९-१०. पञ्चकङ्गसुत्तादिवण्णना
२६७-२६८. नवमे पञ्चकङ्गो थपतीति पञ्चकङ्गोति तस्स नामं, वासिफरसुनिखादनदण्डमुग्गरकाळसुत्तनाळिसङ्खातेहि वा पञ्चहि अङ्गेहि समन्नागतत्ता सो पञ्चकङ्गोति पञ्ञातो. थपतीति वड्ढकीजेट्ठको. उदायीति पण्डितउदायित्थेरो. परियायन्ति कारणं. द्वेपानन्दाति द्वेपि, आनन्द, परियायेनाति कारणेन. एत्थ च कायिकचेतसिकवसेन द्वे वेदितब्बा, सुखादिवसेन तिस्सोपि, इन्द्रियवसेन सुखिन्द्रियादिका पञ्च, द्वारवसेन चक्खुसम्फस्सजादिका छ, उपविचारवसेन ‘‘चक्खुना रूपं दिस्वा सोमनस्सठानियं रूपं उपविचरती’’तिआदिका अट्ठारस, छ गेहसितानि सोमनस्सानि, छ नेक्खम्मसितानि, छ गेहसितानि दोमनस्सानि, छ नेक्खम्मसितानि, छ गेहसिता उपेक्खा, छ नेक्खम्मसिताति एवं छत्तिंस. ता अतीते छत्तिंस, अनागते छत्तिंस, पच्चुप्पन्ने छत्तिंसाति एवं अट्ठसतं वेदना वेदितब्बा.
पञ्चिमे आनन्द कामगुणाति अयं पाटियेक्को अनुसन्धि. न केवलञ्हि द्वे आदिं कत्वा वेदना भगवता पञ्ञत्ता, परियायेन एकापि वेदना कथिता, तं दस्सेन्तो पञ्चकङ्गस्स थपतिनो वादं उपत्थम्भेतुं इमं देसनं आरभि. अभिक्कन्ततरन्ति सुन्दरतरं. पणीततरन्ति अतप्पकतरं. एत्थ च चतुत्थज्झानतो पट्ठाय अदुक्खमसुखा वेदना, सापि सन्तट्ठेन पणीतट्ठेन च सुखन्ति वुत्ता. निरोधो अवेदयितसुखवसेन सुखं नाम जातो. पञ्चकामगुणवसेन हि अट्ठसमापत्तिवसेन च उप्पन्नं वेदयितं सुखं नाम, निरोधो अवेदयितसुखं नाम. इति वेदयितसुखं वा होतु अवेदयितसुखं वा, निद्दुक्खभावसङ्खातेन सुखट्ठेन एकन्तसुखमेव जातं.
यत्थ यत्थाति यस्मिं यस्मिं ठाने. सुखं उपलब्भतीति वेदयितं सुखं वा अवेदयितं सुखं वा उपलब्भति. तं तं तथागतो सुखस्मिं पञ्ञपेति, तं सब्बं तथागतो निद्दुक्खभावं सुखस्मिंयेव पञ्ञपेतीति इध भगवा निरोधसमापत्तिं सीसं कत्वा नेय्यपुग्गलस्स वसेन अरहत्तनिकूटेनेव देसनं निट्ठापेसि. दसमं उत्तानत्थमेवाति.
रहोगतवग्गो दुतियो.