९. पठमछफस्सायतनसुत्तवण्णना
७१. नवमे फस्सायतनानन्ति फस्साकरानं. अवुसितन्ति अवुट्ठं. आरकाति दूरे. एत्थाहं, भन्ते, अनस्ससन्ति, भन्ते, अहं एत्थ अनस्ससिं, नट्ठो नाम अहन्ति वदति. भगवा – ‘‘अयं भिक्खु ‘अहं नाम इमस्मिं सासने नट्ठो’ति वदति, किन्नु ख्वस्स अञ्ञेसु धातुकम्मट्ठान-कसिणकम्मट्ठानादीसु अभियोगो अत्थी’’ति चिन्तेत्वा, तम्पि अपस्सन्तो – ‘‘कतरं नु खो कम्मट्ठानं इमस्स सप्पायं भविस्सती’’ति चिन्तेसि. ततो ‘‘आयतनकम्मट्ठानमेव सप्पाय’’न्ति दिस्वा तं कथेन्तो तं किं मञ्ञसि भिक्खूतिआदिमाह. साधूति तस्स ब्याकरणे सम्पहंसनं. एसेवन्तो दुक्खस्साति अयमेव वट्टदुक्खस्सन्तो परिच्छेदो, निब्बानन्ति अत्थो.