४. पठमदारुक्खन्धोपमसुत्तवण्णना

२४१. चतुत्थे अद्दसाति गङ्गातीरे पञ्ञत्तवरबुद्धासने निसिन्नो अद्दस. वुय्हमानन्ति चतुरस्सं तच्छेत्वा पब्बतन्तरे ठपितं वातातपेन सुपरिसुक्खं पावुस्सके मेघे वस्सन्ते उदकेन उप्लवित्वा अनुपुब्बेन गङ्गाय नदिया सोते पतितं तेन सोतेन वुय्हमानं. भिक्खू आमन्तेसीति ‘‘इमिना दारुक्खन्धेन सदिसं कत्वा मम सासने सद्धापब्बजितं कुलपुत्तं दस्सेस्सामी’’ति धम्मं देसेतुकामताय आमन्तेसि. अमुं महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमानन्ति इदं पन अट्ठदोसविमुत्तत्ता सोतपटिपन्नस्स दारुक्खन्धस्स अपरे समुद्दपत्तिया अन्तरायकरे अट्ठ दोसे दस्सेतुं आरभि.

तत्रस्स एवं अट्ठदोसविमुत्तता वेदितब्बा – एको हि गङ्गाय नदिया अविदूरे पब्बततले जातो नानावल्लीहि पलिवेठितो पण्डुपलासतं आपज्जित्वा उपचिकादीहि खज्जमानो तस्मिंयेव ठाने अपण्णत्तिकभावं गच्छति, अयं दारुक्खन्धो गङ्गं ओतरित्वा वङ्कट्ठानेसु विलासमानो सागरं पत्वा मणिवण्णे ऊमिपिट्ठे सोभितुं न लभति.

अपरो गङ्गातीरे बहिमूलो अन्तोसाखो हुत्वा जातो, अयं किञ्चापि कालेन कालं ओलम्बिनीहि साखाहि उदकं फुसति, बहिमूलत्ता पन गङ्गं ओतरित्वा वङ्कट्ठानेसु विलासमानो सागरं पत्वा मणिवण्णे ऊमिपिट्ठे सोभितुं न लभति.

अपरो मज्झे गङ्गाय जातो, दळ्हमूलेन पन सुप्पतिट्ठितो, बहि चस्स गता वङ्कसाखा नानावल्लीहि आबद्धा, अयम्पि दळ्हमूलत्ता बहिद्धा वल्लीहि आबद्धत्ता च गङ्गं ओतरित्वा…पे… सोभितुं न लभति.

अपरो पतितट्ठानेयेव वालिकाय ओत्थटो पूतिभावं आपज्जति, अयम्पि गङ्गं ओतरित्वा…पे… न लभति.

अपरो द्विन्नं पासाणानं अन्तरे जातत्ता, सुनिखातो विय निच्चलो ठितो, आगतागतं उदकं द्विधा फालेति, अयं पासाणन्तरे सुट्ठु पतिट्ठितत्ता गङ्गं ओतरित्वा…पे… न लभति.

अपरो अब्भोकासट्ठाने नभं पूरेत्वा वल्लीहि आबद्धो ठितो. एकं द्वे संवच्छरे अतिक्कमित्वा आगते महोघे सकिं वा द्विक्खत्तुं वा तेमेति, अयम्पि नभं पूरेत्वा ठितताय चेव एकस्स वा द्विन्नं वा संवच्छरानं अच्चयेन सकिं वा द्विक्खत्तुं वा तेमनताय च गङ्गं ओतरित्वा…पे… न लभति.

अपरोपि मज्झे गङ्गाय दीपके जातो मुदुक्खन्धसाखो ओघे आगते अनुसोतं निपज्जित्वा, उदके गते सीसं उक्खिपित्वा, नच्चन्तो विय तिट्ठति. यस्सत्थाय सागरो गङ्गं एवं विय वदति, ‘‘भोति गङ्गे त्वं मय्हं चन्दनसारसलळसारादीनि नानादारूनि आहरसि, दारुक्खन्धं पन नाहरसी’’ति. सुलभो एस, देव, पुनवारे जानिस्सामीति. पुनवारे तम्बवण्णेन उदकेन आलिङ्गमाना विय आगच्छति. सोपि तथेव अनुसोतं निपज्जित्वा, उदके गते सीसं उक्खिपित्वा, नच्चन्तो विय तिट्ठति. अयं अत्तनो मुदुताय गङ्गं ओतरित्वा…पे… न लभति.

