३. गोधसक्कसुत्तवण्णना

१०१९. ततिये भगवाव एतं जानेय्य एतेहि धम्मेहि समन्नागतं वा असमन्नागतं वाति इदं सो सक्को तीहि धम्मेहि समन्नागतस्स पुग्गलस्स सोतापन्नभावं, चतूहि वा धम्मेहि समन्नागतस्स सोतापन्नभावं भगवाव जानातीति अधिप्पायेन आह.

कोचिदेव धम्मसमुप्पादो उप्पज्जेय्याति किञ्चिदेव कारणं उप्पज्जेय्य. एकतो अस्स भगवा, एकतो भिक्खुसङ्घोति यस्मिं कारणे उप्पन्ने भगवा भिक्खुसङ्घेन नानालद्धिको हुत्वा एकं वादं वदन्तो एकतो अस्स, भिक्खुसङ्घोपि एकं वदन्तो एकतोति अत्थो. तेनेवाहन्ति यं वादं तुम्हे वदेथ, तमेवाहं गण्हेय्यन्ति. ननु च अरियसावकस्स रतनत्तये पसादनानत्तं नत्थि, अथ कस्मा एस एवमाहाति? भगवतो सब्बञ्ञुताय. एवञ्हिस्स होति ‘‘भिक्खुसङ्घो अत्तनो असब्बञ्ञुताय अजानित्वापि कथेय्य, सत्थु पन अञ्ञाणं नाम नत्थी’’ति. तस्मा एवमाह. अञ्ञत्र कल्याणा अञ्ञत्र कुसलाति कल्याणमेव कुसलमेव वदामि, न कल्याणकुसलविमुत्तन्ति. अपिचस्स अनवज्जनदोसो एसोति.