३. अट्ठसतपरियायवग्गो

१. सीवकसुत्तवण्णना

२६९. ततियवग्गस्स पठमे मोळियसीवकोति सीवकोति तस्स नामं. चूळा पनस्स अत्थि, तस्मा मोळियसीवकोति वुच्चति. परिब्बाजकोति छन्नपरिब्बाजको. पित्तसमुट्ठानानीति पित्तपच्चयानि. वेदयितानीति वेदना. तत्थ पित्तपच्चया तिस्सो वेदना उप्पज्जन्ति. कथं? एकच्चो हि ‘‘पित्तं मे कुपितं दुज्जानं खो पन जीवित’’न्ति दानं देति, सीलं समादियति उपोसथकम्मं करोति, एवमस्स कुसलवेदना उप्पज्जति. एकच्चो ‘‘पित्तभेसज्जं करिस्सामी’’ति पाणं हनति, अदिन्नं आदियति, मुसा भणति, दस दुस्सील्यकम्मानि करोति, एवमस्स अकुसलवेदना उप्पज्जति. एकच्चो ‘‘एत्तकेनपि मे भेसज्जकरणेन पित्तं न वूपसम्मति, अलं यं होति. तं होतू’’ति मज्झत्तो कायिकवेदनं अधिवासेन्तो निपज्जति, एवं अस्स अब्याकतवेदना उप्पज्जति.

सामम्पि खो एतन्ति तं तं पित्तविकारं दिस्वा अत्तनापि एतं वेदितब्बं. सच्चसम्मतन्ति भूतसम्मतं. लोकोपि हिस्स सरीरे सबलवण्णतादिपित्तविकारं दिस्वा ‘‘पित्तमस्स कुपित’’न्ति जानाति. तस्माति यस्मा सामञ्च विदितं लोकस्स च सच्चसम्मतं अतिधावन्ति, तस्मा. सेम्हसमुट्ठानादीसुपि एसेव नयो. एत्थ पन सन्निपातिकानीति तिण्णम्पि पित्तादीनं कोपेन समुट्ठितानि. उतुपरिणामजानीति विसभागउतुतो जातानि. जङ्गलदेसवासीनञ्हि अनुपदेसे वसन्तानं विसभागो उतु उप्पज्जति, अनुपदेसवासीनञ्च जङ्गलदेसेति एवं मलयसमुद्दतीरादिवसेनापि उतुविसभागता उप्पज्जतियेव. ततो जाताति उतुपरिणामजातानि नाम.

विसमपरिहारजानीति महाभारवहनसुधाकोट्टनादितो वा अवेलाय चरन्तस्स सप्पडंसकूपपातादितो वा विसमपरिहारतो जातानि. ओपक्कमिकानीति ‘‘अयं चोरो वा पारदारिको वा’’ति गहेत्वा जण्णुककप्परमुग्गरादीहि निप्पोथनउपक्कमं पच्चयं कत्वा उप्पन्नानि. एतं बहि उपक्कमं लभित्वा कोचि वुत्तनयेनेव कुसलं करोति, कोचि अकुसलं, कोचि अधिवासेन्तो निपज्जति. कम्मविपाकजानीति केवलं कम्मविपाकतो, जातानि. तेसुपि हि उप्पन्नेसु वुत्तनयेनेव कोचि कुसलं करोति, कोचि अकुसलं, कोचि अधिवासेन्तो निपज्जति. एवं सब्बवारेसु तिविधाव वेदना होन्ति.

तत्थ पुरिमेहि सत्तहि कारणेहि उप्पन्ना सारीरिका वेदना सक्का पटिबाहितुं, कम्मविपाकजानं पन सब्बभेसज्जानिपि सब्बपरित्तानिपि नालं पटिघाताय. इमस्मिं सुत्ते लोकवोहारो नाम कथितोति.

२-१०. अट्ठसतसुत्तादिवण्णना

२७०-२७८. दुतिये अट्ठसतपरियायन्ति अट्ठसतस्स कारणभूतं. धम्मपरियायन्ति धम्मकारणं. कायिका च चेतसिका चाति एत्थ कायिका कामावचरेयेव लब्भन्ति, चेतसिका चतुभूमिकापि. सुखातिआदीसु सुखा वेदना अरूपावचरे नत्थि, सेसासु तीसु भूमीसु लब्भन्ति, दुक्खा कामावचराव, इतरा चतुभूमिका. पञ्चके सुखिन्द्रियदुक्खिन्द्रियदोमनस्सिन्द्रियानि कामावचरानेव, सोमनस्सिन्द्रियं तेभूमकं, उपेक्खिन्द्रियं चतुभूमकं. छक्के पञ्चसु द्वारेसु वेदना कामावचराव, मनोद्वारे चतुभूमिका, अट्ठारसके छसु इट्ठारम्मणेसु सोमनस्सेन सह उपविचरन्तीति सोमनस्सूपविचारा. सेसद्वयेपि एसेव नयो. इति अयं देसना विचारवसेन आगता, तंसम्पयुत्तानं पन सोमनस्सादीनं वसेन इध अट्ठारस वेदना वेदितब्बा.

छ गेहसितानि सोमनस्सानीतिआदीसु ‘‘चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं पटिलाभं वा पटिलाभतो समनुपस्सतो पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति सोमनस्सं. यं एवरूपं सोमनस्सं, इदं वुच्चति गेहसितं सोमनस्स’’न्ति (म. नि. ३.३०६). एवं छसु द्वारेसु वुत्तकामगुणनिस्सितानि सोमनस्सानि छ गेहसितसोमनस्सानि नाम.