अपरो गङ्गाय नदिया तिरियं पतितो वालिकाय ओत्थरितो अन्तरसेतु विय बहूनं पच्चयो जातो, उभोसु तीरेसु वेळुनळकरञ्जककुधादयो उप्लवित्वा तत्थेव लग्गन्ति. तथा नानाविधा गच्छा वुय्हमाना भिन्नमुसलभिन्नसुप्पअहिकुक्कुरहत्थिअस्सादिकुणपानिपि तत्थेव लग्गन्ति. महागङ्गापि नं आसज्ज भिज्जित्वा द्विधा गच्छति, मच्छकच्छपकुम्भीलमकरादयोपि तत्थेव वासं कप्पेन्ति. अयम्पि तिरियं पतित्वा महाजनस्स पच्चयत्तकतभावेन गङ्गं ओतरित्वा वङ्कट्ठानेसु विलासमानो सागरं पत्वा मणिवण्णे ऊमिपिट्ठे सोभितुं न लभति.

इति भगवा इमेहि अट्ठहि दोसेहि विमुत्तत्ता सोतपटिपन्नस्स दारुक्खन्धस्स अपरे समुद्दपत्तिया अन्तरायकरे अट्ठ दोसे दस्सेतुं अमुं महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमानन्तिआदिमाह. तत्थ न थले उस्सीदिस्सतीति थलं नाभिरुहिस्सति. न मनुस्सग्गाहो गहेस्सतीति ‘‘महा वतायं दारुक्खन्धो’’ति दिस्वा, उळुम्पेन तरमाना गन्त्वा, गोपानसीआदीनं अत्थाय मनुस्सा न गण्हिस्सन्ति. न अमनुस्सग्गाहो गहेस्सतीति ‘‘महग्घो अयं चन्दनसारो, विमानद्वारे नं ठपेस्सामा’’ति मञ्ञमाना न अमनुस्सा गण्हिस्सन्ति.

एवमेव खोति एत्थ सद्धिं बाहिरेहि अट्ठहि दोसेहि एवं ओपम्मसंसन्दनं वेदितब्बं – गङ्गाय अविदूरे पब्बततले जातो तत्थेव उपचिकादीहि खज्जमानो अपण्णत्तिकभावं गतदारुक्खन्धो विय हि ‘‘नत्थि दिन्न’’न्तिआदिकाय मिच्छादिट्ठिया समन्नागतो पुग्गलो वेदितब्बो. अयञ्हि सासनस्स दूरीभूतत्ता अरियमग्गं ओरुय्ह समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.

गङ्गातीरे बहिमूलो अन्तोसाखो हुत्वा जातो विय अच्छिन्नगिहिबन्धनो समणकुटिम्बिकपुग्गलो दट्ठब्बो. अयञ्हि ‘‘चित्तं नामेतं अनिबद्धं, ‘समणोम्ही’ति वदन्तोव गिही होति, ‘गिहीम्ही’ति वदन्तोव समणो होति. को जानिस्सति, किं भविस्सती’’ति? महल्लककाले पब्बजन्तोपि गिहिबन्धनं न विस्सज्जेति. महल्लकपब्बजितानञ्च सम्पत्ति नाम नत्थि. तस्स सचे चीवरं पापुणाति, अन्तच्छिन्नकं वा जिण्णदुब्बण्णं वा पापुणाति. सेनासनम्पि विहारपच्चन्ते पण्णसाला वा मण्डपो वा पापुणाति. पिण्डाय चरन्तेनापि पुत्तनत्तकानं दारकानं पच्छतो चरितब्बं होति, परियन्ते निसीदितब्बं होति. तेन सो दुक्खी दुम्मनो अस्सूनि मुञ्चन्तो, ‘‘अत्थि मे कुलसन्तकं धनं, कप्पति नु खो तं खादन्तेन जीवितु’’न्ति चिन्तेत्वा एकं विनयधरं पुच्छति – ‘‘किं, भन्ते आचरिय, अत्तनो सन्तकं विचारेत्वा खादितुं कप्पति, नो कप्पती’’ति? ‘‘नत्थेत्थ दोसो, कप्पतेत’’न्ति. सो अत्तनो भजमानके कतिपये दुब्बचे दुराचारे भिक्खू गहेत्वा, सायन्हसमये अन्तोगामं गन्त्वा, गाममज्झे ठितो गामिके पक्कोसापेत्वा, ‘‘अम्हाकं पयोगतो उट्ठितं आयं कस्स देथा’’ति आह. भन्ते, तुम्हे पब्बजिता, मयं कस्स दस्सामाति? किं पब्बजितानं अत्तनो सन्तकं न वट्टतीति? कुद्दाल-पिटकं गहेत्वा, खेत्तमरियादबन्धनादीनि करोन्तो नानाप्पकारं पुब्बण्णापरण्णञ्चेव फलाफले च सङ्गण्हित्वा, हेमन्तगिम्हवस्सानेसु यं यं इच्छति, तं तं पचापेत्वा खादन्तो समणकुटुम्बिको हुत्वा जीवति. केवलमस्स पञ्चचूळकेन दारकेन सद्धिं पादपरिचारिकाव एका नत्थि. अयं पुग्गलो किञ्चापि ओलम्बिनीहि साखाहि उदकं फुसमानो अन्तोसाखो रुक्खो विय चेतियङ्गणबोधियङ्गणादीसु भिक्खूनं कायसामग्गिं देति, गिहिबन्धनस्स पन अच्छिन्नताय बहिमूलत्ता अरियमग्गं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.

