्ति हत्थूपगसीसूपगगीवूपगादिअलङ्कारवसेन सुपुप्फितं. आकिण्णमनुस्सन्ति निरन्तरमनुस्सं. सम्बाधब्यूहन्ति ब्यूहा वुच्चन्ति अविनिब्बिद्धरच्छायो, या पविट्ठमग्गेनेव निग्गच्छन्ति, ता सम्बाधा ब्यूहा बहुका एत्थाति सम्बाधब्यूहं. इमिनापि नगरस्स घनवासमेव दीपेति. भन्तेनाति इतो चितो च परिब्भमन्तेन उद्धतचारिना. दुतियं उत्तानमेव.