‘‘रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं ‘पुब्बे चेव रूपा एतरहि च, सब्बे ते रूपा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति सोमनस्सं. यं एवरूपं सोमनस्सं, इदं वुच्चति नेक्खम्मसितं सोमनस्स’’न्ति (म. नि. ३.३०६) एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अनिच्चतादिवसेन विपस्सनं पट्ठपेत्वा उस्सुक्कापेतुं सक्कोन्तस्स ‘‘उस्सुक्किता मे विपस्सना’’ति सोमनस्सजातस्स उप्पन्नसोमनस्सानि छ नेक्खम्मसितसोमनस्सानि नाम.

‘‘चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं अप्पटिलाभं वा अप्पटिलाभतो समनुपस्सतो पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति दोमनस्सं. यं एवरूपं दोमनस्सं, इदं वुच्चति गेहसितं दोमनस्स’’न्ति. एवं छसु द्वारेसु ‘‘इट्ठारम्मणं नानुभविस्सामि नानुभवामी’’ति वितक्कयतो उप्पन्नानि कामगुणनिस्सितदोमनस्सानि छ गेहसितदोमनस्सानि नाम.

‘‘रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं ‘पुब्बे चेव रूपा एतरहि च, सब्बे ते रूपा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापेति ‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामि, यदरिया एतरहि आयतनं उपसम्पज्ज विहरन्ती’’ति. इति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्जति पिहपच्चया दोमनस्सं. यं एवरूपं दोमनस्सं, इदं वुच्चति नेक्खम्मसितं दोमनस्सन्ति; एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते अनुत्तरविमोक्खसङ्खातअरियफलधम्मेसु पिहं उपट्ठापेत्वा तदधिगमाय अनिच्चतादिवसेन विपस्सनं पट्ठपेत्वा उस्सुक्कापेतुं असक्कोन्तस्स ‘‘इमम्पि पक्खं इमम्पि मासं इमम्पि संवच्छरं विपस्सनं उस्सुक्कापेत्वा अरियभूमिं पापुणितुं नासक्खि’’न्ति अनुसोचतो उप्पन्नानि दोमनस्सानि छ नेक्खम्मसितदोमनस्सानि नाम.

‘‘चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्स अनोधिजिनस्स अविपाकजिनस्स अनादीनवदस्साविनो अस्सुतवतो पुथुज्जनस्स. या एवरूपा उपेक्खा, रूपं सा नातिवत्तति, तस्मा सा उपेक्खा गेहसिताति वुच्चती’’ति; एवं छसु द्वारेसु इट्ठारम्मणे आपाथगते गुळपिण्डके निलीनमक्खिका विय रूपादीनि अनतिवत्तमाना तत्थेव लग्गा लग्गिता हुत्वा उप्पन्नकामगुणनिस्सिता उपेक्खा छ गेहसितउपेक्खा नाम.

‘‘रूपानं त्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं पुब्बे चेव रूपा एतरहि च, ‘सब्बे ते रूपा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति उपेक्खा. या एवरूपा उपेक्खा, रूपं सा अतिवत्तति, तस्मा सा उपेक्खा नेक्खम्मसिताति वुच्चती’’ति; एवं छसु द्वारेसु इट्ठादिआरम्मणे आपाथगते इट्ठे अरज्जन्तस्स अनिट्ठे अदुस्सन्तस्स असमपेक्खने अमुय्हन्तस्स उप्पन्ना विपस्सनाञाणसम्पयुत्ता उपेक्खा नेक्खम्मसितउपेक्खा नाम. इमस्मिं सुत्ते सब्बसङ्गाहको चतुभूमकधम्मपरिच्छेदो कथितो. ततियादीनि उत्तानत्थानेव.

११. निरामिससुत्तवण्णना

२७९. एकादसमे सामिसाति किलेसामिसेन सामिसा. निरामिसतराति निरामिसायपि झानपीतिया निरामिसतराव. ननु च द्वीसु झानेसु पीति महग्गतापि होति लोकुत्तरापि, पच्चवेक्खणपीति लोकियाव, सा कस्मा निरामिसतरा जाताति? सन्तपणीतधम्मपच्चवेक्खणवसेन उप्पन्नत्ता. यथा हि राजवल्लभो चूळुपट्ठाको अप्पटिहारिकं यथासुखं राजकुलं पविसन्तो सेट्ठिसेनापतिआदयो पादेन पहरन्तोपि न गणेति. कस्मा? रञ्ञो आसन्नपरिचारकत्ता. इति सो तेहि उत्तरितरो होति, एवमयम्पि सन्तपणीतधम्मपच्चवेक्खणवसेन उप्पन्नत्ता लोकुत्तरपीतितोपि उत्तरितराति वेदितब्बा. सेसवारेसुपि एसेव नयो.

विमोक्खवारे पन रूपपटिसंयुत्तो विमोक्खो अत्तनो आरम्मणभूतेन रूपामिसवसेनेव सामिसो नाम, अरूपपटिसंयुत्तो रूपामिसाभावेन निरामिसो नामाति.

वेदनासंयुत्तवण्णना निट्ठिता.