गङ्गाय मज्झे जातो बहिद्धा वल्लीहि आबद्धवङ्कसाखा विय सङ्घसन्तकं निस्साय जीवमानो भिन्नाजीवपुग्गलो दट्ठब्बो. एकच्चो गिहिबन्धनं पहाय पब्बजन्तोपि सारुप्पट्ठाने पब्बज्जं न लभति. पब्बज्जा हि नामेसा पटिसन्धिग्गहणसदिसा. यथा मनुस्सा यत्थ पटिसन्धिं गण्हन्ति, तेसंयेव कुलानं आचारं सिक्खन्ति, एवं भिक्खूपि येसं सन्तिके पब्बजन्ति, तेसंयेव आचारं गण्हन्ति. तस्मा एकच्चो असारुप्पट्ठाने पब्बजित्वा ओवादानुसासनीउद्देसपरिपुच्छादीहि परिबाहिरो हुत्वा पातोव मुण्डघटं गहेत्वा उदकतित्थं गच्छति, आचरियुपज्झायानं भत्तत्थाय खन्धे पत्तं कत्वा भत्तसालं गच्छति, दुब्बचसामणेरेहि सद्धिं नानाकीळं कीळति, आरामिकदारकेहि संसट्ठो विहरति.

सो दहरभिक्खुकाले अत्तनो अनुरूपेहि दहरभिक्खूहि चेव आरामिकेहि च सद्धिं सङ्घभोगं गन्त्वा, ‘‘अयं खीणासवेहि असुकरञ्ञो सन्तिका पटिग्गहितसङ्घभोगो, तुम्हे सङ्घस्स इदञ्चिदञ्च न देथ, न हि तुम्हाकं पवत्तिं सुत्वा राजा वा राजमहामत्ता वा अत्तमना भविस्सन्ति, एथ दानि इदञ्चिदञ्च करोथा’’ति कुद्दाल-पिटकानि गाहापेत्वा हेट्ठा तळाकमातिकासु कत्तब्बकिच्चानि कारापेत्वा बहुं पुब्बण्णापरण्णं विहारं पवेसेत्वा आरामिकेहि अत्तनो उपकारभावं सङ्घस्स आरोचापेति. सङ्घो ‘‘अयं दहरो बहूपकारो, इमस्स सतं वा द्विसतं वा देथा’’ति दापेति. इति सो इतो चितो च सङ्घसन्तकेनेव वड्ढन्तो बहिद्धा एकवीसतिविधाहि अनेसनाहि बद्धो अरियमग्गं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.

पतितट्ठानेयेव वालिकाय ओत्थरित्वा पूतिभावं आपादितरुक्खो विय आलसियमहग्घसो वेदितब्बो. एवरूपञ्हि पुग्गलं आमिसचक्खुं पच्चयलोलं विस्सट्ठआचरियुपज्झायवत्तं उद्देसपरिपुच्छायोनिसोमनसिकारवज्जितं सन्धाय पञ्च नीवरणानि अत्थतो एवं वदन्ति – ‘‘भो, कस्स सन्तिकं गच्छामा’’ति? अथ थिनमिद्धं उट्ठाय एवमाह – ‘‘किं न पस्सथ? एसो असुकविहारवासी कुसीतपुग्गलो असुकं नाम गामं गन्त्वा यागुमत्थके यागुं, पूवमत्थके पूवं, भत्तमत्थके भत्तं अज्झोहरित्वा विहारं आगम्म विस्सट्ठसब्बवत्तो उद्देसादिविरहितो मञ्चं उपगच्छन्तो मय्हं ओकासं करोती’’ति.

ततो कामच्छन्दनीवरणं उट्ठायाह – ‘‘भो, तव ओकासे कते मय्हं कतोव होति, इदानेव सो निद्दायित्वा किलेसानुरञ्जितोव पबुज्झित्वा कामवितक्कं वितक्केस्सती’’ति. ततो ब्यापादनीवरणं उट्ठायाह – ‘‘तुम्हाकं ओकासे कते मय्हं कतोव होति. इदानेव निद्दायित्वा वुट्ठितो ‘वत्तपटिवत्तं करोही’ति वुच्चमानो, ‘भो, इमे अत्तनो कम्मं अकत्वा अम्हेसु ब्यावटा’ति नानप्पकारं फरुसवचनं वदन्तो अक्खीनि नीहरित्वा विचरिस्सती’’ति. ततो उद्धच्चनीवरणं उट्ठायाह – ‘‘तुम्हाकं ओकासे कते मय्हं कतोव होति, कुसीतो नाम वाताहतो अग्गिक्खन्धो विय उद्धतो होती’’ति. अथ कुकुच्चनीवरणं उट्ठायाह – ‘‘तुम्हाकं ओकासे कते मय्हं कतोव होति, कुसीतो नाम कुक्कुच्चपकतोव होति, अकप्पिये कप्पियसञ्ञं कप्पिये च अकप्पियसञ्ञं उप्पादेती’’ति. अथ विचिकिच्छानीवरणं उट्ठायाह – ‘‘तुम्हाकं ओकासे कते मय्हं कतोव होति. एवरूपो हि अट्ठसु ठानेसु महाविचिकिच्छं उप्पादेसी’’ति. एवं आलसियमहग्घसं पञ्च नीवरणानि चण्डसुनखादयो विय सिङ्गच्छिन्नं जरग्गवं अज्झोत्थरित्वा गण्हन्ति. सोपि अरियमग्गसोतं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.

द्विन्नं पासाणानं अन्तरे निखातमूलाकारेन ठितरुक्खो विय दिट्ठिं उप्पादेत्वा ठितो दिट्ठिगतिको वेदितब्बो. सो हि ‘‘अरूपभवे रूपं अत्थि, असञ्ञीभवे चित्तं पवत्तति, बहुचित्तक्खणिको लोकुत्तरमग्गो, अनुसयो चित्तविप्पयुत्तो, ते च सत्ता सन्धावन्ति संसरन्ती’’ति वदन्तो अरिट्ठो विय कण्टकसामणेरो विय च विचरति. पिसुणवाचो पन होति, उपज्झायादयो सद्धिविहारिकादीहि भिन्दन्तो विचरति. सोपि अरियमग्गसोतं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.

अब्भोकासे नभं पूरेत्वा वल्लीहि आबद्धो ठितो एकं द्वे संवच्छरे अतिक्कमित्वा आगते महोघे सकिं वा द्विक्खत्तुं वा तेमनरुक्खो विय महल्लककाले पब्बजित्वा पच्चन्ते वसमानो दुल्लभसङ्घदस्सनो चेव दुल्लभधम्मस्सवनो च पुग्गलो वेदितब्बो. एकच्चो हि वुड्ढकाले पब्बजितो कतिपाहेन उपसम्पदं लभित्वा पञ्चवस्सकाले पातिमोक्खं पगुणं कत्वा दसवस्सकाले विनयधरत्थेरस्स सन्तिके विनयकथाकाले मरिचं वा हरीतकखण्डं वा मुखे ठपेत्वा बीजनेन मुखं पिधाय निद्दायन्तो निसीदित्वा लेसकप्पेन कतविनयो नाम हुत्वा पत्तचीवरं आदाय पच्चन्तं गच्छति. तत्र नं मनुस्सा सक्करित्वा भिक्खुदस्सनस्स दुल्लभताय ‘‘इधेव, भन्ते, वसथा’’ति विहारं कारेत्वा पुप्फूपगफलूपगरुक्खे रोपेत्वा तत्थ वासेन्ति.

अथ महाविहारसदिसविहारा बहुस्सुता भिक्खू, ‘‘जनपदे चीवररजनादीनि कत्वा आगमिस्सामा’’ति तत्थ गच्छन्ति. सो ते दिस्वा, हट्ठतुट्ठो वत्तपटिवत्तं कत्वा, पुनदिवसे आदाय भिक्खाचारगामं पविसित्वा, ‘‘असुको थेरो सुत्तन्तिको, असुको अभिधम्मिको, असुको विनयधरो, असुको तेपिटको, एवरूपे थेरे कदा लभिस्सथ, धम्मसवनं कारेथा’’ति वदति. उपासका ‘‘धम्मस्सवनं कारेस्सामा’’ति विहारमग्गं सोधेत्वा, सप्पितेलादीनि आदाय, महाथेरं उपसङ्कमित्वा, ‘‘भन्ते, धम्मस्सवनं कारेस्साम, धम्मकथिकानं विचारेथा’’ति वत्वा पुनदिवसे आगन्त्वा धम्मं सुणन्ति.

नेवासिकत्थेरो आगन्तुकानं पत्तचीवरानि पटिसामेन्तो अन्तोगब्भेयेव दिवसभागं वीतिनामेति. दिवाकथिको उट्ठितो सरभाणको घटेन उदकं वमेन्तो विय सरभाणं भणित्वा उट्ठितो, तम्पि सो न जानाति. रत्तिकथिको सागरं खोभेन्तो विय रत्तिं कथेत्वा उट्ठितो, तम्पि सो न जानाति. पच्चूसकथिको कथेत्वा उट्ठासि, तम्पि सो न जानाति. पातोव पन उट्ठाय मुखं धोवित्वा, थेरानं पत्तचीवरानि उपनामेत्वा, भिक्खाचारं उपगच्छन्तो महाथेरं आह – ‘‘भन्ते, दिवाकथिको कतरं जातकं नाम कथेसि, सरभाणको कतरं सुत्तं नाम भणि, रत्तिकथिको कतरं धम्मकथं नाम कथेसि, पच्चूसकथिको कतरं जातकं नाम कथेसि, खन्धा नाम कति, धातुयो नाम कति, आयतना नाम कती’’ति. एवरूपो एकं द्वे संवच्छरानि अतिक्कमित्वा भिक्खुदस्सनञ्चेव धम्मस्सवनञ्च लभन्तोपि ओघे आगते उदकेन सकिं वा द्विक्खत्तुं वा तेमितरुक्खसदिसो होति. सो एवं सङ्घदस्सनतो च धम्मस्सवनतो च पटिक्कम्म दूरे वसन्तो अरियमग्गं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.

मज्झे गङ्गाय दीपके जातो मुदुरुक्खो विय मधुरस्सरभाणकपुग्गलो वेदितब्बो. सो हि अभिञ्ञातानि अभिञ्ञातानि वेस्सन्तरादीनि जातकानि उग्गण्हित्वा, दुल्लभभिक्खुदस्सनं पच्चन्तं गन्त्वा, तत्थ धम्मकथाय पसादितहदयेन जनेन उपट्ठियमानो अत्तानं उद्दिस्स कते सम्पन्नपुप्फफलरुक्खे नन्दनवनाभिरामे विहारे वसति. अथस्स भारहारभिक्खू तं पवत्तिं सुत्वा, ‘‘असुको किर एवं उपट्ठाकेसु पटिबद्धचित्तो विहरति. पण्डितो भिक्खु पटिबलो बुद्धवचनं वा उग्गण्हितुं, कम्मट्ठानं वा मनसिकातुं, आनेत्वा तेन सद्धिं असुकत्थेरस्स सन्तिके धम्मं उग्गण्हिस्साम, असुकत्थेरस्स सन्तिके कम्मट्ठान’’न्ति तत्थ गच्छन्ति.

सो तेसं वत्तं कत्वा सायन्हसमयं विहारचारिकं निक्खन्तेहि तेहि ‘‘इमं, आवुसो, चेतियं तया कारित’’न्ति पुट्ठो, ‘‘आम, भन्ते’’ति वदति. ‘‘अयं बोधि, अयं मण्डपो, इदं उपोसथागारं, एसा अग्गिसाला, अयं चङ्कमो तया कारितो. इमे रुक्खे रोपापेत्वा तया नन्दनवनाभिरामो विहारो कारितो’’ति. ‘‘आम, भन्ते’’ति, वदति.

सो सायं थेरुपट्ठानं गन्त्वा वन्दित्वा पुच्छति – ‘‘कस्मा, भन्ते, आगतत्था’’ति? ‘‘आवुसो, तं आदाय गन्त्वा, असुकत्थेरस्स सन्तिके धम्मं उग्गण्हित्वा, असुकत्थेरस्स सन्तिके कम्मट्ठानं, असुकस्मिं नाम अरञ्ञे समग्गा समणधम्मं करिस्सामाति इमिना कारणेन आगतम्हा’’ति. साधु, भन्ते, तुम्हे नाम मय्हं अत्थाय आगता, अहम्पि चिरनिवासेन इध उक्कण्ठितो गच्छामि, पत्तचीवरं गण्हामि, भन्तेति. आवुसो, सामणेरदहरा मग्गकिलन्ता, अज्ज वसित्वा स्वे पच्छाभत्तं गमिस्सामाति. साधु, भन्तेति पुनदिवसे तेहि सद्धिं पिण्डाय पविसति. गामवासिनो ‘‘अम्हाकं अय्यो बहू आगन्तुके भिक्खू गहेत्वा आगतो’’ति आसनानि पञ्ञापेत्वा यागुं पायेत्वा सुखनिसिन्नकथं सुत्वा भत्तं अदंसु. थेरा ‘‘त्वं, आवुसो, अनुमोदनं कत्वा निक्खम, मयं उदकफासुकट्ठाने भत्तकिच्चं करिस्सामा’’ति निक्खन्ता.

गामवासिनो अनुमोदनं सुत्वा पुच्छिंसु, ‘‘कुतो, भन्ते, थेरा आगता’’ति? एते अम्हाकं आचरियुपज्झाया समानुपज्झाया सन्दिट्ठा सम्भत्ताति. कस्मा आगताति? मं गहेत्वा गन्तुकामतायाति. तुम्हे पन गन्तुकामाति? आमावुसोति. किं वदेथ, भन्ते, अम्हेहि कस्स उपोसथागारं कारितं, कस्स भोजनसाला, कस्स अग्गिसालादयो कारिता, मयं मङ्गलामङ्गलेसु कस्स सन्तिकं गमिस्सामाति? महाउपासिकायोपि तत्थेव निसीदित्वा अस्सूनि पवत्तयिंसु. दहरो ‘‘तुम्हेसु एवं दुक्खितेसु अहं गन्त्वा किं करिस्सामि? थेरे उय्योजेस्सामी’’ति विहारं गतो.

थेरापि कतभत्तकिच्चा पत्तचीवरानि गहेत्वा निसिन्ना तं दिस्वाव, ‘‘किं, आवुसो, चिरायसि, दिवा होति, गच्छामा’’ति आहंसु. आम, भन्ते, तुम्हे सुखिता, असुकगेहस्स इट्ठकामूलं ठितसण्ठानेनेव ठितं, असुकगेहादीनं चित्तकम्ममूलादीनि अत्थि, गतस्सापि मे चित्तविक्खेपो भविस्सति, तुम्हे पुरतो गन्त्वा असुकविहारे चीवरधोवनरजनादीनि करोथ, अहं तत्थ सम्पापुणिस्सामीति. ते तस्स ओसक्कितुकामतं ञत्वा त्वं पच्छा आगच्छेय्यासीति पक्कमिंसु.

सो थेरे अनुगन्त्वा निवत्तो विहारमेव आगन्त्वा भोजनसालादीनि ओलोकेन्तो विहारं रामणेय्यकं दिस्वा चिन्तेसि – ‘‘साधु वतम्हि न गतो. सचे अगमिस्सं, कोचि, देव, धम्मकथिको आगन्त्वा, सब्बेसं मनं भिन्दित्वा, विहारं अत्तनो निकायसन्तकं करेय्य, अथ मया पच्छा आगन्त्वा एतस्स पच्छतो लद्धपिण्डं भुञ्जन्तेन चरितब्बं भविस्सती’’ति.

सो अपरेन समयेन सुणाति, ‘‘ते किर भिक्खू गतट्ठाने एकनिकायद्वेनिकायएकपिटकद्वेपिटकादिवसेन बुद्धवचनं उग्गण्हित्वा अट्ठकथाचरिया जाता विनयधरा जाता सतपरिवारापि सहस्सपरिवारापि चरन्ति. ये पनेत्थ समणधम्मं कातुं गता, ते घटेन्ता वायमन्ता सोतापन्ना जाता, सकदागामिनो अनागामिनो अरहन्तो जाता, महासक्कारेन परिनिब्बुता’’ति. सो चिन्तेसि – ‘‘सचे अहम्पि अगमिस्सं, मय्हम्पेसा सम्पत्ति अभविस्स, इमं पन ठानं मुञ्चितुं असक्कोन्तो अतिविय परिहीनम्ही’’ति. अयं पुग्गलो अत्तनो मुदुताय तं ठानं अमुञ्चन्तो अरियमग्गं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.

गङ्गाय नदिया तिरियं पतित्वा, वालिकाय ओत्थटभावेन अन्तरसेतु विय हुत्वा, बहूनं पच्चयो जातरुक्खो विय रथविनीतमहाअरियवंसचन्दोपमादिपटिपदासु अञ्ञतरं पटिपदं उग्गहेत्वा ठितो ओलीनवुत्तिको पुग्गलो वेदितब्बो. सो हि तं पटिपत्तिनिस्सितं धम्मं उग्गहेत्वा पकतिया मञ्जुस्सरो चित्तलपब्बतादिसदिसं महन्तं ठानं गन्त्वा चेतियङ्गणवत्तादीनि करोति. अथ नं धम्मस्सवनग्गं पत्तं आगन्तुका दहरा ‘‘धम्मं कथेही’’ति वदन्ति. सो सम्मा उग्गहितं धम्मं पटिपदं दीपेत्वा कथेति. अथस्स पंसुकूलिकपिण्डपातिकादयो सब्बे थेरनवमज्झिमा भिक्खू ‘‘अहो सप्पुरिसो’’ति अत्तमना भवन्ति.

सो कस्सचि निदानमत्तं, कस्सचि उपड्ढगाथं, कस्सचि गाथं उपट्ठापेन्तो अयपट्टकेन आबन्धन्तो विय दहरसामणेरे सङ्गण्हित्वा महाथेरे उपसङ्कमित्वा, ‘‘भन्ते, अयं पोराणकविहारो अत्थि, एत्थ कोचि तत्रुप्पादो’’ति?, पुच्छति. थेरा – ‘‘किं वदेसि, आवुसो, चतुवीसति करीससहस्सानि तत्रुप्पादो’’ति. भन्ते, तुम्हे एवं वदेथ, उद्धने पन अग्गिपि न जलतीति. आवुसो, महाविहारवासीहि लद्धा नाम एवमेव नस्सन्ति, न कोचि सण्ठपेतीति. भन्ते, पोराणकराजूहि दिन्नं खीणासवेहि पटिग्गहितं कस्मा एते नासेन्तीति? आवुसो, तादिसेन धम्मकथिकेन सक्का भवेय्य लद्धुन्ति. भन्ते, मा एवं वदेथ, अम्हे पटिपत्तिदीपकधम्मकथिका नाम, तुम्हे मं ‘‘सङ्घकुटुम्बिको विहारुपट्ठाको’’ति मञ्ञमाना कातुकामाति. किं नु खो, आवुसो, अकप्पियमेतं, तुम्हादिसेहि पन कथिते अम्हाकं उप्पज्जेय्याति? तेन हि, भन्ते, आरामिकेसु आगतेसु अम्हाकं भारं करोथ, एकं कप्पियद्वारं कथेस्सामाति.

सो पातोव गन्त्वा, सन्निपातसालायं ठत्वा, आरामिकेसु आगतेसु ‘‘उपासका असुकखेत्ते भागो कुहिं, असुकखेत्ते कहापणं कुहि’’न्तिआदीनि वत्वा, अञ्ञस्स खेत्तं गहेत्वा, अञ्ञस्स देति. एवं अनुक्कमेन तं तं पटिसेधेन्तो तस्स तस्स देन्तो तथा अकासि, यथा यागुहत्था पूवहत्था भत्तहत्था तेलमधुफाणितघतादिहत्था च अत्तनोव सन्तिकं आगच्छन्ति. सकलविहारो एककोलाहलो होति, पेसला भिक्खू निब्बिज्ज अपक्कमिंसु.

सोपि आचरियुपज्झायेहि विस्सट्ठकानं बहूनं दुब्बचपुग्गलानं उपज्झं देन्तो विहारं पूरेति. आगन्तुका भिक्खू विहारद्वारे ठत्वाव ‘‘विहारे के वसन्ती’’ति, पुच्छित्वा, ‘‘एवरूपा नाम भिक्खू’’ति सुत्वा बाहिरेनेव पक्कमन्ति. अयं पुग्गलो सासने तिरियं निपन्नताय महाजनस्स पच्चयभावं उपगतो अरियमग्गं ओतरित्वा समाधिकुल्ले निसिन्नो निब्बानसागरं पापुणितुं न सक्कोति.

भगवन्तं एतदवोचाति ‘‘निब्बानपब्भारा’’ति पदेन ओसापितं धम्मदेसनं ञत्वा अनुसन्धिकुसलताय एतं ‘‘किं नु खो, भन्ते’’तिआदिवचनं अवोच. तथागतोपि हि इमिस्सं परिसति निसिन्नो ‘‘अनुसन्धिकुसलो भिक्खु अत्थि, सो मं पञ्हं पुच्छिस्सती’’ति तस्सेव ओकासकरणत्थाय इमस्मिं ठाने देसनं निट्ठापेसि.

इदानि ओरिमं तीरन्तिआदिना नयेन वुत्तेसु अज्झत्तिकायतनादीसु एवं उपगमनानुपगमनादीनि वेदितब्बानि. ‘‘मय्हं चक्खु-पसन्नं, अहं अप्पमत्तकम्पि रूपारम्मणं पटिविज्झितुं सक्कोमी’’ति एतं निस्साय चक्खुं अस्सादेन्तोपि तिमिरकवातादीहि उपहतपसादो ‘‘अमनापं मय्हं चक्खु, महन्तम्पि रूपारम्मणं विभावेतुं न सक्कोमी’’ति दोमनस्सं आपज्जन्तोपि चक्खायतनं उपगच्छति नाम. अनिच्चं दुक्खं अनत्ताति तिण्णं लक्खणानं वसेन विपस्सन्तो पन न उपगच्छति नाम. सोतादीसुपि एसेव नयो.

मनायतने पन ‘‘मनापं वत मे मनो, किञ्चि वामतो अग्गहेत्वा सब्बं दक्खिणतोव गण्हाती’’ति वा ‘‘मनेन मे चिन्तितचिन्तितस्स अलाभो नाम नत्थी’’ति वा एवं अस्सादेन्तोपि, ‘‘दुचिन्तितचिन्तितस्स मे मनो अप्पदक्खिणग्गाही’’ति एवं दोमनस्सं उप्पादेन्तोपि मनायतनं उपगच्छति नाम. इट्ठे पन रूपे रागं, अनिट्ठे पटिघं उप्पादेन्तो रूपायतनं उपगच्छति नाम. सद्दायतनादीसुपि एसेव नयो.

नन्दीरागस्सेतं अधिवचनन्ति यथा हि मज्झे संसीदित्वा थलं पत्तं दारुक्खन्धं सण्हथूलवालिका पिदहति, सो पुन सीसं उक्खिपितुं न सक्कोति, एवं नन्दीरागेन आबद्धो पुग्गलो चतूसु महाअपायेसु पतितो महादुक्खेन पिधीयति, सो अनेकेहिपि वस्ससहस्सेहि पुन सीसं उक्खिपितुं न सक्कोति. तेन वुत्तं ‘‘नन्दीरागस्सेतं अधिवचन’’न्ति.

अस्मिमानस्सेतं अधिवचनन्ति यथा हि थले आरुळ्हो दारुक्खन्धो हेट्ठा गङ्गोदकेन चेव उपरि वस्सेन च तेमेन्तो अनुक्कमेन सेवालपरियोनद्धो ‘‘पासाणो नु खो एस खाणुको’’ति वत्तब्बतं आपज्जति, एवमेव अस्मिमानेन उन्नतो पुग्गलो पंसुकूलिकट्ठाने पंसुकूलिको होति, धम्मकथिकट्ठाने धम्मकथिको, भण्डनकारकट्ठाने भण्डनकारको, वेज्जट्ठाने वेज्जो, पिसुणट्ठाने पिसुणो. सो नानप्पकारं अनेसनं आपज्जन्तो ताहि ताहि आपत्तीहि पलिवेठितो ‘‘अत्थि नु खो अस्स अब्भन्तरे किञ्चि सीलं, उदाहु नत्थी’’ति वत्तब्बतं आपज्जति. तेन वुत्तं ‘‘अस्मिमानस्सेतं अधिवचन’’न्ति.

पञ्चन्नेतं कामगुणानं अधिवचनन्ति यथा हि आवट्टे पतितदारुखन्धो अन्तोयेव पासाणादीसु आहतसमब्भाहतो भिज्जित्वा चुण्णविचुण्णं होति, एवं पञ्चकामगुणावट्टे पतितपुग्गलो चतूसु अपायेसु कम्मकारणखुप्पिपासादिदुक्खेहि आहतसमब्भाहतो दीघरत्तं चुण्णविचुण्णतं आपज्जति. तेन वुत्तं ‘‘पञ्चन्नेतं कामगुणानं अधिवचन’’न्ति.

दुस्सीलोति निस्सीलो. पापधम्मोति लामकधम्मो. असुचीति न सुचि. सङ्कस्सरसमाचारोति ‘‘इमस्स मञ्ञे इमस्स मञ्ञे इदं कम्म’’न्ति एवं परेहि सङ्काय सरितब्बसमाचारो. सङ्काय वा परेसं समाचारं सरतीतिपि सङ्कस्सरसमाचारो. तस्स हि द्वे तयो जने कथेन्ते दिस्वा, ‘‘मम दोसं मञ्ञे कथेन्ती’’ति तेसं समाचारं सङ्कस्सरति धावतीति सङ्कस्सरसमाचारो.

समणपटिञ्ञोति सलाकग्गहणादीसु ‘‘कित्तका विहारे समणा’’ति गणनाय आरद्धाय ‘‘अहम्पि समणो, अहम्पि समणो’’ति पटिञ्ञं देति, सलाकग्गहणादीनि करोति. ब्रह्मचारिपटिञ्ञोति उपोसथपवारणादीसु ‘‘अहम्पि ब्रह्मचारी’’ति पटिञ्ञाय तानि कम्मानि पविसति. अन्तोपूतीति वक्कहदयादीसु अपूतिकस्सपि गुणानं पूतिभावेन, अन्तोपूति. अवस्सुतोति रागेन तिन्तो. कसम्बुजातोति रागादीहि किलेसेहि कचवरजातो.

एतदवोचाति गोगणं गङ्गातीराभिमुखं कत्वा परिसपरियन्ते ठितो आदितो पट्ठाय याव परियोसाना सत्थु धम्मदेसनं सुत्वा, ‘‘सत्था ओरिमतीरादीनं अनुपगच्छन्तादिवसेन सक्का पटिपत्तिं पूरेतुन्ति वदति. यदि एवं पूरेतुं सक्का, अहं पब्बजित्वा पूरेस्सामी’’ति चिन्तेत्वा एतं ‘‘अहं खो, भन्ते’’तिआदिवचनं अवोच.

वच्छगिद्धिनियोति वच्छेसु सस्नेहा थनेहि खीरं पग्घरन्तेहि वच्छकस्नेहेन सयमेव गमिस्सन्तीति. निय्यातेहेवाति निय्यातेहियेव. गावीसु हि अनिय्यातितासु गोसामिका आगन्त्वा, ‘‘एका गावी न दिस्सति, एको गोणो, एको वच्छको न दिस्सती’’ति तुय्हं पिट्ठितो पिट्ठितो विचरिस्सन्ति, इति ते अफासुकं भविस्सति. पब्बज्जा च नामेसा सइणस्स न रुहति, अणणा पब्बज्जा च बुद्धादीहि संवण्णिताति दस्सनत्थं एवमाह. निय्याताति निय्यातिता. इमस्मिं सुत्ते वट्टविवट्टं कथितं.